________________
२५८
रायचन्द्रजैनशास्त्रमालायाम् ।
[ संवर
न खल्वेकस्य द्वितीयमस्ति द्वयोर्भिन्न प्रदेशत्वेनैक सत्तानुपपत्तेस्तदसत्त्वे च तेन सहाधाराधेयसंबंधोऽपि नास्त्येव, ततः स्वरूपप्रतिष्ठत्वलक्षण एवाधाराधेय संबंधोऽवतिष्ठते । तेन ज्ञानं ज्ञानतायां स्वरूपे प्रतिष्ठितं । जातनाया ज्ञानादपृथग्भूतत्वात् ज्ञाने एव स्यात् । क्रोधादीनि क्रुध्यतादौ स्वरूपे प्रतिष्ठितानि क्रुध्यतादेः क्रोधादेः पृथग्भूतत्वात्क्रोधादिष्वेव स्युः, न पुनः क्रोधादिषु कर्मणि नोकर्मणि वा ज्ञानमस्ति, नच ज्ञाने क्रोधादयः कर्म नोकर्म वा संति परस्परमत्यंतस्वरूपवैपरीत्येन परमार्थाधाराधेय संबंधशून्यत्वात् । नच ज्ञानस्य
ख्यानमुख्यत्वेन उवओगे - इत्यादि गाथात्रयं । तदनंतरं भेदज्ञानात्कथं शुद्धात्मोपलम्भो भवतीति प्रश्ने परिहाररूपेण जह कणयमग्गि इत्यादि गाथाद्वयं । ततः परं शुद्धभावनया पुनः शुद्धो भवतीति मुख्यत्वेन शुद्धं तु वियाणंतो इत्यादि गाथैकं । ततः परं केन प्रकारेण संवरो भवतीति पूर्वपक्षे कृते सति परिहारमुख्यतया अप्पाणमप्पणा इत्यादि गाथात्रयं । अथात्मा परोक्षस्तस्य ध्यानं कथं क्रियेतेति पृष्टे सति देवतारूपदृष्टांतेन परोक्षेऽपि ज्ञायत इति परिहाररूपेण उबदेसेण इत्यादि गाथाद्वयं । तदनंतरं अथोदयप्राप्तप्रत्यागतानां रागाद्यध्यवसानानामभावे सति जीवगतानां रागादिभावास्त्रवाणामभावो भवतीत्यादि संवरक्रमाख्यानमुख्यत्वेन तेसिं हेदू इत्यादि गाथात्रयं । एवं आस्रवविपक्षद्वारेण संवरव्याख्याने समुदायपातनिका ।
है निराबाध निर्मल दैदीप्यमान प्रकाशरूप है और अपने ज्ञानप्रवाहरूपी रसका जिसके प्राग्भार है अर्थात् अपने रस के बोझेको लिये हुए है अन्य बोझा उतारके रख दिया है । भावार्थ – अनादिकालसे संवर आस्रवका विरोधी है उसको आस्रवने जीत लियाथा इसलिये मदसे गर्वित हुआ उसका फिर तिरस्कार कर जयको प्राप्त हुए संवरको प्राप्त करता हुआ और सब पररूपोंसे जुदा होके अपने स्वरूप में निश्चल हुआ जो यह चैतन्य प्रकाश है वह अपने ज्ञानरसरूप भारको लिये हुए निर्मल उदयरूप होता है । आगे संवरके प्रवेशकी आदिमें ही सब कर्मोंके संवर होनेका उत्कृष्ट उपाय जो भेदविज्ञान है। उसकी प्रशंसा करते हैं;- [ उपयोगे ] उपयोग में [ उपयोगः ] उपयोग है [ क्रोधादिषु ] क्रोध आदिकों में [ कोपि उपयोगः ] कोई उपयोग [ नास्ति ] नहीं है [ च ] और [हि ] निश्चयकर [ क्रोधे एव ] क्रोधमें ही [ क्रोधः ] क्रोध है [ उपयोगे ] उपयोगमें [ खलु ] निश्चयकर [ क्रोधः नास्ति ] क्रोध नहीं है, [ अष्टविकल्पे कर्मणि ] आठ प्रकार के ज्ञानावरण आदिकमों में [ च ] तथा [ नोकर्मणि अपि ] शरीर आदि नोकमों में भी [ उपयोगः नास्ति ] उपयोग नहीं है [ च ] और [ उपयोगे ] उपयोगमें [ कर्म अपि च नोकर्म ] कर्म और नोकर्म भी [ नो अस्ति ] नहीं है [ यदा तु ] जिसकालमें [ एतत्तु ] ऐसा [ अविपरीतं ] सत्यार्थ [ ज्ञानं ] ज्ञान [ जीवस्य ] जीवके [ भवति ] होजाता है