Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
Catalog link: https://jainqq.org/explore/022648/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ काम धाम के धर्मविजयगुरुभ्योनमः | श्रीअजितप्रभाचार्यविरचितम् । श्रौशान्तिनाथचरित्रम् । श्रेयोरत्नाकरोद्भूतामर्हल्लक्ष्मीमुपास्महे । स्पृहयन्ति न के यस्यै शेषश्रीविरताशयाः ॥ १ ॥ वृषेण भाति यो ब्रह्मकृता लक्ष्मगतेन वा । इत्यर्थाय तस्मै श्रीवृषभस्वामिने नमः ॥ २ ॥ येऽन्तरङ्गारिषड्वर्गोपसर्गोग्रपरोषहैः । न जितास्तेऽजितस्वामिमुख्या नन्दन्तु तौर्थपाः ॥ २ ॥ कृतारिष्टतमःशान्तिश्चारुहेमतनुद्युतिः । प्रत्यादिष्टभवम्भ्रान्तिः श्रीशान्तिर्जयताज्जिनः ॥ ४ ॥ हितोपमा यस्य भवाः श्रोतृशुभावहाः । शान्तिनाथस्य तस्यैव चरित्रं कीर्त्तयाम्यहम् ॥ ५ ॥ जम्बूद्दीपस्य भरते क्षेत्रेऽत्रैव हि पत्तनम् । अस्ति रत्नपुरं नाम नररत्ननिवासभूः ॥ ६ ॥ (१) ख घ श्रीऋषभ ।' (२) व गृहिव्रतमिताः । Page #2 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे पासीद्दासोक्तारातिश्चारुनीतिमहामतिः । रूपलक्ष्मया 'रतिपतिः श्रीषणस्तत्र भूपतिः ॥ ७॥ दानमानप्रियालापैः सदा तेनाभिनन्दिता। तस्याभिनन्दिता राज्ञी हितोया सिंहनन्दिता ॥ ८ ॥ सा पूर्वप्रेयसी राज्ञ ऋतुस्नानाभिनन्दिता । समधातुः शयनीये सुखसुप्ताऽन्यदा निशि ॥ ८ ॥ स्वप्नेऽपश्यन्त्रिजोत्सङ्गवर्तिनौ भानुमालिनी । प्रध्वंसितान्धतमसौ सूर्याचन्द्रमसौ समम् ॥ १० ॥ (युग्मम्) कथयामास सा भर्तुस्तं स्वप्नं मुदिता प्रगे। तत्फलं सोऽपि विज्ञाय शशंसैवं प्रसन्नवाक् ॥ ११ ॥ युग्मजातौ भुवि ख्याती कुलोद्योतविधायिनी। स्वप्नेनानेन हे देवि तव पुत्री भविष्यतः ॥ १२ ॥ बिभ्रत्युभावथो गर्भी सा राज्ञी शुशुभेऽधिकम् । उपकर्तृक्तज्ञौ हि दधानेव वसुन्धरा ॥ १३ ॥ सम्पूर्णसमये साऽथ सुषुवे तनयहयम् । विधिप्रयुक्ता सन्नीतिरर्थधर्माविवावनौ ॥ १४ ॥ इन्दुषेणबिन्दुषेण इति नाम्नी तयोः शुभे । चकार तत्पिता हृष्टो महोत्सवपुरःसरम् ॥ १५ ॥ अष्टवर्षप्रमाणौ तौ कलाचार्यस्य सन्निधौ। कलाभ्यासं विदधतुः क्रमाप्राप्तौ च यौवनम् ॥ १६ ॥ (१) क रतितिस्तत्र श्रीघेणभूपतिः । Page #3 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । इतश्चात्रैव भरते देशे मगधनामनि । श्रियाऽभिरामः सदामोऽस्त्यचलग्राम'नामकः ॥ १७ ॥ तत्राभूइरणिजटाभिधानो द्विजपुङ्गवः । वेदवेदाङ्गतत्त्वज्ञो यशोभद्रा च तप्रिया ॥ १८ ॥ स नन्दिभूतिश्रीभूती यशोभद्राभवौ सुतौ। यत्नतः पाठयामास वेदशास्त्रमहर्निशम् ॥ १८ ॥ दास्या कपिलया जात: कपिलोऽप्यस्य नन्दनः । स तु जातिविहीनत्वादतिप्रज्ञाधिकोऽभवत् ॥ २० ॥ स्वपित्रा पाठ्यमानौ तौ शृण्वान: कपिलोऽथ सः । अन्ने चतुर्दशविद्यास्थानविज्ञानकोविदः ॥ २१ ॥ गृहानिसत्व यज्ञोपवीतयुग्मं वहस्ततः ।.. महाब्राह्मणमात्मानं मन्यमानोऽभ्रमद्भुवि ॥ २२ ॥ स प्राययौ रत्नपुरे सत्यकिर्नाम तत्र च । उपाध्यायो बहून् छात्रान् वेदपाठमकारयत् ॥ २३ ॥ पप्रच्छ कपिल-छात्रान् वेदोपनिषदं तथा । • यथा नोत्तरमेतस्मै दातुमीशा इमे ऽभवन् ॥ २४ ॥ विज्ञाय तं महाप्राज्ञमुपाध्यायो निजे पदे । स्थापयामास को नाम गुणेन लभते पदम् ॥ २५ ॥ उपाध्यायस्य तस्यासोज्जम्बुका नाम गेहिनी। तत्कुक्षिसम्भवा पुत्री सत्यभामाऽभिधा तथा ॥ २६ ॥ (१) ग -संज्ञका। Page #4 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे योग्योऽयमिति तां तस्मा उपाध्यायो ददौ सुताम् । रममाणस्तया साई तवास्थात्कपिल: सुखम् ॥ २७ ॥ उपाध्यायस्य मान्योऽयमिति लोकरपूज्यत । विद्वत्कथासु सर्वत्र क्रियते स्म निदर्शनम् ॥ २८ ॥ जगज्जीवातुधान्यौघटणवृद्धिविधानतः । परिरक्षितदुष्कालो वर्षाकालोऽन्यदाऽभवत् ॥ २८ ॥ तस्मिंश्च समयेऽन्येद्यः कौतुको कपिलो ययौ । रात्री प्रेक्षणकालोककृते देवकुलादिषु ॥ ३० ॥ महत्यामथ यामिन्यामन्धकार निरन्तरे । वर्षयम्बुधरे गहमागच्छन् 'स व्यचिन्तयत् ॥ ३१ ॥ मार्गो निःसञ्चरस्तावत्तमसाऽन्तरितेक्षणम् । विखं प्रवर्त्तते तत्किं वस्त्रे आर्दीकरोम्यहम् ॥ ३२ ॥ विचिन्त्येदमथो कक्षान्तरे प्रक्षिप्य वाससौ। स सत्त्वरमुपेयाय नग्नीभूतो निजे रहे ॥ ३३ ॥ परिधाय ततो वस्त्रे प्रविवेश गृहान्तर । तद्भार्या तं बभाष ऽथ ढौकयित्वाऽन्यवाससी ॥ ३४ ॥ अग्रेतने जलक्लिन्ने मुञ्च त्वं नाथ चीवरे । इमे च परिधेहीति भणित: कपिलो ऽब्रवीत् ॥ ३५ ॥ पश्य प्रिये नहि लिने मन्त्रशक्त्या ममाम्बरे । करस्पत्तिप्रियाऽपि ते विवेद तथाविधे ॥ ३६ ॥ (१) क सोऽयचिन्तयत् । Page #5 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । दृष्ट्वा च विद्युदुदुद्योतेनाङ्गमस्य जलार्दितम् । सैवं 'विचिन्तयामास सत्या दर्भाग्रतीक्ष्णधीः ॥ ३७ ॥ नूनं दृष्टिभयादेष गोपयित्वाऽम्बरे पथि । नग्न एव समायातों वृथाऽऽत्मानं प्रशंसति ॥ ३८ ॥ अनया चेष्टया नैष कुलीनोऽपि विभाव्यते । तदस्य गृहवासेन मम हन्त विडम्बना ॥ ३८ ॥ इत्यन्तश्चिन्तया मन्दरागा तस्मिन् बभूव सा । तथापि सममेतेन गृहवासमपालयत् ॥ ४० ॥ कपिलस्य पिता सोऽथ ब्राह्मणः कर्मदोषतः । बभूव विभवतोपो भूरिविद्याधनोऽपि सन् ॥ ४१ ॥ ज्ञात्वा विभूतिमन्तं तं कपिलं लोकपूजितम् । श्रागात्प्राघुणकोऽन्येद्युस्तद्ग्टहेऽसौ धनाशया ॥ ४२ ॥ भोजनावसरे सोऽथ विभिन्नः समुपाविशत् । कपिलो निजतातस्य व्यपदिश्य मिषान्तरम् ॥ ४३ ॥ ततस्तस्या विशेषेणाभवद्भान्तिर्मनोगता । रहः पृष्टश्च विप्रोऽसौ तया शपथपूर्वकम् ॥ ४४॥ किमयं तात युष्माकमङ्गजो वा परो न्विति । तेनाऽपि सर्वमेतस्यै तदाख्यातं यथातथम् ॥ ४५ ॥ दत्त्वा यथोचितं किञ्चिद्दिसृष्टः कपिलेन सः । विप्रो जगाम धरणिजटाख्यो नगरे निजे ॥ ४६ ॥ (१) कहि चि- । ५ Page #6 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र विरमा सत्यभामा सा कपिलस्य रहात्ततः । गत्वा श्रीषेणभूपालं कृताञ्जलिरथावदत् ॥ ४७ ॥ देव त्वं जगतीपालो लोकपालश्च पञ्चमः । दीनानाथाशरण्यानां सर्वेषां त्वं गति: 'किल ॥ ४८ ॥ ततः कुरुष्व कारुण्यं ममाप्युपरि भूपते । प्रत्यूचे पार्थिवस्तां हि किं ते दुःखस्य कारणम् ॥ ४८ ॥ पूज्यस्तावदुपाध्यायस्तस्य त्वमसि नन्दिनी । गेहिनी कपिलस्यापि मान्यस्त्वत्पितुरेव यः ॥ ५० ॥ उवाच सत्यभामेवमस्ति राजन् परं मम । भर्ता यः कपिलो नाम सोऽकुलीनत्वदूषितः ॥ ५१ ॥ राजाऽथ कथमित्युक्ता राज्ञोऽग्रे साऽपि सूनृताम् । तत्कथां कथयामास भूयश्चैवमभाषत ॥ ५२ ॥ अमुष्य रहवासेन पर्याप्तं मम सर्वथा । तथा कुरु महीनाथ यथा शौलं चराम्यहम् ॥ ५३ ॥ पाकार्य भूभुजाऽभाणि साञ्जसं कपिलोऽथ सः । विरक्ता टहवासस्य भद्रेयं त्वप्रियेत्यलम् ॥ ५४ ॥ तदिमां विगतस्नेहां मुञ्च त्वं स्वपरिग्रहात् । यथाऽसौ पिटगहस्था कुर्याद्धर्म कुलोचितम् ॥ ५५ ॥ कपिलोऽप्ययोद्देव क्षणमप्यनया विना। म स्थातुमहमोशोऽस्मि तदियं मुच्यते कथम् ॥ ५६ ॥ (१) घ प्रहो। १२) घ म्टहिणी। Page #7 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः ।। राज्ञा तु सत्यभामा सा पुनः पृष्टाऽब्रवीदिति। नैतस्माद्यदि मे मोक्षस्तन्मरिष्यामि निश्चितम् ॥ ५७ ॥ राज्ञोचे कपिलो भूयो हंहो धृत्वा बलादमूम् । स्त्रीहत्यां किं करोषि त्वं किं बिभेषि न पाप्मनः ॥ ५८ ॥ अस्मद्राजीसमोपस्था तिष्ठत्वेषा यथामुखम् । दिनानि कत्यपौत्युक्तो मेनेऽसौ कपिलोऽपि तत् ॥ ५८ ॥ सत्यभामा विनीता सा कुर्वाणा शोलरक्षणम् । राजराज्ञीसमीपस्था गमयामास वासरान् ॥ ६ ॥ सूरिविमलबोधाख्यो विहरनवनीतले । तत्रागत्य पुरेऽन्येद्युस्तस्थौ स्थाने यथोचिते ॥ ६१ ॥ सूरेरागमनोदन्तमाकर्थ जनतामुखात्। . .. : ययौ तहन्दनाहेतोः श्रीषणपृथिवीपतिः ॥ ६२ ॥ सूरिं नत्वा यथास्थानमुपाविक्षन्महीपतिः । तमुद्दिश्य मुनीन्द्रोऽथ विदधे धर्मदेशनाम् ॥ ६३ ॥ मनुष्यकादिसामग्रौं सम्प्राप्यापि प्रमादिनः । ये धर्म नानुतिष्ठन्ति तेषां जन्म निरर्थकम् ॥ ६४ ॥ जैन धर्म समाराध्य भूत्वा विभवभाजनम् । प्राप्ता: सिद्धिमुखं ये ते श्लाघ्या मङ्गलकुम्भवत् ॥ ६५ ॥ तद्यथा उज्जयिन्यां महापुऱ्या वैरिसिंहो महीपतिः । सोमचन्द्रा च तद्वार्या धनदत्तश्च श्रेष्ठयभूत् ॥ ६६ ॥ (१) क घ ङ अथ तत् । Page #8 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे धर्मार्थी सुविनीतात्मा सत्यशीलदयान्वितः । गुरुदेवार्चनप्रीतः स श्रेष्ठी धनदत्तकः ॥ ६७ ॥ सत्यभामेति तद्भार्या शौलालङ्घतिशालिनी । पत्यौ प्रेमपरा किं त्वपत्यभाण्डविवर्जिता ॥ ६८ ॥ साऽन्यदा श्रेष्ठिनं पुत्र चिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा पप्रच्छ हे नाथ किं ते दुःखस्य कारणम् ॥ ६८ ॥ श्रेष्ठिना च समाख्याते तस्यै तस्मिन् यथातथे । श्रेष्ठिनो पुनरप्यूचे पर्याप्तं चिन्तयाऽनया ॥ ७० ॥ धर्म एव भवेन्नृणामिहामुत्र सुखप्रदः । स एव सेवनीयो हि विशेषेण सुखैषिणा ॥ ७१ ॥ तत्त्वं देवे गुरौ चापिं कुरु भक्तिं यथोचिताम् । देहि दानं सुपात्रेभ्य: 'पुस्तकं चापि लेखय ॥ ७२ ॥ एवं च कुर्व्वतोः पुत्त्रो भावो यदि तदा वरम् । भविता निर्मलो नाथ परलोकोऽन्यथाऽऽवयोः ॥ ७३ ॥ हृष्टः श्रेष्ठप्रप्युवाचैवं प्रिये साधूदितं त्वया । सम्यगाराधितो धर्मो भवेचिन्तामणिर्नृणाम् ॥ ७४ ॥ ततश्च देवपूजार्थं पुष्यग्रहण हेतवे । आकार्यारामिकं तस्मै ददौ श्रेष्ठी धनं बहु ॥ ७५ ॥ स्वयं गत्वा तदारामे पुष्पाण्यानीय स प्रगे । गृहाचमर्चयित्वा च गच्छति स्म जिनालये ॥ ७६ ॥ (१) गङ पुस्तकांश्चापि । Page #9 -------------------------------------------------------------------------- ________________ प्रथम: प्रस्तावः । तत्र नैषेधिकोमुख्यान् यथास्थानं दशत्रिकान् । ख्यापयन् परया भक्त्या विदधे चैत्यवन्दनाम् ॥ ७७ ॥ ततः साधून्नमस्कृत्य प्रत्याख्यानं विधाय च । अतिथीनां संविभागं चकार च महामतिः ८ अन्यदप्यखिलं धर्मकर्म शर्मनिबन्धनम् । आह्निकं रात्रिकं चैव धनदत्तो व्यधादुधीः ॥ ७ ॥ अथ धर्मप्रभावेन तुष्टा शासनदेवता | ददौ तस्मै पुत्रवरं प्रत्यक्षीभूय साऽन्यदा ॥ ८० ॥ पुत्रे गर्भागते रात्रिशेषे श्रेष्ठिन्युदैचत । स्वप्ने हेममयं पूर्णकलशं मङ्गलावृतम् ॥ ८१ ॥ जातश्च समये पुत्रस्ततः कृत्वोसवं गुरुम् । तस्मै मङ्गलकलश इत्याख्यां तत्पिता ददौ ॥ ८२ ॥ कलाभ्यासपरः सोऽथाष्टवर्ष प्रमितोऽन्यदा । तात त्वं कुत्र यासीति पप्रच्छ पितरं निजम् ॥ ८३ ॥ सोऽवदद्दत्स गत्वाहमारामे प्रतिवासरम् । ततः पुष्पाणि चानीय करोमि जिनपूजनम् ॥ ८४ ॥ ययौ पित्रा सहान्येद्युस्तत्र सोऽपि कुतूहली | आरामिकोऽवदत्कोऽयं बालो नेत्रविशालकः ॥ ८५ ॥ ज्ञात्वा च श्रेष्ठिपुत्रं तं तस्मै सोऽपि ददौ मुदा । नारङ्गकरुणादीनि सुखादूनि फलान्यलम्' ॥ ८६ ॥ (१) क फलान्यपि । Page #10 -------------------------------------------------------------------------- ________________ श्रौशान्तिनाथचरित्र खगेहे पुनरागत्य कुर्वतो जिनपूजनम् । श्रेष्ठिनोऽढोकयन्त्रः पूजोपकरणं स्वयम् ॥ ८७ . हितीये च दिने तेन सादरं भणितः पिता। प्रत: परं मया गम्यं पुष्पानयनकर्मणि ॥ ८८॥ निश्चिन्तेनैव स्थातव्यं त्वया तात निजे रहे। अत्याग्रहेण तहाक्यमनुमेने पितापि तत् ॥ ८॥ एवं च कुर्वतस्तस्य धर्माभ्यासं तथान्तरा। कियत्यषि गते काले यज्जातं तनिशम्यताम् ॥ ४० ॥ अस्त्यत्र भरनक्षेत्रे चम्पा नाम महापुरी। अभूत्तत्र महाबाहुः पार्थिवः सुरसुन्दरः ॥ ८१ ॥ राजी गुणावली तस्य सा निजोत्सङ्गवर्तिनीम् । दृष्ट्वा कल्पलतां स्वप्ने पार्थिवाय न्यवेदयत् ॥ ८२ राजा प्रोवाच हे देवि तव पुत्री भविष्यति। सर्वलक्षणसम्पूर्मा सर्वनारोशिरोमणिः ॥ ८३ ॥ पूर्णकाले 'च चार्वङ्गो सा देवी सुषुवे सुताम् । त्रैलोक्यासुन्दरी नाम तस्याश्चक्रे महीपतिः ॥ ८४ ॥ लावण्यधनमञ्जूषा सौभाग्यरसनिम्नगा। बभूव यौवनप्राप्ता सा मूर्त्तव सुराङ्गना ॥ ५ ॥ तां विलोक्यानवद्यागौं दध्याविति धराधिपः । रमणः कोऽनुरूपोऽस्या 'वत्साया मे भविष्यति ॥ ८६ ॥ (३) ख वत्यायाः को। ध वत्मायाः क। (१) ख ग घ थ । (२) ग घ ङ धरापतिः । Page #11 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । ११ बचे च प्रेयसी: सर्वा वराहेंयं सुताऽभवत् ।' दातव्या ब्रूत लत् कम्मर अवार्थे वः प्रधावता ॥ १७ ॥ ता अचुरियमस्माकं जीवितादपि वल्लभा । नालं धर्तुं वयं प्राणान् क्षणमप्यनया विना ॥ ८८ ॥ दातव्या तदसौ मन्त्रिपुत्रायात्वैव हे प्रिय । प्रत्यहं नयनानन्दकारिणौ दृश्यते यथा ॥22॥ ततो राजा समाहय सुबुद्धिः सचिवो निजः । प्रभाणि यन्मया दत्ता त्वत्सुतावात्मसुन्दरौं ॥ १० ॥ अमात्योऽप्यवदहेव किमयुक्तं ब्रवीषदः । कस्वैचिद्राजपुत्राय दातुं कन्या तवोचिता ॥ १ ॥ राज्ञोचे न त्वया वाचमित्वर्थे किचनापि भोः । देया त्वत्सूनवेऽवश्यं पुत्री पैलोक्यसुन्दरी ॥ २ ॥ मन्त्री कतावहिस्थोऽथ गृहे मत्वा व्यचिन्तयत् । हा व्याघ्रदुस्तटीन्याये पतितोऽस्मि करोमि किम् ॥ ३ ॥ रतिरभोपमाकारा राजः पुत्री सुतस्तु मे। कुष्ठी तदेतयोर्योगं कथं जानन् करोमि किम् ॥ ४ ॥ पथवाऽयं मयोपायो लयो यत्कुलदेवताम् । पाराध्य साधयिष्यामि सर्वमात्मसमीहितम् ॥ १॥ ततचाराधयामास विधिना कुलदेवताम् । उवाच साऽपि प्रत्यक्षीभूय मन्त्रिन स्मृताऽस्मि किम् ॥६॥ (१) ग घ -नन्दिनो। (२) घ -म्य अयोद्देष । (३) घ मा । Page #12 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र मन्त्राचे त्वं स्वयं वेत्सि सर्वं दुःखस्य कारणम् । तथा कुरु यथा पुत्रो नौरोगाङ्गो भवेन्मम ॥ ७ ॥ देव्यूचे नान्यथाकत्तुं नृणां कर्म पुराततम् । देवतैरपि शक्येत वृथेयं प्रार्थना तव ॥ ८ ॥ मन्त्री प्रोवाच यद्येवं तदन्यमपि पूरुषम् । तदाकारं निराकल्यं कुतोऽप्यानीय मेऽपय ॥ ८ ॥ तेनोहाय महाराजपुत्री कमललोचनाम् । अपयिष्यामि पुत्रस्य करिष्येऽस्य यथोचितम् ॥ १० ॥ 'देवतोचे पुरीहारे ऽखरक्षकनरान्तिके । शीतव्यथानिरासार्थ अग्निसेवापरो हि यः ॥ ११ ॥ कुतोऽप्यानीय मयका मुक्ती भवति बालकः। स मन्विन् भवता ग्राह्यः पश्चात्कुर्याद्यथोचितम् ॥ १२ ॥ (युग्मम् ) इत्युक्त्वाऽन्तर्दधे देवी दृष्टोऽथ सचिवेश्वरः । सवां विवाहसामग्री प्रगुणीकुरुते स्म सः ॥ १३ ॥ अश्वपालनरं छनमाकार्य निजकं ततः। तस्मै निवेद्य सकलं वृत्तान्तं सत्यमादितः ॥ १४ ॥ इदमूचे च यः कश्चिदभ्येति भवदन्तिके । कुतोऽपि बालकः सो हि समर्यो मेऽविलम्बितम् ॥ १५ ॥ तं श्रेष्ठिनन्दनं तस्या वरं विज्ञाय माविनम् । उज्जयिन्यां ययौ पुयां मन्त्रिण: कुलदेवता ॥ १६ ॥ (१) घ देव्युवाच । Page #13 -------------------------------------------------------------------------- ________________ प्रथम: प्रस्तावः । अन्तरिक्षस्थितोवाच सा चैवं तस्य शृण्वतः । पुष्पाण्यानीय चारामागच्छतो निजवेश्मनि ॥ १७ ॥ स एष बालको याति पुष्पभाजनपाणिकः । परिणेष्यति यो राजकन्यकां भाटकेन हि ॥ १८ ॥ तच्छ्रुत्वा विस्मितः सोऽथ किमेतदिति सम्भ्रमात् । तातस्य कथयिष्यामीति ध्यायन् सदनं ययौ ॥ १८ ॥ ग्टहं गतस्य सा वाणो विस्मृता तस्य देवती । द्वितीये दिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत् ॥ २० ॥ अहो 'अद्यैव सा वाणी या श्रुता ह्यो मयाऽम्बरे । तदद्य सदनं प्राप्तः कथयिष्याम्यहं पितुः ॥ २१ ॥सोऽचिन्तयदिदं यावत्तावदुत्पाद्य वात्यया |नोतो दूरतरारण्ये चम्पापुर्याः समीपगे ॥ २२ ॥ भयभ्रान्तस्तृषाक्रान्तः श्रान्तस्तत्र स बालकः । सन्मानसभ्भ्रमकरं ददर्शाग्रे सरोवरम् ॥ २३ ॥ तत्र वस्त्राञ्चलापूतं पयः पीत्वाऽतिशीतलम् । तत्सेतुस्कन्धसंरूढमाशिवाय वटद्रुमम् ॥ २४ ॥ तदा चास्तमितो भानुरवस्थापतितस्य हि । श्रेष्ठिपुत्त्रस्य तस्योपकारं कर्त्तुमिवाक्षमः ॥ २५ ॥ कृत्वा दर्भतृणैरज्जुं तयाऽऽरुह्य च तं द्रुमम् । स ददर्शोत्तराशायामदूर ज्वलितानलम् ॥ २६ ॥ (१) ख ङ अद्यापि ।. · : १३ Page #14 -------------------------------------------------------------------------- ________________ १४ श्रीशान्तिनाथचरित्रे | ततो वटासमुत्तीर्य स भीतः शीतविह्वलः । हुताशनानुसारेण चम्पापुर्या ययौ बहिः ॥ २७ ॥ तत्रोपान्तेऽखपालानां कुर्व्वाणो वह्निसेवनम् | यावदासीदसौ हस्यमानस्तैर्दुष्टचेष्टितैः ॥ २८ ॥ तावत्तेन 'नरेणेत्य पूर्वादिष्टेन मन्त्रिणा । श्रात्मनः पार्श्वमानीतः कृतश्च निरुपद्रवः ॥ २८ ॥ गोपयित्वाऽतियवेन प्रभातसमयेऽमुना । अपितोऽमात्यवर्गस्य गृहे नीत्वा सगौरवम् ॥ ३० ॥ भोजनाच्छादनप्रायममात्योऽप्यस्य गौरवम् । चकार सदनस्यान्तर्गोपनं च दिवानिशम् ॥ ३१ ॥ ततोऽसौ चिन्तयामास किमयं मम सत्क्रियाम् । कुरुते निर्गमं चैव यत्नाद्रक्षति मन्दिरात् ॥ ३२ ॥ पप्रच्छ चान्यदाऽमात्यं तात वैदेशिकस्य मे । किमिदं माननं हन्त भवह्निः क्रियतेऽधिकम् ॥ ३३ ॥ का नामेषा पुरी को वा देश: को वाऽत्र भूपतिः । इति सत्यं ममाख्याहि विस्मयोऽत्र प्रवर्त्तते ॥ ३४ ॥ श्रमात्योऽप्यब्रवोश्चम्पानान्त्रयं नगरी वरा । अङ्गाभिधानो देशश्च राजात्र सुरसुन्दरः ॥ ३५ ॥ सुबुद्धिर्नाम तस्याहं माननीयो महत्तमः । मयाऽऽनोतोऽसि वत्स त्वं कारणेन गरीयसा ॥ ३६ ॥ (१) ख घ ङ भरेणैवं । (२) घ - मात्मवर्यस्य । Page #15 -------------------------------------------------------------------------- ________________ . प्रथमः प्रस्तावः । त्रैलोक्य सुन्दरी नाम राजा पुत्री विवाहितुम् । प्रदत्ता मम पुत्राय स तु कुष्ठेन पीडितः ॥ ३७ ॥ परिणीय त्वया भद्र विधिना सा नृपाङ्गजा । दातव्या मम पुत्राय तदर्थं त्वामिहानयम् ॥ ३८ ॥ तच्छ्रुत्वा मङ्गलो ऽवोचदक्कत्यं किं करोष्यदः । क्व सा रूपवती बाला निन्द्यरोगी क ते सुतः ॥ ३८ ॥ कर्मेदं न करिष्यामि कथञ्चिदतिनिष्ठुरम् । कूपे क्षिला जनं मुग्धं वरत्राकर्त्तनोपमम् ॥ ४० ॥ मन्नू चे चेन कर्मेदं करिष्यसि सुदुते । तदा त्वां निजहस्तेन मारयिष्यामि निश्चितम् ॥ ४१ ॥ इति निस्त्रिंशमाक्कष्य भणितोऽपि सुबुद्धिना । अक्कृत्यं नानुमेने तत् स कुलीनशिरोमणिः ॥ ४२ ॥ प्रधानपुरुषैर्मन्त्री निषिद्धस्तस्य मारणात् । अभाणि सोऽपि मन्यख भद्र त्वं मन्त्रिणो वचः ॥ ४३ ॥ ततोऽसौ चिन्तयामास भवितव्यमिदं खलु । अन्यथोज्जयिनी काऽसौ ममेहागमनं क्व च ॥ ४४ ॥ इदमाकाशवाचाऽपि दैवत्या कथितं तदा । तत्करोम्यहमप्येवं यद्भाव्यं तद्भवत्यहो ॥ ४५ ॥ विचिन्त्येदं पुनः स्माह मङ्गलो मन्त्रिणं प्रति । यद्यवश्यमिदं कार्यं मयका की निर्घृणम् ॥ ४६ ॥ तदाऽहमपि वः पार्श्वे नाथ नाथामि सर्वथा । मह्यं ददाति यद्राजा वस्तुजातं ममैव तत् ॥ ४७ ॥ १५ Page #16 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र स्थापनीयं तु तत्सर्वमुज्जयिन्याः पुरोऽध्वनि । एवमस्त्विति तद्दाक्यं मैने मन्त्रापि बुद्धिमान् ॥ ४८ ॥ इति मङ्गलकुम्भोक्तं सचिवः प्रत्यपद्यत । सर्वं च सज्जयामास क्रमावाहिकं विधिम् ॥ ४८ ॥ अथ व्योम्नःप्रतिच्छन्दमिव मण्डपमुत्तमम् । आदेश कारकैः भूपः स्वानुरूपमकारयत् ॥ ५० ॥ कुमारकः कृतस्नानः कृतचन्दनलेपनः । सदशश्वेतवसनो हस्तविन्यस्तकरणः ॥ ५१ ॥ दत्तकुडमहस्तोऽथ हस्त्यारूढो विभूषणैः । उत्तममेरुशृङ्गाग्ररूढकल्पद्रुमोपमः ॥ ५२ ॥ द्राधीयोभिर्वरस्त्रीणां जलुलुध्वनिभि शम् । पञ्चखनैश्च विदधत् दिवं नादमयोमिव ॥ ५३ ॥ कृतशरधनुईण्डैर्मायूरातपवारणैः । वार्यमाणातपः प्राप मण्डपहारसविधिम् ॥ ५४ ॥ उत्तीर्य कुञ्जरात् तुङ्गात् कुलस्त्रीभिः कृतं तदा । अर्घमेष प्रतौयेष प्रद्योतन इव प्रगे ॥ ५५ ॥ समासने ततो लग्ने हस्तिस्कन्धाधिरोपितः । स निन्ये भूपतेः पाखें वस्त्राभरणभूषितः ॥ ५६ ॥ त्रैलोक्यसुन्दरी साऽथ दृष्ट्वा तं मन्मथोपमम् । अमंस्त तहरप्राप्त्या कृतार्थं स्खं मनस्विनी ॥ ५७ ॥ (१) घ हि। Page #17 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । ततश्च विप्रे पुण्याहं पुण्याहमिति जल्पति। चत्वारि परितो वह्नि भेमतुर्मण्डलानि तौ ॥ ५८ ॥ प्रथमे मण्डले राजा चारुवस्त्राण्यनेकशः । वरायादाद् द्वितीये च स्थाला भरणसञ्चयम् ॥ ५८ ॥ टतीये मणि हेमादि चतुर्थे च रथादिकम् । जायापत्योस्तयोरित्यं जन्ञ पाणिग्रहोत्सवः ॥ ६० ॥ कतोहाहे वर चास्मिन् वधूहस्तममुञ्चति । उवाच नृपतिर्भूयो वत्स यच्छामि किं नु ते ॥ ६१ ॥ ततश्च याचितस्तेन जात्यघोटकपञ्चकम् । तत्तस्मै शीघ्रमेवासौ प्रददौ प्रीतमानसः । ६२ । वाद्यमाने ततस्तूर्येऽभवदवलमङ्गलः । मन्त्रिणा स्वयह निन्ये समं वध्वा स मङ्गलः ॥ ६३ ॥ तत्रामात्यग्रहजनश्छन छन्नमभाषत । कथं निर्वास्यतेऽद्यापि नायं वैदेशिको नरः ॥ ६४ ॥ त्रैलोक्यसुन्दरी साऽथ चलचित्तं निजं पतिम् । ज्ञात्वेङ्गितैस्ततस्तस्योपान्तं नैवामुचत् क्षणम् ॥ ६५ ॥ तत: क्षणान्तरेखासौ देहचिन्तार्थमुत्थितः । जलपात्रं गृहीत्वाऽऽशु तदनु प्राचलच्च सा ॥ ६६ ॥ कृतायामपि तस्यां तं शून्यचित्तं रह:स्थितम् ॥ उवाच प्रेयसी कान्त बाधते त्वां क्षुधा नु किम् ॥ ६ ॥ (३) ङ, च। (१) ख घ वस्त्रा । (२) ङ -हस्तं न मुञ्चति । Page #18 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र ओमिति भणिते तेन दासीहस्तेन मोदकान् । आनाय्य स्वग्रहात्तस्मै ददौ त्रैलोक्यसुन्दरी ॥ ६८ ॥ भुक्तेषु तेषु पानीयं पिबता तेन भाषितम् । अहो रम्यतरा एते मोदकाः सिंहकेसराः ॥ ६८ ॥ उज्जयिन्या नगर्याश्चेनौरमाखाद्यतेऽमलम् । तदा टप्तिर्भवेब्रून मोदकष्षशितेष्वपि ॥ ७० ॥ तच्छ्रुत्वा राजपुत्री सा दध्यावाकुलचेतसा। . अहो अघटमानं किं वाक्यमेष प्रजल्पति ॥ ७१ ॥ मागहमथावत्यामार्य पुत्रस्य भावि वा। तदसौ दृष्टपूर्ववाज्जानात्यस्याः स्वरूपताम् ॥ ७२ ॥ ततश्च निजहस्तेन मुखपाटवकारणम् । . . पञ्चसौगन्धिकं तस्मै ताम्बूलं दत्तवत्यसौ ॥ ७३ ॥ सन्ध्याकाले पुनमन्त्रिमानुषैः प्रेषितोऽथ सः । त्रैलोक्यसुन्दरीमेवमूचे मतिमतां वरः ॥ ७४ ॥ गमिष्यामि पुनर्देहचिन्तायामुदरार्तिभाक् । त्वया क्षणान्तरेणागन्तव्यमादाय पुष्करम् ॥ ७५ ॥ निरगाञ्च ततो मन्त्रिमन्दिरात्पुरुषांश्च तान् । पप्रच्छ राजदत्तं भोः कास्ति तहस्तु मामकम् ॥ १६ ॥ तैश्च तद्दर्शितं सर्वमुज्जयिन्याः पथि स्थितम् । तत: सारतरं वस्तु निक्षिप्यकरथे बरे ॥ ७७ ॥ तस्मिंश्च योजयित्वाऽखांश्चतुरः पृष्ठतस्तथा । बध्वैकं शेषकं वस्तु मुक्त्वा तत्रैव सोऽचलत् ॥७८॥ (युग्मम्) Page #19 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः ।। १८ पृष्टाचानेन ते ग्रामानुज्जयिन्यध्वगावराः1. प्रत्येकं कथयन्ति स्म नामग्राहं मुहुर्मुहुः ॥ ७ ॥ ततो रयाधिरूढोऽसौ तेन मार्गेण बुद्धिमान् । स्तोकैरेव दिनैः प्राप्तस्तामेव नगरौं निजाम् ॥ ८ ॥ इतश्च पितरौ तस्य तमन्विष्य विलय च । बहुधा बहुभिर्घौः गतशोको बभूवतुः ॥ ८१ ॥ गृहाभिमुखमायान्तं रथारूढं विलोक्य तम् । बभाषऽथापरिज्ञाय जनन्यस्य ससम्भ्रमम् ॥ २ ॥ प्रेयते गृहमध्येन राजपुत्र कथं रवः । कर्तास्यभिनवं मागं किं खं त्यक्त्वा पुरातनम् ॥ ८३ ॥ इत्थं निषिध्यमानोऽपि न यावहिरराम सः । आचख्यो श्रेष्ठिनस्तावत् श्रेष्ठिन्याकुलिताशया ॥ ८४ ॥ श्रेष्ठयप्यस्य निषेधार्थ ग्रहाद्यावविरोयिवान् । तावद्र्थात्समुत्तीर्य पितुः पादौ ननाम सः ॥ ८५ ॥ उपलक्ष्य ततस्ताभ्यामाश्लिष्टस्तनयो निजः । सद्यः प्रादुर्भवहर्षाऽश्रुपूरप्लावितेक्षणम् ॥ ८६ ॥ पप्रच्छ चोपविष्टः सन् वत्सर्डिः कुत ईदृशी। क्क वा कालमियन्तं त्वं स्थितोऽसि चद नन्दन ॥ ८७ ॥ ततश्चात्मकथा तेन पितुरग्रे निवेदिता । वाक् श्रुत्यपहारादि स्वस्थानागमनाबधि ॥ ८८ ॥ (३) घ बाचा (१) ङ च छ -गा मराः । (२) ख घ तत आत्म-। Page #20 -------------------------------------------------------------------------- ________________ श्रौशान्तिनाथचरित्र अहो पुत्रस्य सौभाग्यमहो पुत्रस्य दक्षता। अहो धैर्यमहोभाग्य मिति प्राशंसतामिमौ ॥ ८८ । ततः प्राकारसंगुप्त' स स्वर्गहमकारयत्। अखानां रक्षणार्थं च मन्दुरादिनियन्त्रणम् ॥ ८० ॥ सोऽन्येार्जनकं स्माह मम तात कलागमः । खल्पोऽस्त्यद्यापि तं' पूर्ण करिष्यामि त्वदाजया ॥ १ ॥ ततश्चानुमतः पित्रा कलाचार्यस्य सन्निधौ । कलाऽभ्यासं चकारासौ वकीयसदनान्तिके ॥ १२ ॥ इतश्च मन्त्रिणा तेन रात्रौ मङ्गलवेषभृत् । प्रेषितो वासभवने वधूपान्ते सुतो निजः ॥ ८३ ॥ शय्यारूढं च तं दृष्ट्वा दध्यौ त्रैलोक्यसुन्दरी। कोऽयं कुष्ठाभिभूताङ्गः समायातो ममान्तिकम् ॥ ८४ ॥ करस्पर्शमथो कर्तुमुद्यतेऽस्मिन् झटिन्यपि । सा शय्यायाः समुत्थाय निर्ययौ भवनाहहिः ॥६५॥ दासीभिर्भणिता किं नु खामिन्यसि ससम्भमा । साऽवदहेवतारूपी गतः क्वापि स मे पतिः ॥ ८६ ॥ प्रत्यूचुस्ता इदानों स प्रविष्टोऽत्र पतिस्तव । साऽब्रवीत्रास्त्यसावत्र कुष्ठिकः कोऽपि विद्यते ॥ ८७ ॥ दासीमध्ये ततः सुप्ता तामतीत्य विभावरीम् । त्रैलोक्यसुन्दरी प्रातर्ययौ पिटगृहं निजम् ॥ १८ ॥ (१) ग संयुक्त । (२) “ग सं। Page #21 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । सुबुद्धिरपि दुर्बुद्धिः सोऽथ मन्त्री महीपतेः। ययौ सकाशमन्येद्युश्चिन्ताश्याममुखः किल ॥ ८ ॥ कृतप्रणतिमासीनमथैनं पृथिवीपतिः। हर्षस्थाने विषादः किं तवेत्यूचे कृताग्रहः ॥ २० ॥ स जगाद महाराज विचित्रा कम्मणां गतिः। . अस्माकं मन्दभाग्यानां वशात्परिणता कथम् ॥ १ ॥ चिन्तयत्यन्यथा जीवो हर्षपूरितमानसः । विधिस्त्वेष महावैरी कुरुते कार्यमन्यथा ॥ २॥ . राजा प्रोवाच हे मन्विन् उक्बा खं दुःखकारणम् । मामप्यमुष्य दुःखस्य संविभागयुतं कुरु ॥ ३ ॥ .... निःश्वस्य सचिवोऽप्यूचे देव दैवं करोति तत् ।. .. यहतमपि नो शक्यमश्रद्धेयं च शृखताम् ॥ ४ ॥ खामिपादैः सप्रसादैर्दत्ता सूनोर्ममात्मजा। तस्यां त परिणीतायां यहत्तं तन्निशम्यताम् ॥ ५ ॥ यादृग राज्ञा स्वयं दृष्टस्तागेव सुतो मम। .. अधुना कुष्ठरोगाप्तो दृश्यते क्रियते नु किम् ॥ ६ ॥ तच्छ्रुत्वा भूपतिर्दध्यौ सा नूनं मम नन्दिनी। .. अलक्षणा तत्प्रभावात् कुष्ठी जातोऽस्य पुत्रकः ॥ ७ ॥ वकर्मफलभोक्तारः सर्वे जगति जन्तवः । अयं हि निश्वयनयो यद्यप्यस्ति जिनोदितः ॥ ८॥ (१) ख ग ड च छ तत्तभावेन । Page #22 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र तथापि व्यवहारोऽयं यो हेतुः सुखदुःखयोः । स एव क्रियते लोके भाजनं गुणदोषयोः ॥ ८ ॥ (युग्मम्) स्वकम्मपरिणामेन जज्ञे पुत्रोऽस्य कुष्ठिकः । जाता च तबिमित्तत्वात्पुत्री मे दोषभाजनम् ॥ १० ॥ ऊचे च सचिवोऽनर्थमकार्षमहमीदृशम् । नादास्यं चेत्सुतां कुष्ठी नाभविष्यत्सुतोऽपि ते ॥ ११ ॥ अमात्योऽग्यब्रवीत् स्वामिन् हितकार्य प्रकुर्वताम् । को दोषो भवतामत्र दोषो मत्कर्मणां पुनः ॥ १२ ॥ प्रथोत्थाय ययौ मन्त्री सा तु' त्रैलोक्यसुन्दरी। इष्टाऽप्यनिष्टा संजाता राज्ञः परिजनस्य च ॥ १३ ॥ न कोऽप्येनामाललाप नाभ्यनन्दत् दृशाऽपि हि । एकत्र गुप्तर्गहेऽस्थात् सा माटगृहपृष्ठतः ॥ १४ ॥ अचिन्तयच्च दुष्कर्म किं मया विहितं पुरा। येन क्वापि ययौ नंष्ट्वा परिणीत: स मे पतिः ॥ १५ ॥ अन्यच्च लोकमध्येऽदः कलङ्गं समुपस्थितम् । किं करोमि क्व गच्छामि व्यसने पतिताऽस्मि हा ॥ १६ ॥ एवं चिन्तां प्रकुर्वन्त्यास्तस्याश्चित्ते स्थितं तदा। भवितोज्जयिनीपुर्यां प्राप्तो नूनं स मे पतिः ॥ १७ ॥ तदा च मोदकांस्तेन भुक्ता संजल्पितं किल । एते हि मोदका रम्याः किं त्ववन्त्या जलोचिताः ॥ १८ ॥ (१) घ ङ लोकैः। (२) ग ङ साऽनु । Page #23 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । ततः केनाप्युपायेन तत्र गच्छाम्यहं यदि । तत्रान्विष्य मिलित्वा च भवामि सुखभागिनी ॥ १८ ॥ अथान्येद्युरुवाचाम्बां हे मातर्जनको मम । एकवारं यथा वाक्यं शृणोति त्वं तथा कुरु ॥ २० ॥ तां दृष्ट्वाऽनादरपरामन्येद्युः सिंहनामकम् । सामन्तं ज्ञापयामास सा तमर्थं कृताञ्जलिः ॥ २१ ॥ सोऽथ राजकुले गत्वा नृपं नत्वोपविश्य च । इति विज्ञापयामास प्रस्तावे वदतां वरः ॥ २२ ॥ नृनाथ भवता मान्यचरी सम्प्रत्यसम्मता । वराको वर्त्तते कष्टे सेषा' त्रैलोक्यसुन्दरी ॥ २३ ॥ अस्याः संमानदानादि दूरेऽस्वालपनं तथा । वाक्यश्रवणमात्रेण प्रसादोऽद्य विधीयताम् ॥ २४ ॥ पार्थिवोऽप्यश्रुपूर्णाक्षः प्रोचे सिंह पुराभवे । अनया विहितं किञ्चिदभ्याख्यानादि दुष्कृतम् ॥ २५ ॥ तदियं तत्प्रभावेन कलङ्किततनूरभूत् । state प्राप्ता गाढमस्माकमप्यहो ॥ २६ ॥ वाक्यं तदद्य यत्किञ्चिदनयाऽस्ति विवक्षितम् । तद् ब्रवीतु न रुष्टैरप्यात्मीयः परिभूयते ॥ २७ ॥ ततस्तदनुमत्यैत्य तत्र त्रैलोक्यसुन्दरी । उवाच तात मे वेषं कुमारोचितमर्पय ॥ २८ ॥ (१) ख ग घ ङ च छ ऽस्य । (2) ग ङ छ कष्टेनैषा । २३ Page #24 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र भूयो राजाऽब्रवीत् सिंह किमिदं वक्त्यसौ वचः । सोऽवदद्देव युक्तं हि क्रमोऽस्ति यदयं किल ॥ २८ ॥ राज्ञां गृहेषु चेत्पुत्री गुरुकार्येण केनचित् । वेषं याचते तस्यै दातव्यः स न संशयः ॥ ३० ॥ ततस्तदनुमत्याऽस्यै पुंदेषं पार्थिवो ददौ । आदिदेश च तं सिंहं तद्रक्षार्थ बलान्वितम् ॥ ३१ ॥ अभ्यधात्सुन्दरी भूयस्ताताना चेद्भवेत्तव । उज्जयिन्यां ततो यामि कारणेन गरीयसा ॥ ३२ ॥ कारणं कथयिष्यामि तज्जाते च समोहिते । अधुना कथिते तस्मिन् परिणामो न शोभन: ॥ ३३ ॥ हे पुत्रि' मम. वंशस्य यथा नाभ्येति दूषणम् । तथा कार्यं त्वयेत्युक्त्वा विसृष्टा सा महीभुजा ॥ ३४ ॥ ततश्च सिंहसामन्तभूरिसैन्यसमन्विता । अखण्डितप्रयाणः सा ययावुज्जयिनी पुरीम् ॥ ३५ ॥ वैरिसिंहो नृपोऽथैवं शुश्राव जनतामुखात् । यच्चम्पाया: समागच्छन्नस्त्यत्र नृपनन्दनः ॥ ३६ ॥ अभियानादिसन्मानखागतप्रश्नपूर्वकम् । पुरे प्रवेश्य तेनासावानीतो निजमन्दिरे ॥ ३० ॥ पृष्टा चागमनाथं सा प्रोवाच नगरीमिमाम् । द्रष्टुमाश्चर्यसंपूर्णामागतोऽस्मि वु तूहलात् ॥ ३८ ॥ (१) ग ङ छ पुतिके Page #25 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । ततः प्रोको नरेन्द्रेण त्वया स्थेयं ममौकसि । सुरसुन्दरराजस्य मम गैहस्य नान्तरम् ॥ ३८ ॥ राजढौकितगेहे सा तस्थौ सबलवाहना । पत्तीवेत्यादिशत् स्वादु नीरस्थानं निरीक्ष्यताम् ॥ ४० ॥ पूर्वस्यां दिशि ते तत्तु ज्ञात्वा तस्यै न्यवेदयन् । तन्मार्गे कारितावासे ऽवात्मोत् साऽथ नृपाजया ॥ ४१ ॥ गच्छतो नौरपानार्थमन्यदाऽश्वानिरीक्ष्य तान् । सा दध्यौ मम तातस्य सत्का एते तुरङ्गमाः ॥ ४२ ॥ तेषामनुपदं प्रेष्य पुन त्यान् विवेद सा। भर्तुंगुहाभिधानादिसर्वशुहिं मनस्विनी ॥ ४३ ॥ कलाभ्यासपरं तं च जात्वा त्रैलोक्यसुन्दरी। . उवाच सिंहमेते हि कथं ग्राह्यास्तुरङ्गमाः ॥ ४४ ॥ सिंहोऽवादीत्त्वयाऽऽदिष्टोपायेनैव ततश्च सा । सच्छात्रं तं कलाचार्य भोजनाय न्यमन्त्रयत् ॥ ४५ ॥ भोजनार्थमुपाध्याये तत्रायाते ददर्श सा। छात्रमध्ये स्वभर्तारं हृदयानन्ददायिनम् ॥ ४६ ॥ तस्मा आसनमात्मीयं स्थालं चादापयत्तदा । प्रकारयविशेषेण गौरवं भोजनादिषु ॥ ४७ ॥ (१) च भलाद। Page #26 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे ततो वस्त्राणि सर्वेभ्यो यथायुक्तमदत्त सा । तस्मै निजाङ्गलग्नं च वासोयुग्मं मनोहरम् ॥ ४८॥ उवाच च कलाचार्यमेतन्मध्यात् त्वदाजया। यो जानाति स आख्यातु च्छात्रो मम कथानकम् ॥ ४८ ॥ सर्वैरपीर्थया छात्रै निर्दिष्टः सोऽथ मङ्गलः । उपाध्यायगिरा धीमान् वक्नुमेवं प्रचक्रमे ॥ ५० ॥ चरितं कल्पितं किं वा कथयामि कथानकम् । साऽवदच्चरितं ब्रूहि, पर्याप्तं कल्पितेन भोः ॥ ५१ ॥ मङ्गलश्चिन्तयामास सैषा त्रैलोक्यसुन्दरी। चम्पापुयां भाटकेन परिणीता हि या मया ॥ ५२ ॥ केनापि हेतुनेहागात् भूत्वा वेषधारिणी। भवत्वेवं कथां तावत् कथयामि निजामहम् ॥ ५३ ॥ जगाद च कथा लोकप्रिया चित्रकरौ भवेत् । सा च वृत्ता मदीयेऽङ्गे तामाख्यामि निशम्यताम् ॥ ५४ ॥ ततश्चात्मकथा तेनादितस्तत्र प्रकाशिता । तावद्यावदमात्येन ग्टहानिर्वासितोऽस्माहम् ॥ ५५ ॥ अनान्तर कतालीककोपा राजसुताऽवदत् । अमुं ग्टहीत गृहीत रे रे मिथ्याभिभाषिणम् ॥ ५६ ॥ इत्युक्ते पत्तयस्तस्यास्तद्ग्रहार्थं समुद्यताः । तयैव वारिताः शीघ्रं स चानीतो यहान्तरे ॥ ५७ ॥ अथैनमासनेऽध्यास्य सिंहमूचे नृपात्मजा। अयि येनाहमूढाऽस्मि स एवायं प्रियो मम ॥ ५८ ॥ Page #27 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । ७ किमत्र युज्यते कर्तुमित्युक्तः सोऽपि चाब्रवीत् । अयं तव भवेद्भर्त्ता तदा सेव्योऽपशङ्गितम् ॥ ५८ ॥ सोचे सिंहं तवाद्यापि चित्ते यद्यस्ति संशयः । ततोऽस्य मन्दिरे गत्वा स्थालादीनि विलोकय ॥ ६ ॥ तद्दिधातुमथो सिंहो धनदत्तगृहं ययौ। सोऽग्रे छात्रमुखात् पुखापायं श्रुत्वाऽऽकुलोऽभवत् ॥ ६१ ॥ पुत्रस्य गौरवोदन्तमाख्यायैतेन बोधितः । दर्शयामास च स्थालादीनि तद्भणितोऽस्य सः ॥ ६२ ॥ वध्वाः स्वरूपकथनेनासाद्य श्रेष्ठिनं ततः । सिंहः पुना राजपुत्राः समीपं समुपाययौ ॥ ६३ ॥ सिंहेनानुमता साऽथ कृत्वा खोवेषमुद्भटम्। . बभूव वल्लभा तस्य मङ्गलस्य महात्मनः ॥ ६४ ॥ ययौ च श्रेष्ठिनो वेश्म तत् युग्मं पार्थिवोऽपि तत् । आकार्य सर्ववृत्तान्तं पृष्ट्वा श्रुत्वा विसिभिये ॥ ६५ ॥ ततस्तत्रैव प्रासादे गत्वा राजाजया पुनः । समं त्रैलोक्य सुन्दU विललास स मङ्गलः ॥ ६६ ॥ सुन्दर्या प्रेषितः सोऽथ सिंहः सबलवाहनः । लावा पुरुषवेषं तं ययौ चम्पापुरौं पुनः ॥ ६७ ॥ अमुना सर्ववृत्तान्ते कथिते जगतीपतिः।। हृष्टोऽभाषिष्ट वत्साया अहो मे मतिकोशलम् ॥ ६८ ॥ 