________________
. १२५
समयसारः। पुद्गलपरिणामस्याहेतुत्वाजीव एव । इति विकल्पानंतरमेव शिथिलितकर्मविपाको विघटितघनौघघटनो दिगाभोग इव निरर्गलप्रसरः सहजविजुंभमाणचिच्छक्तितया यथा यथा विज्ञानघनस्वभावो भवति तथा तथास्रवेभ्यो निवर्तते । यथा यथास्रवेभ्यश्च निवर्तते तथा तथा विज्ञानघनस्वभावो भवतीति । तावद्विज्ञानघनस्वभावो भवति यावत्सम्यगास्रवेभ्यो निवर्त्तते । तावदास्रवेभ्यश्च निवर्त्तते यावत्सम्यग्विज्ञानघनस्वभावो भवतीति ज्ञानास्रवनिवृत्त्योः समकालत्वं । "इत्येवं विरचय्य संप्रति परद्रव्यानिवृत्तिं परां खं विज्ञानघनखहितादित्यवनिवर्त्तते तस्मिन्नेव क्षणे ज्ञानी भवतीति भेदज्ञानेन सहास्रवनिवृत्तेः समानकालत्वं सिद्धमिति । ननु पुण्यपापादिसप्तपदार्थानां पीठिकाव्याख्यानं क्रियत इति पूर्व प्रतिज्ञा कृता भवद्भिः व्याख्यानं पुनः अज्ञानीसज्ञानीजीवस्वरूपमुख्यत्वेन कृतं पुण्यपापादिसप्तपदार्थानां पीठिकाव्याख्यानं कथं घटत इति । तन्न । जीवाजीवौ यदि नित्यमेकांतेनापरिणामिनौ भवतस्तदा द्वावेव पदार्थों जीवाजीवाविति । यदि च एकांतेन परिणामिनौ तन्मयौ भवतस्तदैक एव पदार्थः । किंतु कथंचित्परिणामिनौ भवतः । कथंचित्कोर्थः ? यद्यपि जीवः शुद्धनिश्चयेन स्वरूपं न त्यजति तथापि व्यवहारेण कर्मोदयवशाद्रागाद्युपाधिपरिणामं गृह्णाति । यद्यपि रागाद्युपाधिपरिणामं गृह्णाति तथापि स्वरूपं न त्यजति स्फटिकवत् । तत्रैवं कथंचित्परिणामित्वे सति अज्ञानी बहिरात्मा मिथ्यादृष्टिर्जीवो विषयकषायरूपाशुभोपयोगपरिणामं करोति । कदाचित्पुनश्चिदानंदैकस्वभावं शुद्धात्मानं त्यक्त्वा भोगाकांक्षानिदानस्वरूपं शुभोपयोगपरिणामं च करोति । तदा काले द्रव्यभावरूपाणां पुण्यपापास्रवबंधपदार्थानां कर्तृत्वं घटते । तत्र ये भावरूपाः पुण्यपापादयस्ते जीवपरिणामा द्रव्यरूपास्ते चाजीवपरिणामा इति। यः पुनः सम्यग्दृष्टिरंतरात्मा स ज्ञानी जीवः स मुख्यवृत्त्या निश्चयरत्नत्रयलक्षणशुद्धोपयोगबलेन निश्चयचारित्राविनाभाविवीतरागसम्यग्दृष्टिर्भूत्वा निर्विकल्पसमाधिरूपपरिणामपरिणतिं करोति तदा तेन परिणामेन संवरनिर्जरामोक्षपदार्थानां द्रव्यभावरूपाणां कर्ता भवति । जीव है वह समस्त पुद्गलपरिणामका कारण नहीं है इसलिये दुःखफल स्वरूप नहीं है। ऐसा आस्रवोंका और जीवका भेदज्ञान होनेसे जिसके कर्मका उदय शिथिल होगया है और जैसे दिशा वादलेकी रचनाके अभाव होनेसे निर्मल होजाती है उसतरह अमर्याद फैलावरूप हुआ तथा स्वभावकर ही उदयवान हुई चिच्छक्तिपनेकर जैसा जैसा विज्ञान घन स्वभाव होता है वैसा वैसा आस्रवोंसे निवृत्त होता जाता है तथा जैसा जैसा आस्रवोंसे निवृत्त होता जाता है वैसा वैसा विज्ञान घन स्वभाव होता जाता है । ऐसा वहांतक विज्ञानघन स्वभाव होता है जहांतक अच्छी तरह विज्ञानधन स्वभाव है। इसतरह ज्ञान और आस्रवकी निवृत्तिके समकालपना है ॥ भावार्थ-आस्रव और आत्माका पूर्वकथितरीतिसे भेद जाननेके वाद जितना अंश जिस जिस तरह आस्रवोंसे निवृत्त होता है उस उसप्रकार उतना अंश विज्ञान घन स्वभाव होता जाता है । जव समस्त मानवोंसे निवृत्त हो जाता है तब संपूर्ण ज्ञानघन स्वभाव आस्मा होता है।