________________
अधिकारः ९] समयसारः।
४६७ भवति यथात्मनो ज्ञानं भवदात्मैव मवति इति तत्त्वसंबंधे जीवति चेतयिता पुद्गलादेर्भवन् पुद्गलादिरेव भवेत् । एवं सति चेतयितुः स्वद्रव्योच्छेदः । न च द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषिद्धत्वाद्रव्यस्यास्त्युच्छेदः । ततो न भवति चेतयिता पुद्गलादेः । यदि न भवति चेतयिता पुद्गलादेस्तर्हि कस्य चेतयिता भवति? चेतयितुरेव चेतयिता भवति । ननु कतरोऽन्यश्चेतयिता चेतयितुर्यस्य चेतयिता भवति ? न खल्वन्यश्चेतयिता चेतयितुः किंतु स्वस्खाम्यंशावेवान्यौ । किमत्र साध्यं स्वखाम्यंशव्यवहारेण ? न किमपि । तर्हि न कस्याप्यपोहकः, अपोहकोऽपोहक एवेति निश्चयः । यथा च सैव सेटिका श्वेतगुणनिर्भरस्वभावा स्वयं कुड्यादिपरद्रव्यस्वभावेनापरिणममाना कुड्यादिपरद्रव्यनिमितकेनात्मनः श्वेतगुणनिर्भरस्वभावस्य परिणामेनोत्पद्यमानमात्मस्वभावेन श्वेतयतीति व्यवह्रियते तथा चेतयितापि ज्ञानगुणनिर्भरस्वभावः स्वयं पुद्गलादिपरद्रव्यस्वभावेनापरिणममानः पुद्गलादिपरद्रव्यं चात्मस्वभावेनापरिणमयन् पुद्गलादिपरद्रव्यनिमित्तकेनात्मनो ज्ञानगुणनिर्भरस्वभावस्य परिणामेनोत्पद्यमानः पुद्गलादिपरद्रव्यं चेतयितृमिमित्तकेनात्मनः स्वभावस्य परिणामेनोत्पद्यमान मात्मनः स्वभावेन जानातीति व्यवह्रियते । किंच यथा च सेटिका श्वेतगुणनिर्भरखभावा स्वयं कुड्यादिपरद्रव्यस्वभावेनापरिणममाना कुड्यादिपरद्रव्यं
परकीयसुखदुःखसंवेदनकाले सुखी दुःखी च प्राप्नोति न च तथा । यद्यपि स्वकीयसुखसंवेदनापेक्षया निश्चयः, परकीयसुखसंवेदनापेक्षया व्यवहारस्तथापि छद्मस्थजनापेक्षया सोऽपि निश्चय एवेति । ननु सौगतोऽपि ब्रूते व्यवहारेण सर्वज्ञः, तस्य किमिति दूषणं दीयते भवद्भिरिति ? तत्र परिहारमाह-सौगतादिमते यथा निश्चयापेक्षया व्यवहारो मृषा, तथा व्यवहार
उपजता जो पुद्गलादि परद्रव्य उसको अपने स्वभावकर त्यागता है । ऐसा व्यवहार किया जाता है । ऐसे ये आत्माके ज्ञानदर्शन चारित्र वे ही हुए पर्याय उनके निश्चय व्यवहारका प्रकार है। इसीतरह अन्य भी जो कोई पर्याय हैं उन सभी पर्यायोंका निश्चय व्यवहार जानना ॥ भावार्थ-आत्माका शुद्धनयकर एक चेतनामात्र स्वभाव है। उसके परिणाम देखना जानना श्रद्धना और परद्रव्यसे निवृत्त होना है। वहां निश्वयनयकर विचारिये तब आत्मा परद्रव्यका ज्ञायक नहीं कहा जासकता न दर्शक न श्रद्धान करनेवाला न त्याग करनेवाला कहा जासकता है । क्योंकि परद्रव्यका और आत्माका निश्चयकर कुछ भी संबंध नहीं है । जो ज्ञाता द्रष्टा श्रद्धान करनेवाला त्याग करनेवाला, ए सब भाव हैं सो आप ही है । भाव्य भावकका भेद कहना भी व्यवहार है । और परद्रव्यका ज्ञाता द्रष्टा श्रद्धान करनेवाला त्याग करनेवाला जो कहते हैं वह भी व्यवहारनयसे कहते हैं, क्योंकि परद्रव्यका और आत्माका निमित्त नैमित्तिक भाव