________________
अधिकारः ७ ]
समयसारः ।
आचारादि ज्ञानं जीवादि दर्शनं च विज्ञेयं ।
जीवनकार्यं च तथा भणति चरित्रं तु व्यवहारः ॥ २७६ ॥ आत्मा खलु मम ज्ञानमात्मा मे दर्शनं चरित्रं च । आत्मा प्रत्याख्यानं आत्मा मे संवरो योगः ॥ २७७ ॥
३६९
आचारादिशब्दश्रुतं ज्ञानस्याश्रयभूतत्वात् ज्ञानं, जीवादयो नवपदार्थ दर्शनस्याश्रयत्वाद्दर्शनं, षट्जीवनिकायश्चारित्रस्याश्रयत्वात् चारित्रं, व्यवहारः । शुद्ध आत्मा ज्ञानाश्रयत्वाद् ज्ञानं, शुद्ध आत्मा दर्शनाश्रयत्वाद्दर्शनं, शुद्ध आत्मा चारित्राश्रयत्वाच्चारित्रमिति निश्चयः । तत्राचारादीनां ज्ञानाश्रयत्वस्यानैकांतिकत्वाद् व्यवहारनयः प्रतिषेध्यः । निश्च
निश्चयनयेन मम सम्यग्ज्ञानं भवति । आदा मे दंसणे शुद्धात्मा सम्यग्दर्शनस्याश्रयत्वात् कारणत्वात् निश्चयेन सम्यग्दर्शनं भवति चरिते य शुद्धात्मा चारित्रस्याश्रयत्वाद्धेतुत्वात् निश्वयेन सम्यक् चारित्रं भवति आदा पच्चक्खाणे शुद्धात्मा रागादिपरित्यागलक्षणस्याप्रत्याख्यानस्याश्रयत्वात्कारणत्वात् निश्चयेन प्रत्याख्यानं भवति । आदा मे संवरे शुद्धात्मा स्वरूपोपलब्धिवलेन हर्षविषादादिनिरोधलक्षणसंवरस्याश्रयत्वान्निश्चयेन संवरो भवति जोगे शुभाशुभचिंतानिरोधलक्षणपरमध्यानशब्दवाच्ययोगस्याश्रयत्वाद्धेतुत्वात् परमयोगो भवतीति शुद्धात्माश्रितत्वेन निश्चयमोक्षमार्गो ज्ञातव्यः । एवं व्यवहारनिश्चयमोक्षमार्गस्वरूपं कथितं । तत्र निश्चयः प्रतिषेधको भवति, व्यवहारस्तु प्रतिषेध्य इति । कस्मादिति चेत्, निश्चयमोक्षमार्गे स्थितानां नियमेन मोक्षो भवति, व्यवहारमोक्षमार्गे स्थितानां तु न भवति च । कथं न भवति ? इति
I
आत्मा ] मेरा आत्मा ही [ दर्शनं चरित्रं च ] दर्शन और चारित्र है [ आत्मा ] मेरा आत्मा ही [ प्रत्याख्यानं ] प्रत्याख्यान है [ मे आत्मा ] मेरा आत्मा ही [ संवरः योगः ] संवर और योग ( समाधि - ध्यान ) है । ऐसे निश्चयनय कहता है । टीका - आचारांगको आदि लेकर शब्दश्रुत है वह ज्ञान है क्योंकि यह ज्ञानका आश्रय है । जीवको आदि लेकर नव पदार्थ हैं वे दर्शन हैं क्योंकि ये दर्शन के आश्रय हैं छह जीवोंकी रक्षा है वह चारित्र है क्योंकि यह चारित्रका आश्रय है । इस तरहसे तो व्यवहारनयके वचन हैं । शुद्ध आत्मा ज्ञान है क्योंकि ज्ञानका आश्रय आत्मा ही है। I शुद्ध आत्मा ही दर्शन है क्योंकि दर्शनका आश्रय आत्मा ही है । शुद्ध आत्मा ही चारित्र है क्योंकि चारित्रका आश्रय आत्मा ही है । ऐसे निश्चयनयके वचन हैं । आचारांग आदिकको ज्ञानादिकके आश्रयपनेका व्यभिचार है, आचारांग आदिक तो हों परंतु ज्ञान आदिक नहीं भी हों इसलिये व्यवहारनय प्रतिषेधने योग्य है निश्चयनय में शुद्ध आत्मा के साथ ज्ञानादिकके आश्रयपनेका ऐकांतिकपना है, जहां शुद्ध आत्मा है वहां ही ज्ञान दर्शन
४७ समय०