________________
४२२
रायचन्द्रजैनशास्त्रमालायाम् । [ सर्वविशुद्धज्ञानदृष्टिः यथैव ज्ञानमकारकं तथाऽवेदकं चैव ।
जानाति च बंधमोक्षं कर्मोदयं निर्जरां चैव ॥ ३२०॥ यथात्र लोके दृष्टिदृश्यादत्यंतविभक्तत्वेन तत्करणवेदनयोरसमर्थत्वात् दृश्यं न करोति न वेदयते च, अन्यथाग्निदर्शनात्संधुक्षणवत् स्वयं ज्वलनकरणस्य, लोहपिंडवत्स्वयमेवीअकारयं तह अवेदयं चैव यथा दृष्टिः कर्ती दृश्यमग्निरूपं वस्तुसंधुक्षणं पुरुषवन्न करोति तथैव च तप्तायःपिंडवदनुभवरूपेण न वेदयति । तथा शुद्धज्ञानमप्यभेदेन शुद्धज्ञानपरिणतजीवो वा स्वयं शुद्धोपादानरूपेण न करोति न च वेदयति । अथवा पाठांतरं दिट्ठी सयंपि णाणं तस्य व्याख्यानं-न केवलं दृष्टिः क्षायिकज्ञानमपि निश्चयेन कर्मणामकारक तथैवावेदकमपि । तथाभूतः सन् किंकरोति ? जाणदि य वंधमोक्खं जानाति च । कौ ? बंधमोक्षौ । न केवलं बंधमोक्षौ कम्मुदयं णिजरं चेव शुभाशुभरूपं कर्मोदयं सविपाकाविपाकरूपेण सकामाकामरूपेण वा द्विधा निर्जरां चैव जानाति इति । एवं सर्वविशुद्धपारिणामिकपरमभावग्राहकेण शुद्धोपादानभूतेन शुद्धद्रव्यार्थिकनयेन कर्तृत्व-भोक्तृत्वबंध-मोक्षादिकारणपरिणामशून्यो जीव इति सूचितं । समुदायपातनिकायां पश्चाद्गाथाचतुष्टयेन जीवस्याकर्तृत्वगुणव्याख्यानमुख्यत्वेन सामान्यविवरणं कृतं । पुनरपि गाथाचतुष्टयेन शुद्धस्यापि यत्प्रकृतिभिर्वधो भवति तदज्ञानस्य माहात्म्यमित्यज्ञानसामर्थ्यकथनरूपेण विशेषविवरणं कृतं । पुनश्च गाथाचतुष्टयेन जीवस्याभोक्तृत्वगुणव्याख्यानमुख्यत्वेन व्याख्यानं कृतं । तदनंतरं शुद्ध. निश्चयेन तस्यैव कर्तृत्वबंधमोक्षादिककारणपरिणामवर्जनरूपस्य द्वादशमाथाव्याख्यानस्योपसंहाररूपेण गाथाद्वयं गतं ॥ इति समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ मोक्षाधिकारसंबंधिनी चूलिका समाप्ता । अथवा द्वितीयव्याख्यानेनात्र मोक्षाधिकारः समाप्तः ।
है उनका [अकारकं चैव अवेदकं ] कर्ता भोक्ता नहीं है [ तथा चैव ] उसीतरह [ज्ञानं ज्ञान भी [बंधमोक्षं] बंध मोक्ष [कर्मोदयं ] कर्मका उदय [च ] और । निजरां] निर्जराको [ जानाति ] जानता ही है करनेवाला भोगनेवाला नहीं है। टीका-जैसे इस लोकमें नेत्र, देखने योग्य पदार्थोंसे अत्यंत भिन्न होनेसे उनके करने
और भोगनेको असमर्थ है उस भिन्नपनेसे दृश्य पदार्थको न तो कर्ता है और न भोगता है । यदि ऐसा न हो तो अग्निको जलानेवालेकी तरह व अग्निसे तप्तायमान लोहके पिंडकी तरह अग्निके देखनेसे नेत्रके कर्ता भोक्तापन अवश्य आजायगा सो है नहीं, नेत्रका केवल दर्शनमात्र स्वभाव है इसलिये दृश्यको केवल देखता ही है । उसीतरह ज्ञान भी आप नेत्रवत् ही है इसलिये कर्मसे अत्यंत भिन्न होनेसे निश्चयकर उस कर्मको करने और भोगने में असमर्थ है उसपनेसे कर्मको न तो करता है न भोगता है । केवल ज्ञानमात्र स्वभावपनेसे कर्मके बंध मोक्ष उदयको तथा उसकी निर्जराको केवल जानता ही है ।