________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विशति ॥१३७॥
जयन्तसिंहो वदति
प्रिवन्धः खद्योलमात्रतरला गगनान्तरालमुच्चावचाः कति न दन्तुरयंति ताराः।।
२४ एकेन तेन रजनीपतिना विनाऽद्य सर्वाः दिशो मलिनमाननमुद्वहन्ति ॥ २॥ कवयः प्राहु:मन्ये मन्दधियां विधे ! त्वमवधिवैराय सेवार्थिनां, यद्वैरोचनसातवाहनबलिश्चैताजभोजादयः ।
कल्पान्तं चिरजीविनोन विहितास्ते विश्वजीवातवो, मार्कण्डध्रुवलोमशाश्च मुनयः तृप्ताः प्रभूतायुषः ॥३॥ | लोकास्तु वदन्तिकिं कुर्मः कमुपालभेमहि किमु ध्यायाम कं वा स्तुमः कस्याने स्वमुखं स्वदुःखमलिनं सन्दर्शयामोऽधुना। शुष्कः कल्पतरुयंदङ्गणगतश्चिन्तामणिश्चाजरन् क्षीणा कामगवी च कामकलशो भग्नो हहा ! दैवतः॥४॥ __ततस्तेजःपालजयन्तसिंहाभ्यां मन्त्रिदेहस्य शत्रुञ्जयैकदेशे संस्कारः कृतः। संस्कारभूम्यासन्नः स्वर्गारोहणनामा प्रासादो नमिविनमियुतऋषभसनाथः कारितः। मन्त्रिण्यौ ललितादेवी सोषू अनशनेन ममृतुः। श्रीतेजःपालस्त्वनुपमासहितो मध्यमव्यापार भोगभाग लेशतोऽपि तथैव दानं तन्वानः १३०८वर्षे धामगमत्॥ १३७॥
For Private And Personal