Book Title: samaysar
Author(s): Manoharlal Shastri
Publisher: Jain Granth Uddhar Karyalay

View full book text
Previous | Next

Page 557
________________ [परिशिष्टम् रायचन्द्रजैनशास्त्रमालायाम् । अथ परिशिष्टम् । अत्र स्याद्वादशुद्ध्यर्थं वस्तुतत्त्वव्यवस्थितिः । उपायोपेयभावश्च मनाक् भूयोऽपि चिंत्यते ॥ २४७॥ स्याद्वादो हि समस्तवस्तुतत्त्वसाधकमेवमेकमस्खलितं शासनमर्हत्सर्वज्ञस्य । स तु सर्वमनेकांतात्मकमित्यनुशास्ति सर्वस्यापि वस्तुनोऽनेकांतस्वभावत्वात् । अत्र वात्मवस्तुनो ज्ञानमात्रतया अनुशास्यमानेऽपि न तत्परिदोषः ज्ञानमात्रस्यात्मवस्तुनः स्वयमेवानेकांतत्वात् । तत्र यदेव तत्तदेवातत् यदेवैकं तदेवानेकं यदेव सत्तदेवासत् यदेव नित्यं तदेवानित्यमित्येकवस्तुवस्तुत्वनिष्पादकं परस्परविरुद्धशक्तिद्वयप्रकाशनमनेकांतः । तत्स्वात्मकव अथ परिशिष्टम् । अत्र स्याद्वादसिद्ध्यर्थ वस्तुतत्त्वव्यवस्थितिः। उपायोपेयभावश्च मनाग्भूयोऽपि चिंत्यते ॥ चिंत्यते विचार्यते कथ्यते मनाक् संक्षेपेण भूयः पुनरपि । काऽसौ ? वस्तुतत्त्वव्यवस्थितिः ? वस्तुतत्त्वस्य वस्तुतत्त्वस्वरूपस्य व्यवस्थितिर्व्याख्या । किमर्थं : स्याद्वादशुद्ध्यर्थं स्याद्वादनिश्चयार्थं । अत्र समयसारव्याख्याने समाप्तिप्रस्तावेन केवलं वस्तुतत्त्वव्यवस्थितिश्चिन्त्यते । उपायोपेयभावश्च । उपायो मोक्षमार्गः उपेयो मोक्ष इति । अतः परं स्याद्वादशब्दार्थः कः?-इति प्रश्ने सत्याचार्या उत्तरमाहुः-स्यात्कथंचित् विवक्षितप्रकारेणानेकांतरूपेण वदनं वादो जल्पः कथनं प्रतिपादनमिति स्याद्वादः स च स्याद्वादो भगवतोऽर्हतः शासनमित्यर्थः । तच्च भगवतः शासनं किं करोति ? सर्व वस्तु, अनेकांतात्मकमित्यनुशास्ति । अथ परिशिष्ट । अब यहां टीकाकार विचारते हैं कि, इस ग्रंथमें ज्ञानको प्रधानकर ज्ञानमात्र आत्मा कहते आये हैं। वहां कोई ऐसा तर्क करे कि जैनमतमें तो स्याद्वाद है ज्ञानमात्र कहनेसे तो एकांत आगया, स्याद्वादसे विरोध आया । तथा एक ही ज्ञानमें उपायतत्त्व और उपेयतत्त्व ये दो किसतरह बन सकते हैं ? ऐसे तर्कके दूर करनेके लिये कुछ कहते हैं उसका २४७ वां श्लोक यह है-अत्र स्याद्वाद इत्यादि । अर्थ-इस अधिकारमें स्याद्वादकी शुद्धिके लिये वस्तुतत्त्व विचारते हैं तथा एक ही ज्ञानमें उपायभाव और उपेयभाव कुछ एक विचारते हैं ॥ भावार्थ-यद्यपि यहां ज्ञानमात्र आत्मतत्त्व कहा है तौभी वस्तुका स्वरूप सामान्य विशेषात्मक अनेक धर्मस्वरूप है वह स्याद्वादसे सधता है। ज्ञानमात्र आत्मा भी वस्तु है उसकी व्यवस्था स्याद्वादसे साधते हैं और इस ज्ञानमें ही उपायउपेयभाव अर्थात् साध्यसाधकभाव विचारते हैं । अब

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590