________________
३५९
अधिकारः ७]
समयसारः। सर्वान् करोति जीवोऽध्यवसानेन तिर्यङ्नैरयिकान् । देवमनुजांश्च सर्वान् पुण्यं पापं च नैकविधं ॥ २६८ ॥ धर्माधर्मं च तथा जीवाजीवौ अलोकलोकं च ।
सर्वान् करोति जीवः अध्यवसानेन आत्मानं ॥ २६९ ॥ यथायमेव क्रियागर्भहिंसाध्यवसानेन हिंसकं, इतराध्यवसानैरितरं च आत्मात्मानं कुर्यात् , तथा विपच्यमाननारकाध्यवसानेन नारकं, विपच्यमानतिर्यगध्यवसानेन तिर्यंचं, विपच्यमानमनुष्याध्यवसानेन मनुष्यं, विपच्यमानदेवाध्यवसानेन देवं, विपच्यमानसुखादिपुण्याध्यवसानेन पुण्यं, विपच्यमानदुःखादिपापाध्यवसानेन पापमात्मानं कुर्यात् । तथैव च ज्ञायमानधर्माध्यवसानेन धर्म, ज्ञायमानालोकाकाशाध्यवसायेनालोकाकाशमात्मानं कुर्यात् । “विश्वाद्विभक्तोऽपि हि यत्प्रभावादात्मानमात्मा विदधाति विश्वं । मोहैककंदोध्यवसाय एष नास्तीह येषां यतयस्त एव ॥ १७२ ॥"२६८०२६९ ॥
छित्तिविकल्पनात्मानं करोति, आत्मनः संबंधात् करोतीत्यभिप्रायः । किं च, यथा घटाकारपरिणतं ज्ञानं घट इत्युपचारेणोच्यते तथा धर्मास्तिकायादिज्ञेयपदार्थविषये धर्मोऽयमित्यादि योऽसौ परिच्छित्तिरूपो विकल्पः सोप्युपचारेण धर्मास्तिकायादिर्भण्यते । कथं ? इति चेत् , ध
र्मास्तिकायादिविषयत्वात् । स्वस्थभावच्युतो भूत्वा यदा धर्मास्तिकायोयमित्यादिविकल्पं करोति तदा तस्मिन् विकल्पे कृते सति धर्मास्तिकायादिरप्युपचारेण कृतो भवति इति ॥२६८।२६९॥
और [ अलोकलोकं ] लोक अलोक [ सर्वान् ] इन सभीको [जीवः ] जीव [ अध्यवसानेन ] अध्यवसानकर [ आत्मानं ] आत्मस्वरूप [ करोति ] करता है ॥ टीका-जैसे यह आत्मा पूर्वोक्त क्रियावाले हिंसाके अध्यवसानकर अपनेको हिंसक करता है और अहिंसाके अध्यवसानकर अहिंसक करता है तथा अन्य अध्यवसानकर अन्य बहुत प्रकार करता है । उसीतरह उदयमें आया जो नारकका अध्यवसान उसकर अपनेको नारकी करता है, उदयमें आया जो तिर्यचका अध्यवसान उसकर अपनेको तिर्यंच करता है, उदयमें आया जो मनुष्यका अध्यवसाय उसकर अपनेको मनुष्य करता है, उदयमें आया जो देवका अध्यवसान असकर अपनेको देव करता है, उदय आया जो सुख आदि पुण्यका अध्यवसान उसकर पुण्यरूप अपनेको करता है, उदय आया जो दुःखआदि पापका अध्यवसान उसकर अपनेको पापरूप करता है। उसीतरह जाननेमें आया जो धर्म उसके अध्यवसानकर अपनेको धर्मरूप करता है, जानेहुए अधर्मके अध्यवसानकर अपनेको अधर्मरूप करता है, जानेहुए अन्य जीवके अध्यवसानकर अपनेको अन्य जीवरूप करता है, जानेहुए पुद्गलके अध्यवसानकर अपनेको पुद्गलरूप करता है, जानेहुए लोकाकाशके अध्यवसानकर