________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विंशति
प्रबन्धः
॥१०२॥
-
सङ्घप्रधानसाधर्मिका ऊचुः-"हेरत्न ! त्वं चिरं जीव । युवाऽसि राजपूज्योऽसि सहस्रलक्षजनपोषकोसि पवयं विनश्वरकलेवरव्ययेन स्थिरं धर्म जघृक्षामहे ।
जइ रविवजइ तो कुहइ, अह डज्झइ तउ च्छारं । एयह दुट्ठकलेवरह जं वाहियइ तं सार ॥१॥
मदनपूर्णसिंहभ्रातरौ जगदतुः-" आवयोस्त्वं ज्येष्ठो भ्राता । ज्येष्ठो भ्राता पिता यथा। पितरायत्तश्च पुत्रप्रायो लघुभ्राता। किं रामाग्रे युवा लक्ष्मणेन न प्राणास्तृणीकृताः।
लेहोन ज्ञायते देव ! प्रणामान मृदूक्तितः । ज्ञायते तु क्वचित्कार्ये सद्यः प्राणप्रदानतः॥१॥
पउमिणि—ने-“कुलस्त्रियायाः पत्याधीनाः प्राणाः । पत्यौ लोकान्तरिते जीवन्त्यपि मृताः शृङ्गाराधभावात् । ग्रथा| शशिना सह याति कौमुदी सह मेघेन तडिद् विलीयते। प्रमदाः पतिवम॑गा इति प्रतिपन्न हि विचेतनैरपि ॥१॥
__ भर्तरि मृते नार्याऽनुमर्तव्यम् । तावद्यदि मयि मृतायां त्वं जीवसि। तदा किं न लब्धं मया।" कोमल: माह तात!
एकदेहविनिर्माणादधमर्णीकृतैः सुतः । यशोधर्ममयं देहद्वयं पित्रोर्थिनिर्यते ॥ १ ॥
For Private And Personal