Book Title: samaysar
Author(s): Manoharlal Shastri
Publisher: Jain Granth Uddhar Karyalay

View full book text
Previous | Next

Page 552
________________ अधिकारः ९ ] समयसारः । य एव परमार्थ परमार्थ बुद्ध्या चेतयंते ते एव समयसारं चेतयंते । "अलमलमतिजल्पैर्दुर्विकल्पैरनल्पैरयमिह परमार्थश्चित्यतां नित्यमेकः । स्वरसविसरपूर्णज्ञानविस्फूर्तिमात्रा ताणि सेवते इत्यादि वचनेनेति । न हि शालितंदुलस्य बहिरंगतुषे विद्यमाने सत्यभ्यंतरतुषस्य त्यागः कर्तुमायाति । अभ्यंतरतुषत्यागे सति बहिरंगतुषत्यागो नियमेन भवत्येव । अनेन न्यायेन सर्वसंगपरित्यागरूपे बहिरंगद्रव्यलिंगे सति भावलिंगं भवति न भवति वा नियमो नास्ति, अभ्यंतरे तु भावलिंगे सति सर्वसंगपरित्यागरूपं द्रव्यलिंगं भवत्येवेति । हे भगवन् भावलिंगे सति बहिरंगं द्रव्यलिंगं भवतीति नियमो नास्ति साहारणासाहारणेत्यादि वचनादिति ? परिहारमाह- कोऽपि तपोधनो ध्यानारूढ स्तिष्ठति तस्य केनापि दुष्टभावेन वस्त्रवेष्टनं कृतं । आभरणादिकं वा कृतं तथाप्यसौ निर्ग्रथ एव । कस्मात् ? इति चेत्, बुद्धिपूर्वकममत्वाभावात् पांडवादिवत् । येऽपि घटिकाद्वयेन मोक्षं गता भरतचक्रवर्त्यादयस्तेऽपि निर्बंथरूपेणैव । परं किंतु तेषां परिग्रहत्यागं लोका न जानंति स्तोककालत्वादिति भावार्थः । एवं भावलिंगरहितानां द्रव्यलिंगमात्रं मोक्षकारणं न भवति । भावलिंगसहितानां पुनः सहकारिकारणं भवतीति व्याख्यानमुख्यत्वेन त्रयोदशस्थले गाथासप्तकं गतं । अत्राह शिष्यः - केवलज्ञानं शुद्धं छद्मस्थज्ञानं पुनरशुद्धं शुद्धस्य केवलज्ञानस्य कारणं न भवति । कस्मात् ? इति चेत् — सुद्धं तु वियाणंतो सुद्धमेवप्पयं लहदि जीवो इति वचनात् इति ? नैवं, छद्मस्थज्ञानस्य कथंचिच्छुद्धाशुद्धत्वं । तद्यथा - यद्यपि केवलज्ञानापेक्षया शुद्धं न भवति तथापि मिथ्यात्वरागादिरहितत्वेन वीतरागसम्यक्त्वचारित्रसहितत्वेन च शुद्धं । अभेदनयेन पुनः छद्मस्थानां संबंधि भेदज्ञानमात्मस्वरूपमेव ततः कारणात्तेनैकदेशव्यक्तिरूपेणापि सकलव्यक्तिरूपं केवलज्ञानं जायते नास्ति दोषः । अथ मतं सावरणत्वात्क्षायोपशमिकत्वाद्वा शुद्धं न भवति मोक्षोऽपि नास्ति । कस्मात् ? छद्मस्थानां ज्ञानं यद्यप्येकदेशेन निरावरणं तथापि केवलज्ञानापेक्षया नियमेन सावरणमेव क्षायोपशमिकमेवेति । अथाभिप्रायः पारिणामिकभावशुद्धः तेन मोक्षो भविष्यति तदपि न घटते । कस्मात् ? इति चेत् केवलज्ञानात्पूर्वे पारिणामिकभावस्य शक्तिमात्रेण शुद्धत्वं न व्यक्तिरूपेणेति । तथाहि —– जीवत्वभव्यत्वाभव्यत्वरूपेण त्रिविधो हि पारिणा ५३९ - साकी प्राप्ति होती है वे ही मोक्ष पाते हैं ।। आगे कहते हैं कि बहुत कहने से पूरा पड़े एक परमार्थका ही चिंतन करना उसका २४४ वां काव्य है - अलमल इत्यादि । अर्थआचार्य कहते हैं कि बहुत कहने से और बहुतसे दुर्विकल्पोंसे तो पूरा पड़े पूरा पड़े कुछ लाभ नहीं । इस अध्यात्मग्रंथ में इस एक परमार्थको ही निरंतर अनुभवन करना चाहिये । क्योंकि निश्चयकर अपने रसके फैलावकर पूर्ण जो ज्ञान उसके स्फुरायमान होने मात्र जो समयसार परमात्मा उसके सिवाय अन्य कुछ भी सार नहीं है ॥ भावार्थ — पूर्ण ज्ञानस्वरूप आत्माका अनुभव निश्चयसे करना । इसके सिवाय कुछ भी सार नहीं है । आगे इस समयसार ग्रंथको पूर्ण करते हैं उसकी सूचनाका २४५ 1

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590