________________
समयसारः। क्रोधः इत्यभ्युपगमः तर्हि यथोपयोगात्मनो जीवादन्यो जडस्वभावः क्रोधः तथा प्रत्ययनोकर्मकाण्यप्यन्यान्येव जडखभावत्वाविशेषान्नास्ति जीवप्रत्यययोरेकत्वं ११३।११४।११५ नत्वं च लभ्यते एव । कस्मात् । निश्चयव्यवहारयोः परस्परसापेक्षत्वात् । कथमिति चेत् । यथा दक्षिणेन चक्षुषा पश्यत्ययं देवदत्तः इत्युक्ते वामेन न पश्यतीत्यनुक्तसिद्धमिति । ये पुनरेवं परस्परसापेक्षनयविभागं न मन्यते सांख्यसदाशिवमतानुसारिणस्तेषां मते यथा शुद्धनिश्चयनयेन कर्ता न भवति क्रोधादिभ्यश्च भिन्नो भवति तथा व्यवहारेणापि । ततश्च क्रोधादिपरिणमनाभावे सति सिद्धानामिव कर्मबंधाभावः । कर्मबंधाभावे संसाराभावः संसाराभावे सर्वदा मुक्तत्वं प्राप्नोति । स च प्रत्यक्षविरोधः, संसारस्य प्रत्यक्षेण दृश्यमानत्वादिति । एवं प्रत्ययजीवयोरेकांतेनैकत्वनिराकरण रूपेण गाथात्रयं गतं । अत्राह शिष्यः । शुद्धनिश्चयेनाकर्ता व्यवहारेण कर्तेति बहुधा व्याख्यातंतत्रैवं सति यथा द्रव्यकर्मणां व्यवहारेण कर्तृत्वं तथा रागादिभावकर्मणां च द्वयोर्द्रव्यभावकर्मणोरेकत्वं प्राप्नोतीति । नैवं । रागादिभावकर्मणां योसौ व्यवहारस्तस्याशुद्धनिश्चयसंज्ञा भवति द्रव्यकर्मणां भावकर्मभिः सह तारतम्यज्ञापनार्थ । कथं तारतम्यमिति चेत् । द्रव्यकर्माण्यचेतनानि भावकर्माणि च चेतनानि तथापि शुद्धनिश्चयापेक्षया अचेतनान्येव । यतः कारणादशुद्धनिश्चयोपि शुद्धनिश्चयापेक्षया व्यवहार एव । अयमत्र भावार्थः । द्रव्यकर्मणां कर्तृत्वं भोक्तृत्वं चानुपचरितासद्भूतव्यवहारेण रागादिभावकर्मणां चाशुद्धनिश्चयेन । सचाशुद्धनिश्चयापेक्षया व्यवहारएवेति । एवं पुण्यपापादिसप्तपदार्थानां () पीठिकारूपे महाधिकारे सप्तगाथाभिः चतुर्थोतराधिकारः समाप्तः । अतः परं जीवेण सयं बळ इत्यादि गाथामादिं कृत्वा गाथाष्टकपर्यंतं सांख्यमतानुसारिशिष्यसंबोधनार्थं जीवपुद्गलयोरेकांतेन परिणामित्वं निषेधयन् सन् कथंचित् परिणामित्वं स्थापयति । तत्र गाथाष्टकमध्ये पुद्गलपरिणामित्वव्याख्यानमुख्यत्वेन गाथात्रयं । तदनंतरं जीवपरिणामित्वमुख्यत्वेन गाथापंरूप ) है उसीतरह जड क्रोध भी अनन्य ही है ऐसी प्रतीति होजाय ( माना जाय ) तो चिद्रूपके और जडके अनन्यपनेसे जीवके उपयोगमयीपनेकी तरह जड क्रोधमयीपनेकी भी प्राप्ति हुई । ऐसा होनेपर जो जीव है वही अजीव है इसतरह जुदे (अन्य ) द्रव्यका लोप होगया । इसीतरह प्रत्यय नोकर्म और कोंकी भी जीवके साथ एकत्व की प्रतीतिमें यही दोष आता है । इस दोषके भयसे ऐसा मानो कि उपयोगस्वरूप जीव तो अन्य है और जडस्वरूप क्रोध अन्य है। जैसे उपयोगस्वरूप जीवसे जड़स्वभाव क्रोध अन्य है उसीतरह प्रत्यय नोकर्म और कर्म भी अन्य ही हैं क्योंकि जैसा जड स्वभाव क्रोध है. उसीतरह प्रत्यय नोकर्म कर्म ये भी जड हैं इनमें विशेषता नहीं है । इसतरह जीव और प्रत्ययमें एकपना नहीं है ॥ भावार्थ-मिथ्यात्वादि आस्रव तो जड स्वभाव हैं और जीव चेतनस्वभाव है । यदि जड़ और चेतन एक हो जायँ तो बड़ा भारी दोष आवे भिन्न द्रव्यका ही लोप होजाय । इसलिये आस्रव और आत्मामें एकपना नहीं है यह निश्चयनयका सिद्धान्त है ।। ११३ । ११४ । ११५ ॥