SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विशति ॥४७॥ श्वेताम्बरसादैवततीर्थम् । अम्बिकया खस्थया पुष्यवृष्टिः श्वेताम्बरेषु कृता । ततो नष्टा दिक्पटा महाराष्ट्रादिदक्षिणदेशानगमन् । राज्ञाऽन्यैरपि सर्वसंधैश्चिरात्तत्र मिलितै मिर्नेमे । वित्तं ददे। प्रभासे चन्द्रप्रभः प्रणेमे । षन्दिमोक्षः सर्वत्रापि कारितः। आमस्य भुक्तौ गूजरादिदेशास्तदा तीर्थानां चिरं पूजोपयोगिनो हद्दाद्या याः प्रक्लप्ताः। एवं कार्याणि कृत्वा ससूरिन॒पो गोपगिरिं प्राविशत्। संघपूजादिमहास्तत्र नवनवाः। प्राप्तप्राये काले दुन्दुको राज्ये प्रतिष्ठितः। आपृष्टः सः। लोकोपि क्षमितः। अनृणो देशः कृतः। सह सूरिणा नावाऽऽरूढो गङ्गासरित्तीरे तीर्थ मागधं गतः । तत्र जले धूमं दृष्टवान् । तदा सरीन्द्रमक्षमयत् । संसारमसारं विदन् अनशनमगृह्णत् । समाधिस्थः श्रीविक्रमकालात् अष्टशतवर्षेषु नवत्यधिकेषु व्यतीतेषु भाद्रपदे शुक्लपञ्चम्यां पञ्च परमेष्टिनः स्मरन् राजा दिवमध्यष्ठात् । सूरयस्तत्त्वज्ञा अपि रुरुदुः। चिरप्रीतिमोहो दुर्जय एव । सेवकास्तु चक्रन्दुः-" हा शरणागतरक्षावज्रकुमार ! हा राजस्थापनदाशरथे ! हा अश्व| दमननल ! हा सत्यवाग् युधिष्ठिर ! हा हेमदानकर्ण ! हा मज्जाजेनत्वश्रेणिक ! हा सूरिसेवासम्प्रते ! हा अनृणीकरणविक्रमादित्य ! हा वीरविद्याशातवाहन ! अस्मान् विहाय क्व गतोऽसि ?। दर्शयैकदाऽस्मभ्यमात्मानम् । मैकाकिनो मुञ्च ।" एवं विलपन्तस्ते मूरिभिः प्रतिबोधिताः-" भो भोः सत्यं देवेन पापेन । For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy