________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दभ्यो गृहमागतेभ्यो नास्माभिमहानल्पोऽपि कोऽपि सत्कारः कृतः। अधुना शृणु-"अस्मद्राज्ये वर्द्धनकुञ्जरो नाम महावादी बौद्धदर्शनी विदेशादागतोऽस्ति । स वादं जिघृक्षुः। यः कोऽपि वो राज्ये वादी भवति स आनीयताम् । अस्माकं भवद्भिः सह चिरत्न वैरम् | यः कोऽपि वादी विजयी भविष्यति तत्प्रभुरपरस्य राज्यं ग्रहिष्यति । मम वादिना यदा जीतं तदा त्वदीयं राज्यं मया ग्राह्यम् । यदा तव वादिना जितं तदा मदीयं राज्यं त्वया ग्राह्यम् । अयं पण। वाग्युद्धमेवास्तु । किं मानवकदर्थनेन?" आमेनोक्तम्-"दूत! त्वया यदुक्तं तद्धर्मेण कथापितमथवा त्वया खतुण्डकण्डूतिमात्रेणोक्तम् ? यदि तव प्रभुः सप्ताङ्गं राज्यं वादे जीते समर्पयिष्यति मे इति सत्यम् । तदा वयं वादिनमादायागच्छाम इति ।" दूतेनोक्तम्-कारणवशाद् युधिष्ठिरेणापि द्रोणपर्वण्यसत्यं भाषितम् । मत्प्रभुस्तु कारणेऽपि न मिथ्या भाषते ।" आमेन दूतः प्रैषि । उक्तदिनोपरि च षापभादि च गृहीत्वा अर्द्धपथे उक्तस्थाने आमोगमत्। धर्मभूपतिरपि वर्द्धनकुञ्जरं वादीन्द्रमादाय तन्नाजगाम । परमारंवंदयं नरेन्द्र महाकविं वाक्पतिनामानं खसेवकं सहादाय समाययौ। उचितप्रदेशे आबासान्दापयामास । तौ वादिप्रतिवादिनी पक्षप्रतिपक्षपरिग्रहेण वादमारेभेते । सभ्याः कौतुकाक्षिप्ताः पश्यन्ति । द्वापपयसामान्यप्रतिभौ। बादे षण्मासा गताः । द्वयोः कोऽपि न हारयति न जयति। आमेन सूरयः प्रोक्ता सायम्-"राजकार्याणां प्रत्यूहः स्यात् निजीयतामसी शीघम् ।" सूरिणा भणितम्-"प्रात.
For Private And Personal