SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भूतम् । इदं केनोपायेन लभ्यते । आयैर्भणितम्-" चारित्रंण।" अवन्तीसुकुमालोऽप्याविभातात् गृहीतमलिनीगुल्मविमानग्रहणप्रतिज्ञः स्वयं कृतलोचः पश्चाद्गुरुभिरपि दत्तसामायिकः कन्थारकुडडाल्यं स्मशान-1 मेस्य कायोत्सर्गी भवान्तरभार्यया शृङ्गालीस्वमापनया सार्भया क्षुधितया दर्भसूचीवेधक्षरतधिरधारागन्धलुब्धागतया भक्षितः सद्भावनाज़र्जरितपापकर्मा नलिनीगुल्ममाप । प्रातस्तन्माता सस्नुषा गुरुमुखादवगतपुत्रवृत्तान्ता तत्स्मशानमागत्य विललाप विविधं विविधम् । पुनर्गृहमागता । एका सगर्भा बबूं गृहे मुक्स्था एकत्रिंशता बघूभिः सह संयममादाय दिवं लेमे । सगर्भस्थितबधुकाजातपुत्रेण स्फीतयौवनेनायं प्रासादः कारितः । मम पितुर्महाकालोऽत्राभूदिति महाकालनाम दत्तम् । श्रीपार्श्वनाथविम्ब मध्ये स्थापितम् । कत्यप्यहानि लोके पूजितम् । अवसरे द्विजैस्तदन्तरितं कृत्वा मृडलिङ्गमिदं स्थापितम् । अधुना मत्कृतस्तुतितुष्टः श्रीपाश्वनाथः प्रादुरासीत् । मत्प्रेरितशासनदेवतापलातु मुडलिङ्गं विदधे । सत्यासत्ययोरन्तरं पश्य । तच्यू बणान्नृपः शासने ग्रामशतान्यदत्त देवाय । उपगुरुः ससम्यक्त्वां द्वादशवतीमुपादत्त । अश्लाघत वादीन्द्रम् - अहयो यहवः सन्ति भेकभक्षणतत्पराः । एक एष श्रीशंषो हि धरणीधरणक्षमः ॥१॥ तथा त्वम् । अहो ! कवित्वशक्तिस्ते । पदं सपदि कस्य न स्फुरति शर्करापाकिम रसालरससे किम भणिति वैभवं कस्य न । तदेतदुभयं किमप्यमृतनिज्झरोगारिमैस्तरङ्गयति यो रसैः स पुनरेक एव क्वचित् ॥१॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy