________________
१५४
रायचन्द्रजैनशास्त्रमालायाम् । कथमज्ञानात्कर्म प्रभवतीति चेत्;
तिविहो एसुवओगो अप्पवियप्पं करेइ कोहोहं । कत्ता तस्सुवओगस्स होइ सो अत्तभावस्स ॥ ९४ ॥ त्रिविध एष उपयोग आत्मविकल्पं करोति क्रोधोहं ।
कर्ता तस्योपयोगस्य भवति स आत्मभावस्य ॥ ९४ ॥ ___ एष खलु सामान्येनाज्ञानरूपो मिथ्यादर्शनाज्ञानाविरतिरूपस्त्रिविधः सविकारश्चैतन्यपरिमामः परमात्मनोरविशेषदर्शनेनाविशेषज्ञानेनाविशेषविरत्या च समस्तं भेदमपहृत्य भावभावकभावापन्नयोश्चेतनाचेतनयोः सामान्याधिकरण्येनानुभवनात्कोधोहमित्यात्मनो विकल्पमुत्पादयति । ततोयमात्मा क्रोधोहमिति भ्रांत्या सविकारेण चैतन्यपरिणामेन परिणमन् तस्य सविकारचैतन्यपरिणामरूपस्यात्मभावस्य कर्ता स्यात् । एवमेव च क्रोधपदपरिवर्तनेन अथ कथमज्ञानात्कर्म प्रभवतीति पृष्ठे गाथाद्वयेन प्रत्युत्तरमाह;-तिविहो एसुवओगो त्रिविधस्त्रिप्रकार एष प्रत्यक्षीभूत उपयोगलक्षणत्वादुपयोग आत्मा अस्सवियप्यं करेदि स्वस्थभावस्याभावादसद्विकल्पं मिथ्याविकल्पं करोति । केन रूपेण, कोधोहं क्रोधोहमित्यादि कत्ता तस्सुवओगस्स होदि सो स जीवः तस्य क्रोधाद्युपयोगस्य विकल्पस्य कर्ता भवति । कथंभूतस्य, अत्तभावस्स आत्मभावस्याशुद्धनिश्चयेन जीवपरिणामस्येति । तथाहिसामान्येनाज्ञानरूपेणैकविधोपि विशेषेण मिथ्यादर्शनज्ञानचारित्ररूपेण त्रिविधो भूत्वा एष उपयोग आत्मा क्रोधाद्यात्मनो व्यभावकभावापन्नयोः । भाव्यभावकभावापन्नयोः कोर्थः ? भाव्यः क्रोधादिपरिणत आत्मा, भावको रंजकश्चांतरात्मभावनाविलक्षणो भावक्रोधः । इत्थंभूतयोईयोर्भेदज्ञानाभावाद्भेदमजानन्निर्विकल्पस्वरूपाद् भ्रष्टः सन् क्रोधोहमित्यात्मनो विकल्पमुत्पादयति, तस्यैव क्रोधाद्युपयोगपरिणामस्याशुद्धनिश्चयेन कर्ता भवतीति भावार्थः । एवमेव च क्रोधपदपरिवर्त्तनेन
आगे पूछते हैं कि अज्ञानसे कर्म कैसे उत्पन्न होता है ? उसका उत्तर कहते हैं[एषः ] यह [त्रिविधः ] तीन प्रकारका [उपयोगः ] उपयोग [ आत्मविकल्पं ] अपनेमें विकल्प करता है कि [अहं क्रोधः] में क्रोध स्वरूप हूं [ तस्य ] उस [आत्मभावस्य ] अपने [उपयोगस्य ] उपयोगभावका [सः] वह [कर्ता ] कर्ता [भवति ] होता है । टीका-निश्चयकर यह विकारसहित चैतन्य परिणाम है वह सामान्यकर अज्ञानरूप है वही मिथ्यादर्शन अज्ञान अविरतिरूप तीन प्रकार है । सो यह परिणाम परके और आत्माके अभेद देखनेकर अभेद जाननेकर अविशेष ( अभेद ) रूप रतिकर सब भेदको छिपाके और भाव्यभावकभावको प्राप्त हुए जो चेतन अचेतन दोनों उनका एक आधारकर अनुभव करनेसे मैं क्रोध हूं ऐसा आत्माका विकल्प उत्पन्न करता है क्रोधको ही अपना जानता है । इसलिये यह आत्मा मैं क्रोध हूं ऐसी भ्रांतिकर विकारसहित चैतन्य परिणामकर परिणमता उस विकारसहित