________________
१८४
रायचन्द्रजैनशास्त्रमालायाम् । किलापरिणाम्येव स्यात् । तथा सति संसाराभावः । अथ पुद्गलकर्मक्रोधादि जीवं क्रोधादिभावेन परिणामयति ततो न संसाराभाव इति तर्कः । किं स्वयमपरिणममानं परिणममानं वा पुद्गलकर्म क्रोधादि जीवं क्रोधादिभावेन परिणामयेत् ? न तावत्स्वयमपरिणममानः परेण परिणमयितुं पार्यत, न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते । स्वयं परिणममानस्तु न परं परिणमयितारमपेक्षेत । न हि वस्तुशक्तयः परमपेक्षते । ततो जीवः परिणामकर्मण्यधिकरणभूते एकांतेन बद्धो नास्ति सदा मुक्तत्वात् । ण सयं परिणमदि कोहमादीहिं न च स्वयं स्वयमेव द्रव्यकर्मोदयनिरपेक्षो भावक्रोधादिभिः परिणमति । कस्मादेकांतेनापरिणामित्वात् । जदि एस तुज्झ जीवो अप्परिणामी तदा होदि यदि चेदेष जीवः प्रत्यक्षीभूतः तव मताभिप्रायेणेत्थंभूतः स्यात्ततः कारणादपरिणाम्येव भवति । अपरिणामित्वे सति किं दूषणं ? अथ- अपरिणममाने सति तस्मिन् जीवे स्वयं स्वयमेव भावक्रोधादिपरिणामैः तदा संसारस्याभावः प्राप्नोति हे शिष्य सांख्यसमयवत् । अथ मतं पुग्गलकम्म कोहो जीवं परिणामएदि कोहत्तं पुद्गलकर्मरूपो द्रव्यक्रोध उदयागतः कर्ता जीवं कर्मतापन्नं हठात्परिणामयति भावक्रोधत्वेनेति चेत् तं सयमपरिणमंतं कह परिणामएदि कोहत्तं अथ किं स्वयमपरिणममानं परिणममानं वा परिणामयेत् ? न तावत्स्वयमपरिणममानं परिणामयेत् । कस्मात् । न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते । न हि जपापुष्पादय कर्तारो यथा स्फटिकादिषु जनयंत्युपाधि तथा काष्ठस्तंभादिष्वपि । अथैकांतेन परिणममानं वा तर्हि उदयागतद्रव्यक्रोधनिमित्तमंतरेणापि भावक्रोधादिभिः परिणमंतु । कस्मादिति चेत् । न हि वस्तुशक्तयः परमपेक्षते । तथा च सति मुक्तात्मनामपि कर्मोदयनिमित्ताभावेपि भावक्रोधादयः प्राप्नुवंति । न च तदिष्टमागमविरोधात् । अथ मतं । अह सयमप्पा परिणमदि आचार्य कहते हैं कि हे भाई [ तब ] तेरी बुद्धिमें [ यदि ] यदि [ एष जीवः] यह जीव [ कर्मणि] कोंमें [वयं ] आप तो [बद्धः न ] बंधा नहीं है और [क्रोधादिभिः ] क्रोधादि भावोंकर [स्वयं] आप [ परिणमति न] परिणमता भी नहीं है ऐसा है [ तदा ] तो [अपरिणामी ] अपरिणामी [ भवति ] वह अपरिणामी होगा ऐसा होनेपर [क्रोधादिभिः भावैः ] क्रोधादि भावोंकर [जीवे] जीवको [वयं अपरिणममाने ] आप नहीं परिणत होनेपर [ संसारस्य अभावः ] संसारका अभाव [प्रसजति ] हो जायगा [वा ] और [सांख्यसमयः ] सांख्यमतका प्रसंग आवेगा । यदि कहेगा कि [ पुद्गलकर्म ] पुद्गलकर्म [क्रोधः] क्रोध है वह [ जीवं ] जीवको [क्रोधत्वं] क्रोध भावरूप [ परिणमयति ] परिणमाता है तो [वयं अपरिणममानं तं ] आप स्वयं न परिणमते हुए [तं] जीवको [क्रोधः ] क्रोध [ कथं नु ] कैसे [ परिणामयति] परिणमा सकता है ऐसा प्रश्न है। [अथ ] अथवा [ ते एषा बुद्धिः ] तेरी