________________
समयसारः।
१६७ अज्ञानी चापि परभावस्य न कर्ता स्यात् ;
जं भावं सुहमसुहं करेदि आदा स तस्स खलु कत्ता। तं तस्स होदि कम्म सो तस्स दु वेदगो अप्पा ॥१०२॥ यं भावं शुभमशुभं करोत्यात्मा स तस्य खलु कर्ता ।
तत्तस्य भवति कर्म स तस्य तु वेदक आत्मा ॥ १०२॥ इह खल्वनादेरज्ञानात्परात्मनोरेकत्वाध्यानेन पुद्गलकर्मविपाकदशाभ्यां मंदतीव्रस्वादाभ्यामचलितविज्ञानघनैकस्वादस्याप्यात्मनः स्वादं भिंदानः शुभमशुभं वा योयं भावमज्ञानरूपमात्मा करोति स आत्मा तदा तन्मयत्वेन तस्य भावस्य भावकत्वाद्भवत्यनुभविता, स्यैव कर्ता न च ज्ञानावरणादिपरद्रव्यस्येति निरूपयति;-जं भावं सुहमसुहं करेदि आदा स तस्स खलु कत्ता सातासातोदयावस्थाभ्यां तीत्रमंदस्वादाभ्यां सुखदुःखरूपाभ्यां वा चिदानंदैकस्वभावेनैकस्याप्यात्मनो द्विधा भेदं कुर्वाणः सन यं भावं शुभमशुभं वा करोत्यात्मनः स्वतंत्ररूपेण व्यापकत्वात्स तस्य भावस्य खलु स्फुटं कर्ता भवति तं तस्स होदि कम्मं तदेव तस्य शुभाशुभरूपं भावकर्म भवति । तेनात्मना क्रियमाणत्वात् सो तस्स दु वेदगो अप्पा स आत्मा तस्य तु शुभाशुभरूपस्य भावकर्मणो वेदको भोक्ता भवति स्वतंत्ररूपेण भोक्तृत्वात् न च द्रव्यकर्मणः । किं च विशेषः । अज्ञानी जीवो शुद्धनिश्चयनयेनाशुद्धोपादानरूपेण मिथ्यात्वरागादिभावानामेव कर्ता न च द्रव्यकर्मणः स चाशुद्धनिश्चयः । यद्यपि द्रव्यकर्मकर्तृत्वरूपासद्भूतव्यवहारापेक्षया निश्चयसंज्ञां लभते तथापि शुद्धनिश्चयापेक्षया व्यवहार एव । हे भगवन् रागादीनामशुद्धोपादानरूपेण कर्तृत्वं भणितं तदुपादानं शुद्धाशुद्धभे___ आगे कहते हैं कि जो अज्ञानी है वह भी परद्रव्यके भावका कर्ता नहीं है;[आत्मा ] आत्मा [यं] जिस [शुभं अशुभं] शुभ अशुभ [ भावं ] अपने भावको [करोति ] करता है [स] वह [ तस्य ] उस भावका [ कर्ता ] कर्ता [खलु ] निश्चयसे होता है [ तत् ] वह भाव [ तस्य ] उसका [कर्म ] कर्म [भवति ] होता है [ स आत्मा तु] वही आत्मा [ तस्य ] उस भावरूप कमका [वेदकः ] भोक्ता होता है । टीका-इस लोकमें आत्मा अनादिकालसे अज्ञानसे परका और आत्माका एकपनेका निश्चयकर तीव्र मंद स्वादरूप जो पुद्गलकर्मकी दो दशायें उनकर यद्यपि आप अचलित विज्ञानघनरूप एकस्वादस्वरूप है तौभी स्वादको भेदरूप करता हुआ शुभ तथा अशुभ अज्ञानरूप भावको करता है । वह आत्मा उसकाल उस भावसे तन्मयपनेकर उस भावके व्यापकपनेकर उस भावका कर्ता होता है । तथा वह भाव भी उस समय उस आत्माके तन्मयपनेकर उस आत्माका व्याप्य होता है इसलिये उसका कर्म होता है । वही आत्मा उससमय उस भावसे तन्मयपनेकर उस भावका भावक होता है इसलिये उसका अनुभव करनेवाला भोक्ता होता है । वह भाव