________________
रायचन्द्रजैनशास्त्रमालायाम् । [ सर्वविशुद्धज्ञानचेया उ पयडीयर्ट उप्पज्जइ विणस्सइ। पयडीवि चेययह्र उप्पजइ विणस्सइ ॥ ३१२॥ एवं बंधो उ दुण्हंपि अण्णोण्णप्पच्चया हवे । अप्पणो पयडीए य संसारो तेण जायए ॥ ३१३॥
चेतयिता तु प्रकृत्यर्थमुत्पद्यते विनश्यति । प्रकृतिरपि चेतकार्थमुत्पद्यते विनश्यति ॥ ३१२॥ एवं बंधस्तु द्वयोरपि अन्योन्यप्रत्ययाद्भवेत् ।
आत्मनः प्रकृतेश्च संसारस्तेन जायते ॥ ३१३ ॥ अयं हि आ संसारत एव प्रतिनियतस्खलक्षणानिर्ज्ञानेन परमात्मनोरेकत्वाध्यासस्य करणात्कर्ता सन् चेतयिता प्रकृतिनिमित्तमुत्पादविनाशावासादयति । प्रकृतिरपि चेतयितृनिमित्तमुत्पत्तिविनाशावासादयति । एवमनयोरात्मप्रकृत्योः कर्तृकर्मभावाभावेप्यन्योन्यनिमित्तनैमित्तिकभावेन द्वयोरपि बंधो दृष्टः, ततः संसारः तत एव च तयोः कर्तृकर्मव्यवहारः ॥३१२।३१३॥ ज्ञानावरणादिप्रकृतिभिर्यद् बंधो भवति तदज्ञानस्य माहात्म्यमिति प्रज्ञापयति;-चेदा आत्मा स्वस्थभावच्युतः सन् प्रकृतिनिमित्तं कर्मोदयनिमित्तमुत्पद्यते । विनश्यति च विभावपरिणामैः पर्यायैः । प्रकृतिरपि चेतयितृकार्य जीवसंबंधिरागादिपरिणामनिमित्तं ज्ञानावरणादिकर्मपर्यायैः उत्पद्यते विनश्यति च । एवं पूर्वोक्तप्रकारेण बंधो जायते द्वयोः-स्वस्थभावच्युतस्यात्मनः, कर्मवर्गणायोग्यपुद्गलपिंडरूपाया ज्ञानावरणादिप्रकृतेश्च । कथंभूतयोर्द्वयोः ? अन्योन्यप्रत्यययोः, परस्परनिमित्तकारणभूतयोः । एवं रागाद्यज्ञानभावेन बधो भवति तेन बंधेन संसारो जायते, न च
आगे इस अज्ञानकी महिमाको प्रगट करते हैं;-[चेतयिता तु] चेतनेवाला आत्मा तो [प्रकृत्यर्थ ] ज्ञानावरणादि कर्मकी प्रकृतियोंके निमित्तसे [ उत्पद्यते ] उत्पन्न होता है [ विनश्यति ] तथा विनसता है और [प्रकृतिरपि] प्रकृति भी
चेतकार्थ ] उस चेतनेवाले आत्माके लिये [ उत्पद्यते ] उत्पन्न होती है [विनश्यति ] तथा विनाशको प्राप्त होती है। आत्माके परिणामोंके निमित्तसे उसीतरह परिणमती है । [ एवं ] इसतरह [ द्वयोः] दोनों [ आत्मनः च प्रकृतेः] आत्मा
और प्रकृतिके [अन्योन्यप्रत्ययात् ] परस्पर निमित्तसे [बंधः] बंध होता है [च तेन ] और उस बंधकर [ संसारः जायते] संसार उत्पन्न होता है । टीका-यह आत्मा अनादिसंसारसे लेकर अपने और बंधके जुदे जुदे लक्षणका भेद ज्ञान न होनेसे पर और आत्माके एकपनेका निश्चित अभिप्राय करनेसे परद्रव्यका कर्ता हुआ ज्ञानावरणआदि कर्मकी प्रकृतिके निमित्तसे उत्पन्न होना विनाश होना करता है।