________________
अधिकारः ७ ]
समयसारः ।
ततः स्थितमेतत् ;
―――――――
राय य दोस िय कसायकम्मेसु चेव जे भावा । तेहिं' दु परिणमंतो रायाई बंधदे चेदा ॥ २८२ ॥ रागे च दोषे च कषायकर्मसु चैव ये भावाः ।
तैस्तु परिणममानो रागादीन् बध्नाति चेतयिता ॥ २८२ ॥
. ३७५
य इमे किलाज्ञानिनः पुद्गलकर्मनिमित्ता रागद्वेषमोहादिपरिणामास्त एव भूयो रागद्वेषमोहादिपरिणामनिमित्तस्य पुद्गलकर्मणो बंधहेतुरिति ॥ २८२ ॥
गाथायामहं रागादीत्यभेदेन परिणमन् सन् तानि रागादिभावोत्पादकानि नवतरद्रव्यकर्माणि बनातीत्युक्तं । अत्र तु शुद्धात्मभावनारहितत्वेन मदीयो रागः इति संबंधेन परिणमन् सन् तानि नवतरद्रव्यकर्माणि बध्नाति, इति विशेष: ? । किं च विस्तरः — यत्र मोहरागद्वेषा व्याख्यायंते तत्र मोहशब्देन दर्शनमोहः मिथ्यात्वादिजनक इति ज्ञातव्यं, रागद्वेषशब्देन तु क्रोधादिकषायोत्पादश्चारित्रमोह ज्ञातव्यः । अत्राह शिष्यः –— मोहशब्देन तु मिथ्यात्वादिजनको दर्शनमोहो भवतु दोषो नास्ति द्वेषशब्देन चारित्रमोह इति कथं भण्यते ? इति पूर्वपक्षे परिहारं ददातिकषायवेदनीयाभिधानचारित्रमोहमध्ये क्रोधमानौ द्वेषांगौ द्वेषोत्पादकत्वात्, मायालोभौ रागांगौ रागजनकत्वात्, नोकषायवेदनीयसंज्ञचारित्रमोहमध्ये स्त्रीपुन्नपुंसक वेदत्रयहास्यरतयः पंच नोकषायाः रागांगा रागोत्पादकत्वात् इत्यनेनाभिप्रायेण मोहशब्देन दर्शन मोहो मिथ्यात्वं भय रागद्वेषशब्देन पुनश्चारित्रमोह इति सर्वत्र ज्ञातव्यं । एवं कर्मबंधकारणं रागादयः, रागादीनां च कारणं निश्चयेन कर्मोदयो, न च ज्ञानी जीव इति व्याख्यानमुख्यत्वेन सप्तमस्थले गाथापंचकं
आगे कहते हैं कि इस हेतुसे यह बात सिद्ध हुई उसकी गाथा यह है; - [ रागे च द्वेषे च ] राग द्वेष [ कर्मसु चैव ] और कषायकमोंके होनेपर [ ये भावाः ] जो भाव होते हैं [ तैस्तु ] उनकर [ परिणममानः ] परिणमता हुआ [ चेतयता ] आत्मा [ रागादीन् ] रागादिकोंको [ बध्नाति ] बांधता है । टीकानिश्चयकर जो ये पुद्गलकर्मके निमित्तसे हुए अज्ञानीके राग द्वेष मोह आदि भाव हैं उनका कर्ता हुआ अज्ञानी कर्मोंसे बंधता ही है । ऐसे परिणाम ही फिर राग द्वेष मोह आदि परिणामका निमित्त जो पुद्गलकर्म उसके बंधके कारण होते हैं | भावार्थ - अज्ञानी कर्म के निमित्तसे राग द्वेष मोह आदिक परिणाम होते हैं वे फिर आगामी कर्मबंध के कारण होते हैं ॥ २८२ ॥
1
१ तात्पर्यवृत्तौ 'ते मम दु' इत्येव पाठः ।