1.1 . (१) संग ङ छ अयं हि तव चेगा। (२) च गवेषय। . . . Page #28 -------------------------------------------------------------------------- ________________ २८. श्रीशान्तिनाथचरित्र अहो कुधीरमात्यस्य पापकर्म विधायिनः । येनादोषाऽपि मत्युत्री सदोषा विहिता कथम् ॥ ६८ ॥ सिंहं पुनरपि प्रेष्योज्जयिन्यां निजनन्दिनीम् । सकान्तां स समानाय्य सच्चक्रे च यथाविधि ॥ ७० ॥ अमात्यं धारयित्वा तं मार्यमाणं महीभुजा। मङ्गलो मोचयामास गाढाभ्यर्थनया नृपात् ॥ ७१ ॥ जामातुरुपरोधन मया मुक्तोऽसि पाप रे । इति वित्रुवता राज्ञा सोऽथ निर्वामितः पुरात् ॥ ७२ ॥ अपुत्रः सोऽथ भूपालो मेने जामातरं सुतम् । तत्रैवानाययामास तन्मातापितरावपि ॥ ७३ ॥ अन्येार्मन्त्रिसामन्तसंमत्योत्सवपूर्वकम् । . मङ्गलकलसं राज्ये सुधीः स्थापयति स्म सः ॥ ७४ ॥ यशोभद्राभिधानानां सूरीणां चरणान्तिके । सुरसुन्दरभूपालः परिव्रज्यामुपाददे ॥ ७५ ॥ राज्ये संस्थापितः कोऽपि वणिग्जातिरितीर्थया। प्रत्यन्तपार्थिवा राज्यं हतु तस्योपतस्थिरे ॥ ७६ ॥ सेनया चतुरङ्गिन्या सहितेन महौजसा । दृढपुण्यप्रभावेन जिताः सर्वेऽपि तेन ते ॥ ७७ ॥ शान्तामित्रस्य तस्याथ राज्यं पालयतः सतः । पत्नयां त्रैलोक्यसन्दयी सुतोऽभूज्जयशेखरः ७८ ॥ स च राजा निजे देशे जिनचैत्यान्यनेकशः । जिना रथयात्राश्चेत्यादिधर्ममकारयत् ॥ ७ ॥ Page #29 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः ।। अन्यदोद्यानमायातं जयसिंहाभिधं गुरुम् । गत्वा ववन्दे भावेन सकलत्रः सभूपतिः ॥८० ॥ पप्रच्छ च यथा केन कर्मणा भगवन्मया । प्राप्ता बिडम्बनोहाहे देव्या प्राप्तं च दूषणम् ॥ ८१ ॥ मूरिरूचेऽथ भरते क्षेत्रेऽत्रवास्ति पत्तनम् । क्षितिप्रतिष्ठितं नाम धनधान्यसमृद्धिमत् ॥ २ ॥ आसीत्तत्र सोमचन्द्राभिधान: कुलपुत्रकः । श्रीदेवी च तद्भार्याऽभूत् तौ मिथः प्रीतिशालिनौ ॥ ८३ ॥ सोमचन्द्रः प्रकृत्यासावाजवादिगुणान्वितः । मान्यः समस्तलोकानां तस्य भार्या च तादृशी ॥ ८४ ॥ इतस्तत्रैव नगरे जिनदेवाभिधः सुधीः । श्रावकोऽभूत्समं तेन तस्य मैत्री निरन्तरा ॥ ८५ ॥ जिनदेवो धनाकाही धने सत्वपि सोऽन्यदा। . देशान्तरं गन्तुकामो निजं मित्रमभाषत ॥ ८६ ॥ धनायाहं गमिष्याहि मयि तत्र' गते त्वया। मामकीनं धनं सप्तक्षेत्रयां वाप्यं यथाविधि ॥ ८७ ॥ तवापि तस्य पुण्यस्य षष्ठांशो भवतादिति । दीनाराणां सहस्राणि दशैतस्यार्पयत्करे ॥ ८८ ॥ गते देशान्तर तस्मिन् सोमचन्द्रोऽथ तमुहृत् । व्ययति स्म यथास्थानं तद्व्यं शुद्धचेतसा ॥ ८८ ॥ आत्मीयमपि तस्यानुसारेणायं व्यधादृषम् । तज्ञात्वा तस्य भार्याऽपि धर्म भेजेऽनुमोदनात् ॥ ८० ॥ Page #30 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र तस्मिन्नेष पुरे तस्याः सखी भद्राऽभिधाऽभवत् । नन्दस्य श्रेष्ठिनः पुत्री देवदत्तस्य गेहिनी ॥ ८१ ॥ देवदत्तः स कालेन कर्मदोषण केनचित् । कुष्ठी जन्ने ततो भद्रा तप्रिया विषसाद सा ॥ १२ ॥ पुरःसख्यास्तयाऽन्येास्तत्वरूपं निवेदितम् । तया च हासपरया भणिता सा ससंभ्रमम् ॥ ८३ ॥ हले त्वत्सङ्गदोषेण कुष्ठी जज्ञे पतिस्तव । ममापि दृष्टिं मागास्त्वमतोऽपसर दूरतः ॥ ८४ ॥ सा तेन वचसा दूना तस्थौ श्याममुखी क्षणम् । हास्यमेतदिति प्रोच्य तयवाहादिता ततः ॥ ८५ ॥ स सोमचन्द्रः श्रीदेव्या तया साई च भार्यया । साधुसंसर्गत: प्राप्तं श्राद्धधर्ममपालयत् ॥ ८६ ॥ अन्ते समाधिना मृत्वा सौधर्म विदशाविमौ । दम्पती समजायेतां पञ्चपल्योपमस्थिती ॥ ७ ॥ सौधर्मात्सोमचन्द्रामा युत्वाऽभूत् भूपतिर्भवान् । जीवश्चात्वा च श्रीदेव्या जज्ञे त्रैलोक्य सुन्दरी ॥ ८ ॥ परद्रव्येण यत्पुण्यं भवतोपार्जितं तदा । तदेषा भाटकेनैव परिणीता नृपात्मजा ॥ ८ ॥ हास्येनापि वयस्यायै यहत्तमनया पुरा । तदेतस्यामिह भवे कलङ्कः समभूद् ध्रुवम् ॥ ३० ॥ तदाकर्ण्य विरक्तौ तौ दत्त्वा राज्यं स्वसूनवे । राजा रानी च प्रव्रज्यां पाखें जराहतुर्गुरोः ॥ १ ॥ Page #31 -------------------------------------------------------------------------- ________________ प्रथम: प्रस्तावः । क्रमेण सोऽथ राजर्षिः सर्वसिद्धान्तपारगः । स्थापितो गुरुणा सूरिपदे परिकराकृतः ॥ २ ॥ त्रैलोक्य सुन्दरी साध्वी स्थापिता च प्रवर्त्तिनी । विपद्योभौ च तावन्ते ब्रह्मलोकमुपेयतुः ॥ २ ॥ ततथुप्रतौ मनुष्यत्वं प्राप्यानिमिषतां पुनः । एवं भवे तृतीये तौ प्रापतुः पदमव्ययम् ॥ ४ ॥ ॥ इति मङ्गलकलसकथानकम् ॥ श्रुत्वा धर्मकथामेतां प्रतिबुद्धो महीपतिः । गुरोः पार्श्वे स सम्यक्त्वं श्रादधर्ममुपाददे ॥ ५ ॥ विजहारान्यतः सूरी श्रीषेणनृपतिः पुनः । राज्यं तज्जैनधर्मं च पालयामास यत्नतः ॥ ६ ॥ राज्ञ एवोपदेशेन तप्रिया साऽभिनन्दिता । भेजे धर्मं विशेषेण भद्रकत्वं तथाऽपरे ॥ ७ ॥ इतच बलभूपेन कौशाम्बी स्वामिनाऽन्यदा । श्रीमती कुचिसम्भूता श्रीकान्ता तनया निजा ॥ ८ ॥ श्रौषेणतनयस्येन्दुषेणस्यार्थे स्वयंवरा । प्रेषिता नगरे तत्र परिवारसमन्विता ॥ ८ ॥ ( युग्मम् ) रूपातिशयसम्पत्रां तां दृष्ट्वा नवयौवनाम् । उभावपि परिणेतुकामौ तौ नृपनन्दनौ ॥ १० ॥ अयुध्येतां मिथो देवरमणोद्यानमध्यगौ । सन्रगाढकवचौ वन्येभाविव दारुणौ ॥ ११ ॥ ( युग्मम् ) ३१ Page #32 -------------------------------------------------------------------------- ________________ ३२ श्रीशान्तिनाथचरित्रे स श्रीषेणनृपः खल्पकषायः स्वच्छमानसः । जिनोक्त्या भावितोऽत्यन्तं क्षमासारः प्रियंवदः ॥ १२ ॥ वैरायमाणौ तावित्यं निरौक्ष्य निजनन्दनौ | निवारयितुमनलम्भूष्णुरेवं विचिन्तयत् ॥ १३ ॥ ( युग्मम्) अहो विषयला म्पय्यं वैचित्रंत्र कर्मणामहो । रागद्देषावहो शत्रू अहो मोहविजृम्भितम् ॥ १४ ॥ महाप्राज्ञौ महात्मानौ भूत्वाऽपि मम नन्दनौ । यतावेककामिन्याः कृते विदधतुः कलिम् ॥ १५ ॥ अनयोर्दुश्चरित्रेण लज्जमानः सभान्तरे । मुखं नगरमुख्यानां दर्शयिष्याम्यहं कथम् ॥ १६ ॥ तदेतस्यामवस्थायां मरणं शरणं मम | इत्यभिप्रायमात्मीयं देव्याः कथयति स्म सः ॥ १७ ॥ ततस्ताभ्यां सममसौ स्मृतः पञ्चनमस्कृतिः । विषमि श्रोत्पलाघ्राणप्रयोगेण व्यपद्यत ॥ १८ ॥ सत्यभामाऽपि तेनैव विधिना जीवितं जहौ । बिभ्यतो कपिलस्यास्य दुष्टशीलस्य सङ्गमात् ॥ १८ ॥ जम्बूद्दौपविदेहस्यान्तर्वत्युत्तरसंज्ञिते । कुरुक्षेत्रे ऽभवज्जीवास्ते चत्वारोऽपि युग्मिनः ॥ २० ॥ श्रीषेणाद्यप्रियाजीवावाद्यं मिथुनकं तथा । द्वितीयं मिथुनं सिंहनन्दितासत्यभामयोः ॥ २१ ॥ इतस्तयोरिन्दु विन्दुषेणयोर्युद्यमानयोः । एकस्तत्त्र कुतोऽप्येत्य चारणर्षिरदोऽवदत् ॥ २२ ॥ Page #33 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । उत्तमान्वयसंभूतौ स्वयं चरमविग्रहौ । कुर्वाणावीदृशं कर्म लज्जेथे किं न भो युवाम् ॥ २३ ॥ दृष्ट्वाऽसमञ्जसमिदं सभार्यो युवयोः पिता । विषाघ्राणप्रयोगेण मरणं समवाप सः ॥ २४ ॥ ययोरुपकृतस्येह नास्ति सोमा महीतले । तयोः पित्रोर्विनाशाय जातौ धिग् दुःसुतौ युवाम् ॥ २५ ॥ तदियं मोहगोपीया दामिनी वृषदामिनी । त्यज्यतां कामिनी खेरगामिनी कलहावनी ॥ २६ ॥ इति तद्दचमा बुद्धौ त्यक्तयुद्धौ शुभाश्यौ । तौ तं दत्वा मुनिमेवमुपश्लोकश्चतां मुदा ॥ २७ ॥ त्वं गुरुस्त्वं पिता माता त्वं बन्धुः खिग्ध भावयोः । येनावां रक्षितौ रागद्देषोपार्जित दुर्गतेः ॥ २८॥ विसृज्य 'महिलामेतां तौ गतौ निजमन्दिरम् । पित्रादीनां प्रेतकार्यं सर्वं विदधतुस्ततः ॥ २८ ॥ दत्त्वाऽथ गोत्रिणे राज्यं पार्श्वे धर्मरुचेर्मुनेः । नॄणां चतुःसहस्रेस्तौ साई जग्टहतुर्व्रतम् ॥ ३० ॥ पालयित्वा चिरं दीक्षां कृत्वा च विविधं तपः । उत्पाद्य केवलं ज्ञानं तौ कैवल्यमुपेयतुः ॥ ३१ ॥ ५ ३३ (१) ङ वनिता- | Page #34 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे श्रीषेणमुख्या मिथुनद्दयो सा भुक्वोत्तरप्राग्रग्रकुरो सुखानि । पश्चात् सोधर्ममियाय कल्पं तत्रापि पत्यवितयायुरासीत् ॥ २३२ ॥ ३४ इत्याचार्य श्री अजितप्रभसूरिविरचिते श्री शान्तिनाथचरित्रे पूर्वभवत्र्यवर्णनो नाम प्रथमः प्रस्तावः । Page #35 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । इतश्चात्रैव वैताब्य उत्तरश्रेणिभूषणम् । रथनूपुरचक्रवालाख्यमस्ति पुरं वरम् ॥ १॥ विद्याधरेन्द्रो ज्वलनजटी तनाभवहलो । स्वाहा वायुसखस्येव वायुवेगा च तप्रिया ॥ २ ॥ तत्कुक्षिसंभवो वैरिवारोवणतमोरविः । तस्यार्ककीर्त्तिरित्यासीत्यत्रोऽवप्रसूचितः ॥ ३ ॥ समधीतकलः सोऽय विनयादिगुणाञ्चितः । खुवराजपदेऽस्थापि पिना संप्राप्तयौवनः ॥ ४ ॥ पुत्री तदनुजा चन्द्रलेखास्वप्नोपसूचिता । आसीत् स्वयंप्रभानाम्नी खातन्वारहिता परम् ॥ ५ ॥ तत्राभिनन्दनजगनन्दनौ मुनिपुङ्गवौ । अन्येचुरागतौ व्योमचारिणौ पापहारिणौ ॥ ६ ॥ कन्या स्वयंप्रभा सा तु श्रुत्वा धर्म तदन्तिके । बभूव श्राविका शुद्धसामाचारी शुभाशया ॥ ७ ॥ साधू विजगतुस्तौ मां कन्या सा च स्वयंप्रभा । प्राप्ते पर्वदिनेऽन्येद्युः प्रपेदे पौषधव्रतम् ॥ ८॥ (१) ङ च -न्वितः। (२) च रूपातिशयशालिनी । Page #36 -------------------------------------------------------------------------- ________________ ३६ श्री शान्तिनाथचरित्रे तस्य पारणके जैनबिम्बमभ्यर्च्य 'वेश्मगम् । तच्छेषामर्पयामास गत्वा तातस्य सन्निधौ ॥ ८ ॥ शीर्ष शेषां तथोत्सङ्गे पुत्रीमाधाय भूपतिः । तद्रूपवयसी वोच्य चेतस्येवमचिन्तयत् ॥ १० ॥ वरप्रदानयोग्येयं संजाता मम कन्यका | तद्भर्त्ता कोऽनुरूपोऽस्या भविष्यति नभश्वरः ॥ ११ ॥ कुरु पारणकं तावत् पुत्त्रोत्युक्त्वा विसृज्य ताम् । कार्य मन्त्रिलश्चात्मचिन्तितं तदजिज्ञपत् ॥ १२ ॥ उवाच सुश्रुतस्तेषु देवरत्नपुरे वरे | 'मयूरग्रोवस्तत्पुत्त्रोऽश्वग्रोवोऽस्ति खगेश्वरः ॥ १३ ॥ भरताईमहीभर्त्ता युक्तः पुत्रा वरो हि सः । बहुश्रुतोऽवदञ्चैतन्न युक्तं प्रतिभाति मे ॥ १४ ॥ यतोऽयं वर्त्तते व्वद्धस्तदन्यः कोऽपि रूपवान् । वयः शौलकुलैस्तुल्यो वरः पुत्राः करिष्यते ॥ १५ ॥ ततो लब्धावकाशेन प्रोचे सुमतिमन्त्रिणा | यथा देवोत्तरश्रेण्यां पुरी नाम प्रभङ्गरा १६ ॥ तत्र मेघधनो राजा तद्भार्या मेघमालिनी । पुत्रो विद्युत्प्रभः पुत्री ज्योतिर्माला तयोर्वरा ॥ १७ ॥ योग्यो विद्युत्प्रभः सोऽस्या युमत्पुत्राः पतिस्तथा । ज्योतिर्माला कुमारस्य पत्नी भवितुमर्हति ॥ १८ ॥ (१) च वेश्मनि । (२) खघ मयूरग्रीवस्तूरश्वग्रीवोऽस्ति वर खेचरः । मयूरग्रीवस्रवीत्रोऽस्ति खेचरेश्वरः ॥ Page #37 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । भणितं च ततोऽन्येन श्रुतसागरमन्त्रिणा । देवास्या युज्यते कर्त्तुं कन्यकायाः स्वयंवरः ॥ १९ ॥ श्रुत्वेदं मन्त्रणं राजा मन्त्रिणो विससर्ज तान् । संभिन्नश्रोतः संज्ञं चापृच्छन्नैमित्तिकोत्तमम् ॥ २० ॥ नैमित्तिकोऽवदद्राजन् यौ पोतनपुरेशितुः | पुत्रौ प्रजापते राजस्त्रिपृष्ठाचलसंज्ञकौ ॥ २१ ॥ तावत्र भरते विष्णुबलभद्रौ भविष्यतः । प्रतिविष्णुममुं चाश्वग्रीवं व्यापादयिष्यतः ॥ २२ ॥ इति साधुमुखाद्दाक्यं मया श्रुतमतः परम् । स्वज्ञानेनापि विज्ञाय कथयामि महीपते ॥ २३ ॥ तुभ्यं विद्याधरेशत्वं स त्रिपृष्ठ: प्रदास्यति । एषा स्वयंप्रभा चाग्रामहिषी तस्य भाविनो ॥ २४ ॥ ततश्च 'परितुष्टोऽसौ राजाऽभ्यर्च्य विसृज्य तम् । प्रेषयामास दूतं च मारोचिं पोतने पुरे ॥ २५ ॥ ः गत्वा नत्वाऽमुनेत्युक्तः प्रजापतिनरेश्वरः । यदस्माकं विभुर्विद्याधरेन्द्रो ज्वलनाभिधः ॥ २६ ॥ कन्यां स्वयंप्रभानाम्त्रों त्रिपृष्ठाय सुताय ते । प्रभो दिल्सति तेनाहं प्रेषितोऽस्मि तवान्तिकम् ॥ २७ ॥ ऊचे प्रजापतिः कार्यमेतत् बहुमतं मम । वलित्वाऽऽगत्य दूतोऽपि तदाचख्यौ स्वभूभुजे ॥ २८ ॥ (१) ञ परितुष्टेन राज्ञा । ३७ Page #38 -------------------------------------------------------------------------- ________________ श्रौशान्तिनाथचरित्रे इतोऽग्वग्रौवभूपेनाखबिन्दुर्दृष्टप्रत्ययः । पृष्टो नैमित्तिको मृत्युर्मम भावो कुतो 'न्विति ॥ २८ ॥ सोऽवदच्चण्ड वेगं ते यो दूतं धर्षयिष्यति। शालिक्षेत्रापकर्तारं हनिष्थति हरिं च यः ॥ ३० ॥ स ते हन्तेति श्रुत्वा तं सत्कृत्य व्यसृजनृपः । पुत्रौ प्रजापतेः क्रूराविति लोकादिवेद च ॥ ३१ ॥ तेनाथ प्रेषितो राज्ञा ययौ दूतोऽस्वलहतिः । प्रजापतिद्वपास्थाने भवत्प्रेक्षणनिर्भरे ॥ ३२ ॥ सद्य: प्रेक्षणरङ्गस्य भङ्गं दृष्ट्वा कुमारको। त्रिपृष्ठाचलनामानौ तस्मै चुकुपतुर्भृशम् ॥ ३३ ॥ दूतः सत्कृत्य राज्ञाऽसौ विसृष्टश्चलितश्च सः । त्रिपृष्ठाचलयोरग्रे कथितस्तत्पदातिभिः ॥ ३४ ॥ ताभ्यां गत्वा मुष्टिपार्णिप्रहारेण निपीडितः । तद्रङ्गभङ्गाविनयं स्मरयभ्यां मुहुर्मुहुः ॥ ३५ ॥ श्रुत्वा प्रजापती राजा सुतयोस्तविचेष्टितम् । तंदूतं क्षमयामास सञ्चक्रे च विशेषतः ॥ ३६ ॥ तहतधर्षणं चारमुखेनाखनृपोऽशृणोत् । पश्चात् स च ण्ड वेगोऽपि तत्समीपमुपागतः ॥ ३७॥ जातोदन्तं नृपं ज्ञात्वा सोऽथ तस्मै यथातथम् । आख्याय पुनरप्यूचे देवेदं बालचेष्टितम् ॥ ३८ ॥ (१) च नरात । Page #39 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । प्रजापतिनृपस्त्वाज्ञां न ते लङ्घयति कचित् । तदेतस्योपरि क्रोधो न कर्त्तव्यो मनागपि ॥ ३८ ॥ शालिक्षेत्राण्यथो तस्य वारंवारेण पार्थिवैः । रक्ष्यन्ते स्म मृगारातेः प्रतिवर्षमुपद्रवात् ॥ ४० ॥ तस्मिन् वर्षे च तद्रचामन्यदूतमुखेन सः । प्रजापतिमवारेऽप्यकारयत् क्रुद्धमानसः ॥ ४१ ॥ पितरं प्रतिषिध्याथ कुमारौ बलशालिनौ । जग्मतुस्तत्र यत्रास्ति शालिक्षेत्र प्रदेशभूः ॥ ४२ ॥ शशंसुर्विस्मितास्तेऽथ शालिगोपकपूरुषाः । रक्ष्यन्ते शालयो ह्येते नृपैः सबलवाहनैः ॥ ४३ ॥ युवां कावपि वर्त्तेथे नवीनौ शालिरक्षकौ । निःसन्राहौ समायातौ यौ सैन्यपरिवर्जितौ ॥ ४४ ॥ ऊचे त्रिपृष्ठो भोस्तावत्स सिंहो दर्श्यतां ममः | यथा तद्रक्षण क्लेशं सर्वथा वारयाम्यहम् ॥ ४५ ॥ ततस्तैर्दर्शितस्तस्य सिंहो गिरिगुहाशयः । ययौ च तगुहाहारे त्रिपृष्ठोऽपि रथस्थितः ॥ ४६ ॥ रथचीत्कारनादेन जजागार स केशरी । प्रसारितास्यकुहरो गुहाया निर्जगाम च ॥ ४७ ॥ पदातिं तं समालोक्य कुमारोऽपि तथाऽभवत् । मुमोच खड्गरत्नं च तं निरीक्ष्य निरायुधम् ॥ ४८ ॥ कुमारचेष्टितं दृष्ट्वा दध्यौ सिंहोऽपि विस्मितः । अहो आश्चर्य्यमेकं तत् यदेकोऽयमिहागतः ॥ ४८ ॥ ३८ Page #40 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे द्वितीयं पादचारित्वं टतीयं खड्गमोचनम् । तदस्य दर्शयाम्यद्यावज्ञायाः फलमात्मनः ॥ ५० ॥ इत्युत्पत्याम्बरे रोषात् पतितो मस्तकोपरि । प्रचिक्षेप कुमारो द्राक् करौ केशरिणो मुखे ॥ ५१ ॥ एकेन पाणिनाऽऽदाय तस्यौष्ठमपरेण तु । अधरं दारयामास तं ततो जीर्णपोतवत् ॥ ५२ ॥ विधा कृत्वा विनिक्षिप्तं पृथिव्यां तत्कलेवरम् । स्फुरत्तदपि रोषण प्रोचे सारथिनांजसा ॥ ५३ ॥ नरसिंहकुमारोऽयं पशुसिंहो भवान् पुनः । . हतोऽसि सिंह सिंहेनाऽनुशयं भोः करोषि किम् ॥ ५४ ॥ प्रीतोऽपि वचसा तेन स मृत्वा नरकं गतः । प्राजापत्योऽपि तच्चखिग्रीवस्यापयत्तदा ॥ ५५ ॥ तेनैवादिष्टतत्रस्थविद्याधरनरैरथ । इति चाकथयद्यत्त्वं भुवान्धो मत्प्रसादतः ॥५६॥(युग्मम्) दृष्ट्वाऽऽकर्ण्य च 'तहाजिग्रीवोऽप्येवमचिन्तयत् । अलंभूष्णुर्ममाप्येष दोर्बलेनामुना खलु ॥ ५७ ॥ ज्ञात्वोदन्तं च कन्याया ज्वलनात्तामयाचत । सोऽपि तत्वोत्तरं किञ्चित् तत्पुंसां तमबोधयत् ॥ ५८ ॥ नीत्वा प्रच्छन्नमतां च पुरे पोतननामनि । सांवत्सरोपदिष्टेन त्रिपृष्ठेनोदवाहयत् ॥ ५८ ॥ (१) ख च छ तबीय ग्रीवो-। Page #41 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । हरिश्मरथामात्यः परिणीता स्वयंप्रभाम्। श्रुत्वा कुतश्चित्कथयामासाखग्रीवभूभुजे ॥ ६ ॥ तेनायं कुपितेनैवमादिष्टो यदिहानय । तौ त्रिपृष्ठाचलौ बध्वा खेचरं तं च मायिनम् ॥ ६१ ॥ प्रेषितथामुना दूतः स गत्वा पोतने पुरे । ज्वलनं प्रत्यभाषिष्ट पटिष्ठवचनोडतः ॥ ६२ ॥ ननु भोः कन्यकारत्नं ढोकय स्वामिनो मम | किं न जानासि रत्नानां प्रभुरेव गतिर्भवेत् ॥ ६३ ॥ ज्वलनोऽप्यब्रवीत प्रदत्ता कन्यका मया । विपृष्ठाय तदेतस्या एष रक्षाकरोऽधुना ॥ ६४ ॥ जचे विपृष्ठो रे दूत परिणीता मया बसौ। । इमामिच्छन् स ते खामी निर्विलो जीविताब्रु किम् ॥६५॥ तहतवचनात् श्रुत्वाऽखग्रीवः क्रोधदुईरः ।। विद्याधरभटान् प्रेषीत् हन्तुं तानात्मनो हिषः ॥ ६६ ॥ ते पोतनपुरं प्राप्ताः प्रहरन्तोऽयनोदिताः। लोलयैव जिताः सर्वे विपृष्ठेन महौजसा ॥ ६७ ॥ प्रोक्ताश्चेदं यथाऽऽख्येयं खरग्रीवस्य तस्य भोः । वेच्छरोऽसि तदाखेहि रथावर्तेऽस्तु नौ समित् ॥ ६८ ॥ तैश्च गत्वा तथाऽऽख्यात स विद्याधरसैन्ययुक् । तत्राययौ त्रिपृष्ठश्च 'मसैन्यं खशुरालये ॥ ६८ ॥ (१) ख घ ससैन्यः । Page #42 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र ततोऽग्रसैन्ययोयुट्टे जाते विद्याधरैः कृताः । रक्षोव्याघ्रपिशाचाद्याः हिंस्राः परविनाशकाः ॥ ७० ॥ त्रिपृष्ठसेना तद्भौता पलायिष्ट ततः स्वयम् । डुढोके खेचरैर्योढुं रथारूढोऽचलानुजः ॥ ७१ ॥ शङ्ख च पूरयामास तन्नादेन निजं बलम् । युद्धसज्जं पुनरभूत् परानीकं च विद्रुतम् ॥ ७२ ॥ डुढौके स्वयमखोऽपि योडुं स्यन्दनसंस्थितः। . त्रिपृष्ठेन समं सिंहः शरभेणेव सत्वरम् ॥ ७३ ॥ दिव्यास्त्रैर्युयुधे सोऽथ त्रिपृष्ठस्तानि लीलया। सर्वाण्युच्छेदयामास तमांसीव विकर्तनः ॥ ७४ ॥ ततश्च सोऽमुचच्चक्रं त्रिपृष्ठाय भयावहम् । तच्च वक्षसि तुम्बेन प्राजापत्यमताडयत् ॥ १५ ॥ स्थितं तत्रैव तदथोपादाय तमुवाच सः । कत्वा मम नमस्कारं रे 'स्वमारं निवारय ॥ ७६ ॥ अश्वग्रोवोऽवदन्मृत्युवरं वैरिप्रणामतः । तन्मुञ्च चक्रं को वक्रं देवं नामानुकूलयेत् ॥ ७७ ॥ ततो मुक्तं त्रिपृष्ठेन च्छित्त्वा तस्य शिरोधराम् । पुनरागात् त्रिपृष्ठस्य समीपेऽसौ सुदर्शनम् ॥ ७८ ।। प्रथमो वासुदेवोऽयमुत्पन्न इति वादिनः । उपरिष्टात् त्रिपृष्ठस्य पुष्पवृष्टिं व्यधुः सुराः ॥ ८ ॥ (१) ग ड -मारिम् । Page #43 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । ततोऽसौ साधयामास भरताईमहीपतीन् । । बने कोटिशिलां वामभुजाग्रेण च छत्रवत् ॥ ८० ॥ वासुदेवाभिषेकोऽस्य चक्रे भूचरखेचरैः । तेन चाकारि ज्वलनजटी विद्याधराधिपः ॥ ८१ ॥ अर्ककोर्तेस्तथा ज्योतिर्माला विद्युत्प्रभवसा । बभूव गैहिनी रम्या त्रिपृष्ठस्यैव शासनात् ॥ २ ॥ ययौ निजपुरं सोऽथ तस्य चात्यन्तवल्लभा । षोडशस्त्रीसहस्राणां मुख्या साऽभूत् स्वयंप्रभा ॥ ८३ ॥ इत: श्रीषणजीवोऽसौ च्युत्वा सौधर्मकल्पतः । ज्योतिर्मालाकुक्षिसरस्यवातारोन्मरालवत् ॥ ८४ ॥ . दृष्टोऽमितप्रभाव्याप्तसूरस्वप्नोऽम्बया तदा। । जज्ञे च समये पुत्रोऽमिततेजोऽभिधोदितः ॥ ८५ । अर्ककोतिः पिता सोऽथ परिव्रज्यामुपाददे। अभिनन्दनाभिधानस्यानगारस्य सन्निधौ ॥ ८६ ॥ जीवोऽथ सत्यभामायाश्चात्वा प्रथमकल्पतः । ज्योतिर्मालोदरे जाताऽर्ककीर्तेस्तनयाऽभवत् ॥ ८७ ॥ सुतारारजनीखप्रदर्शनात् साऽभिधीयते । सुतारेति सुताराक्षी चारुतारुण्यशोभिता ॥ ८८ ॥ जीवोऽभिनन्दितायाश्च स्वर्गाच्चुत्वाऽऽयुषः क्षये । देव्यां स्वयंप्रभानामयां त्रिपृष्ठस्य सुतोऽभवत् ॥ ८८ ॥ अभिषेको महालक्ष्मया दृष्टः स्वप्ने यदम्बया। . तेन श्रीविजयो नाम तस्य जन्ने मनोरमम् ॥ ८० ॥ Page #44 -------------------------------------------------------------------------- ________________ ४४ श्रोशान्तिनाथचरित्रे अपरोऽपि चिपृष्ठस्य विष्णोरजनि नन्दनः । स्वयंप्रभाप्रसूतो विजयभद्रोऽभिधानतः ॥ ८१ ॥ स सिंहनन्दिताजीवः सौधर्मत्रिदिव'च्युतः । जज्ञे ज्योतिःप्रभानाम्नी त्रिपृष्ठस्यैव नन्दिनी ॥ ८२ ॥ अकार्यत्यन्तचार्वयाः कृते तस्याः स्वयंवरः । विष्णुना दूतवदनैराहताः समहीभुजः ॥ ८३ ॥ अथार्ककीर्त्तिनाऽमात्यः प्रेषितः केशवान्तिकम् । स एत्य विष्णुमानम्य व्याजहार कृताञ्जलिः ॥ ८४ ॥ देव मत्स्वामिनः पुत्री सुताराऽपि निजेच्छया । वृणुते वरमत्रैव समागत्य त्वदाज्ञया ॥ ८५ ॥ हृष्टोऽभाषिष्ट गोविन्दो भवत्वेवं किमत्र भोः । वाच्यं यदर्ककीर्त्तेश्च ममावासस्य नान्तरम् ॥ ८६ ॥ ततः पुत्रीमुपादायामिततेजः सुतान्वितः । तत्राययावर्क कीर्त्तिः पूजितो विष्णुनाऽथ सः ॥७॥ अंकारयत् त्रिपृष्ठोऽथ स्वयंवरणमण्डपम् । 'मञ्चाननेकशस्तत्र नामाङ्कान्यासनानि च ॥ ६८ ॥ ततस्ते पार्थिवास्तेष्वासनेषु न्यषदन् क्रमात् । तेषां च मध्ये तौ विष्णुबलभद्रौ निषेदतुः ॥ (१) ख, घः श्रुतः । (२) ख, घ, ङ -स्तु । (३) ग, ङ केशवान्तिके । (४) ङ च मञ्चान्य- । Page #45 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । अत्रान्तरे कृतनाने श्वेतवासोऽतिशोभने । श्वेताङ्गरागपुष्पाव्ये विशालशिबिकास्थिते ॥ १०० ॥ चामराभ्यां वीज्यमाने देव्याविव धरागते । ज्योतिःप्रभासुतारे ते कन्यं तत्रेयतुः शुभे ॥ १ ॥ ( युग्मम् ) शिविकायाः समुत्तीर्य स्वयंवरसदोगते । ते प्रेक्षांचक्रिरे भूपाः पुराऽदृष्टाङ्गना इव ॥ २ ॥ निरोच्य निखिलान् राज्ञोऽमिततेजोगलेऽक्षिपत् । ज्योतिःप्रभा वरमालामन्या श्रीविजयस्य तु ॥ ३ ॥ अहो साधु वृतं साधु वृतमित्युञ्चकैर्जगुः । हृष्टचित्ता महीपाला भूचराः खेचरा अपि ॥ 8 ॥ त्रिपृष्ठश्चार्ककीर्त्तिश्च तान्सकृत्य विसृज्य च । । कारयामासतुः प्रीतो विवाहं वखकन्ययोः ॥ ५ ॥ अर्ककोर्त्तिरथो ज्योतिः प्रभामादाय खस्नुषाम् । मुक्ता सुतारां ससुतोऽप्याजगाम निजं पुरम् ॥ ६ ॥ विरक्तचित्तः सोऽन्येद्युर्दत्त्वा राज्यं स्वसूनवे । पितुर्दीचाप्रदस्यैव मुनेः पार्श्वेऽग्रही हुतम् ॥ ७ ॥ त्रिपृष्ठे वासुदेवेऽथ परलोकं गते सति । सूरिः सुवर्णकुम्भाख्यः पोतने ऽन्धेद्यराययौ ॥ ८ ॥ श्रेयांस जिनशिष्यं तं परिवारसमन्वितम् । प्रययौ नन्तुमुद्याने बलभद्रोऽचलाभिधः ॥ ८ ॥ ४५ (१) ग ङ - भिशोभिते । Page #46 -------------------------------------------------------------------------- ________________ ४६ श्री शान्तिनाथचरित्रे तत्राचार्यं नमस्कृत्योपविश्य च यथास्थिति । शुश्राव देशनां तस्य मोहनिद्राविनाशनम् ॥ १० ॥ पप्रच्छावसरे चैवं भगवन् विश्वविश्रुतः । मत्कनिष्ठो गुणैर्ज्येष्ठस्त्रिपृष्ठ: कां गतिं गतः ॥ ११ ॥ सूरिरूचे स नृशंसः पञ्चेन्द्रियवधे रतः । महारम्भपरो मृत्वा सप्तमं नरकं ययौ ॥ १२ ॥ तच्छ्रुत्वा विललापैवमचलः स्नेहमोहितः । हा विश्ववोर हा धीर किं तेऽभूहतिरोहशी ॥ १३ ॥ गुरुणोक्तं मा विषोद शृणु पूर्वजिनोदितम् । यदस्य चरमो जीवो भविताऽत्र जिनेश्वरः ॥ १४ ॥ ततः श्रविजयं राज्ये यौवराज्येऽपरं सुतम् । निवेश्य बलभद्रोऽस्य गुरोः पार्श्वेऽग्रहोहुतम् ॥ १५ ॥ राज्ञः श्रीविजयस्याथ राज्यं पालयतः सतः । सभास्थस्यान्यदाऽऽगत्य प्रतीहारो व्यजिज्ञपत् ॥ १६ ॥ प्रभो त्वन्मन्दिरद्दारं त्वद्दर्शनसमुक्तकः । अस्ति नैमित्तिको नाम स आयातु प्रयातु वा ॥ १७ ॥ ततो राज्ञोऽनुमत्याऽसौ तेनानीतः सभान्तरे । assiर्वचनं तस्मै यथासनमुपाविशत् ॥ १८ ॥ राजा प्रोवाच ज्ञानेन यत्पश्यसि शुभाशुभम् । तत्त्वं ब्रूहि निमित्तज्ञ करे यत्तेऽस्ति पुस्तिका ॥ १८ ॥ Hisarta पश्यामि यदहं निजब्रह्मणा । तद्वक्तुमपि नो शक्यं कथ्यते तु त्वदाज्ञया ॥ २० ॥ Page #47 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । ४७ यदितः सप्तमे घस्रे पोतनाधिपतेर्ननु । निपतिष्यत्यचिरांश: शीर्षोपरि न संशयः ॥ २१ ॥ तच्छ्रुत्वा परिषद्दजाहतेवाभूत्सुदुःखिता। भणितश्च कुमारण गाढकोपपरेण सः ॥ २२ ॥ पतिष्यति यदा विद्युत् रे पोतनपुरेशितुः । पतिष्यति तदा शीर्षे त्वदीये किं नु दुर्मते ॥ २३ ॥ नैमित्तिकोऽवदन्मह्यं त्वं कुप्यसि कुमार किम् । यदत्र दृष्टं 'संज्ञाने भवेत्तज्जातु नान्यथा ॥ २४ ॥ वस्त्राभरणरत्नानां वृष्टिर्मम भविष्यति । राज्ञा प्रोचे त्वया ह्येतविमित्तं शिक्षितं कुतः ॥ २५ ॥ सोऽब्रवीहलदेवस्य दीक्षाकाले मयाऽपि हि। प्रव्रज्या प्रतिपन्नाऽऽसौकियत्कालं च पालिता ॥ २६ ॥ अधीतं च तदा शास्त्रमेतद्येन भणाम्यहम् । सर्वत्रशासनमृते सम्यग् ज्ञानं न विद्यते ॥ २७ ॥ पश्चाच्च विषयाशक्तोऽभूवं राजन् पुनगृही। धनाशयेहागतोऽस्मि तदारपरिग्रहः ॥ २८ ॥ ज्ञात्वा सत्यं निमित्तं तत् राजलोकोऽखिलस्तदा । स्वस्वामिरक्षणोपायचिन्तया व्याकुलोऽभवत् ॥ २८ ॥ तत्रैको न्यगदन्मन्त्री यत् स्वामी सप्त वासरान् । यानारूढः समुद्रान्तर्धियतेऽतिप्रयत्नतः ॥ ३० ॥ द्वितीयः स्माह पानीये विद्युद्यद्यपि न स्फुरेत् । (१) ङ सजज्ञाने। (२) ख, घ, च -देव । Page #48 -------------------------------------------------------------------------- ________________ ४८ श्रीशान्तिनाथचरित्रे तथाऽपि यानपात्रे तां पतन्तों को निवारयेत् ॥ ३१ ॥ तस्माद्वैताब्य शैलस्थातिगूढे कन्दराग्टहे । प्रक्षिप्य रक्ष्यते स्वामी विद्युत्पातभयात्किल ॥ ३२ ॥ तृतीयोऽप्यवदत्रायमुपायोऽपि शुभावहः । प्रत्युतापायहेतुः स्यात् दृष्टान्तोऽत्र निशम्यताम् ॥ ३३ ॥ बभूव विजयपुरे रुद्रसोमाभिधो द्विजः । तद्भार्या ज्वलनशिखा शिखो नाम्ना तयोः सुतः ॥ ३४ ॥ तस्मिंश्च नगरे कश्चित् राक्षसो मांसलोलुपः । भूरि मानुषरूपाणि मारयामास प्रत्यहम् ॥ ३५ ॥ एकैकं मानुषं तेऽहं दास्याम्येवं वधीः स्म मा । .. सह तेन व्यवस्थेति क्वता तत्पुरभूभुजा ॥ ३६ ॥ चक्रे च सर्वपौराणां नामान्तर्गतगोलकान् । तन्मध्यान्नित्यमेकैकमाकृष्याख्यां निरीक्ष्यते ॥ ३७ ॥ यस्मिन् दिने च यन्नाम दृश्यते तत्र निर्गतम् । स तस्मै दीयते तस्य शेषरक्षाविधित्सया ॥ ३८ ॥ अन्धेयुर्द्विजपुत्रस्य तस्य नाम विनिर्ययौ । तच्छ्रुत्वा जननी तस्याक्रन्दं चक्रे सुदुःखिता ॥ ३८ ॥ तस्याः क्रन्दितमाकर्ण्य तत्रासत्रगृहस्थितः । भूतैः साऽभाणि सदयैः खेदं हे अम्ब मा कृथाः ॥ ४० ॥ भविष्यति यदा दत्तो 'राक्षसाय सुतस्तव । आनेष्यामस्तदा हृत्वा समवश्यं तवान्तिकम् ॥ ४१ ॥ (१) ग, ङ राजसस्य । Page #49 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । इत्युक्ता मुदिता साऽभूत् तत्पुत्रः सोऽथ भूभुजा । प्रदत्तो रक्षसे तस्माद्भूतैरपि' हृतश्च तैः ॥ ४२ ॥ समर्पितश्च तन्मातुस्तया तन्मृत्युभीतया । स पर्वतगुहामध्ये क्षेपित्वा पिदधे तथा ॥ ४३ ॥ तत्राप्यजगरेणायं तत्स्थेन गिलितो निशि । न शक्यमन्यथा कर्तुं कर्म केनापि देहिनाम् ॥ ४४ ॥ तस्मादवश्यंभावी हि योऽसौ भावो भविष्यति । किन्तु दुरितोपशान्त्यै करिष्यामस्तपो वयम् ॥ ४५ ॥ मन्त्रवादीच्चतुर्थोऽथ सत्यमेतेन भाषितम् । किन्तु यद्दर्त्तते चित्ते मम तत्कथयामि वः ॥ ४६ ॥ पोतनाधिपतेर्मूर्ध्नि विद्युत्यातोऽमुनोदितः । नैमित्तिकेन न पुना राज्ञः श्रीविजयस्य भोः ॥ ४७ ॥ ततः सप्त दिनान्यत्रापर: स्वामी विधीयते । नैमित्तिकोऽपि तद्दाक्यं प्राशंसत्साधु साध्विति ॥ ४८ ॥ उवाच चास्य कार्यस्य कथनार्थमिहागमम् । इदं च क्रियतां किन्तु किमन्यैर्दुर्विचिन्तितैः ॥ ४८ ॥ राजा जिनालयस्यान्तस्तपोनियमतत्परः । तिष्ठत्वेष यतो ह्यापल्लङ्घयते सुमहत्यपि ॥ ५० ॥ रानोचे यस्य कस्यैव स्वामित्वं हि विधास्यते । सोऽपि यास्यति पञ्चत्वं तदेवं क्रियते कथम् ॥ ५१ ॥ ܘ (१) ग -पहृतश्च । ४८ Page #50 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र अचुश्च मन्त्रिण: स्वामिन् यद्येत संमतं तव । तदाभिषेको यक्षस्य प्रतिमाया विधास्यते ॥ ५२ ॥ चेद्देवतानुभावेन न स्यादापत्ततो वरम् । नो चेत्काष्ठमयो यक्षप्रतिमैव विनश्यति ॥ ५३ ॥ : राजाऽथ युक्तमित्युक्त्वा गत्वा च जिनमन्दिरे । सर्वान्तःपुरसंयुक्तः प्रपेदे पौषधव्रतम् ॥ ५४ ॥ संस्तारकनिषणश्च तपोनियमसंयमैः । पूतात्मा मुनिवत्तस्थौ नमस्कारपरायणः ॥ ५५ ॥ अन्ये च मन्त्रिसामन्तप्रमुखाः भूपतेः पदे। . निवेश्य यक्षप्रतिमां तस्थुस्तस्याः समीपगा: । ५६ ॥ ततः सप्तमे घोऽब्दः क्षणाद् व्याप्तं नभस्तलम् । ववर्ष च घनो गर्जारवव्याप्तदिगन्तरः ॥ ५७ ॥ मुहुर्विद्योतमानोऽथ विद्युइण्डस्तथाऽपतत् । तस्मिवेव यक्षबिम्बे निर्भाग्ये यमदण्डवत् ॥ ५८ ॥ तत्रोपसर्गे तेनैव विधिना प्रलयं गते । नैमित्तिकगिरा राजा पुनरागानिजं गृहम् ॥ ५८ ॥ सर्वान्तःपुरनारीभिष्टचित्ताभिरर्चितः । वस्त्रालङ्काररत्नोधैः म नैमित्तिकपुङ्गवः ॥ ६० ॥ राजाऽपि भूरि द्रव्येणार्चितो विससृजे च सः । यक्षस्य प्रतिमा रत्नमयो नव्या च कारिता ॥ ६१ ॥ पूजा च जिनबिम्बानां श्रेयःसन्ततिकारिणी। राज्ये पुनर्जन्मनीव खस्याकारि तथोत्सवः ॥ ६२ ॥ Page #51 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । सोऽथ श्रीविजयो राजा समं देव्या सुतारया । ययौ क्रीडार्थमन्येार्वनं ज्योतिर्वनाभिधम् ॥ ६३ ॥ तत्र भर्ता सहाद्रीणां छायावत् सुतलेषु सा। विहरन्ती ददर्शकं सुतारैणं मनोहरम् ॥ ६४ ॥ कुरङ्ग स्वर्णवर्णाङ्गं तं विलोक्य सुलोचनम् । सोचे स्वपतिमानीय नाथैनं त्वं ममार्पय ॥ ६५ ॥ तनहार्थं स्वयं राजा स्वप्रियानेहमोहितः । दधावे सोऽपि वेगेनोत्पत्येयाय नभस्तलम् ॥ ६६ ॥ अत्रान्तरेऽस्य प्रियया दष्टया कुक्कुटाहिना । एहि लघु हे नाथेति पूचके गुरुस्वरम् ॥ ६ ॥ तदाकर्ण्य झटित्येव विनिवृत्ती महीपतिः । ददर्शनां विलपन्ती विषवेदनयाऽदिताम् ॥ ६८ ॥ ततः प्रयुक्ता वेगेन मन्त्रतन्त्रादिका क्रिया। . साऽप्यभूविष्फला क्षेत्रे क्षिप्तं बीजमिवोपरे ॥ ६८ ॥ क्षणान्तरण सा देवी खानास्या मौलितेक्षणा । पश्यतोऽपि महोभर्तुर्बभूव गतजीविता ॥ ७० ॥ ततो मुमूर्छ भूपाल: पपात च महीतले । कथञ्चिल्लब्धसंज्ञः सन् स एवं विललाप च ॥ ७१ ॥ हा गीर्वाणप्रियाकारे महोदार विवेकिनि । हा सुतार गुणाधार प्रीतिसारे क तिष्ठसि ॥ १२ ॥ एवं विलप्य बहुधा राजाऽभूमरणोद्यतः । वृत्तान्तं ज्ञापितश्चामुं राजलोक: पदातिभिः ॥ ७३ ॥ Page #52 -------------------------------------------------------------------------- ________________ ५२ श्रीशान्तिनाथचरित्रे राज्ञः स्वयंप्रभा माता भ्राता च विजयाह्वयः । तच्छ्रुत्वा दुःखितौ गाढं यावदेतौ बभूवतुः ॥ ७४ ॥ नभोमार्गेण तत्रैत्य तावदेको नरोऽवदत् । अलं देवि विषादेन शृणु वाक्ती स्वयंप्रमे ॥ ७५ ॥ रथनूपरनाथेन पूजितोऽमिततेजसा । संभिन्न श्रोता मत्तातो नैमित्तिकवरोऽस्ति हि ॥ ७६ ॥ तत्पुत्रोऽहं दीपशिखोऽन्यदोव तु प्रचेलतुः । ज्योतिर्वनं प्रति क्रोडां कर्त्तुं तावदपश्यताम् ॥ ७७ ॥ पुरचमरचचेशाशनिघोषेण भूभुजा । क्रियमाणां गतत्राणां तां सुतारां नृपप्रियाम् ॥ ७८ ॥ इत्यूचतुश्च तं दुष्ट धृष्ट दुखेष्ट पाप रे । अस्मत्स्वामिखसारं त्वमपहृत्य क्व यास्यसि ॥ ७८ ॥ तया च भणितावावां प्रयासेनालमत्र वाम् । गत्वा संबोध्यतां राजा वेतालिन्या विमोहितः ॥ ८० ॥ मर्त्तुकामस्तया सार्द्धं सुतारारूपया ततः । आवाभ्यां बोधितो राजा सा च दुष्टा प्रणाशिता ॥ ८१ ॥ देव्युदन्ते च विज्ञाते सोऽस्ति तत्प्रापणोद्यतः । तदाज्ञयाऽहमागां वस्तत्स्वरूपं च शंसितुम् ॥ ८२ ॥ ततः स्वयंप्रभादेव्या सत्कृतोऽसौ पुनर्ययौ । राज्ञः समीपं राजाऽपि ताभ्यां निन्ये स्वपत्तने ॥ ८३ ॥ ( १ ) ग सः । (२) खस्तदा च तौ । Page #53 -------------------------------------------------------------------------- ________________ द्वितीय: प्रस्तावः । प्रतिपत्तिं विधायाथ संपृष्टोऽमिततेजसा । राजा श्रीविजयः सर्वं स्ववृत्तान्तं न्यवेदयत् ॥ ८४ ॥ तच्छ्रुत्वा सोऽपि संक्रुद्धोऽशनिघोषाय सत्वरम् । मारोचिनामकं दूतं शिक्षां दत्त्वा विसृष्टवान् ॥ ८५ ॥ ५३ गत्वा चमरचञ्चायां स दूतस्तमभाषत । आनीताऽस्ति त्वयाऽज्ञानात् भगिनी स्वामिनो मम ॥ ८६ ॥ राज्ञी श्रीविजयस्याहो सुतारेति सतो वरा । अप्यतां साधुना शीघ्रमनर्थं माऽऽत्मनः कथाः ॥८७॥ (युग्मम्) उवाचाशनिघोषोऽपि सगर्वोडरकन्धरः । रे दूतार्पयितुं नाम किमानीताऽस्त्यसौ मया ॥ ८८ ॥ मत्तो यः कचिदप्येनामनात्मज्ञो जिहीर्षति । दोप्ते मत्खजदीपेऽस्मिन् शलभत्वं स यास्यति ॥ ८८ ॥ इत्युक्त्वा ग्राहयित्वा च कण्ठे निर्वासितोऽसुना । स्वस्थानमगमद्दूत'स्तदर्थोऽस्य शशंस च ॥ ८० ॥ ततः श्रीविजयायादात् विद्यां शस्त्रनिवारिणीम् । बन्धमोचनिकां चैवामिततेजोनरेश्वरः ॥ ८१ ॥ एकैकां साधयामास स सप्तदिवसैः पृथक् । सिद्धविद्यस्ततश्चारिविजयाय चचाल सः ॥ ८२ ॥ कुमारा रश्मिवेगाद्याः सुता अमिततेजसः । अनु श्रीविजयं चेलुः शतसंख्या महौजसः ॥ ८३ ॥ (१) ख च च त तदर्यस्य Page #54 -------------------------------------------------------------------------- ________________ ५४ श्रीशान्तिनाथचरित्रे अन्यैश्च भूयः सुभटः विद्याभुजबलोर्जितः । समं श्रीविजयः प्रापाशनिघोषपुरान्तिकम् ॥ ८४ ॥ महाज्वालाभिधां विद्यां परविद्याच्छिदाकरीम् । ययौ साधयितुं चार्किनृपो हिमवति स्वयम् ॥ ४५ ॥ सहस्ररश्मिना ज्येष्ठ पुत्रेण परिवारितः । तत्र मासिकभक्तेन विद्यां साधयति स्म सः ॥ ८६ ॥ इत: ससैन्यमायान्तं श्रुत्वा श्रीविजयं नृपम् । प्रेषीदनिघोषः स्वान् पुत्रान् सबलवाहनान् ॥ ८७ ॥ ततः प्रवकृते घोरः समरः सैन्ययोस्तयोः । विद्याबलवतोः स्वस्वस्वामिनोजयकारिणोः ॥ ८ ॥ विद्याजनितमायाभिर्युद्यमानं सकौतुकम् । नाहारयदेकमपि योर्मध्याहलं तयोः ॥ १८ ॥ मासं यावत् युधं कृत्वाऽमिततेजः कुमारकः । पुत्रा अशनिघोषस्य प्रौढा अपि पराजिताः ॥ २० ॥ ततश्चाशनिघोषेऽस्मिन् युध्यमाने स्वयं रणे । द्रढीयांसोऽप्यभज्यन्त पुत्त्रास्तेऽमिततेजसः ॥ १ ॥ स्वयं श्रीविजयो राजाऽप्यढौकिष्ट रणे तदा । शक्यन्ते नेतरैरत्तमिक्षवः सह दन्तिभिः ॥ २ ॥ क्रुद्धः श्रीविजय: सोऽथ खङ्गेनाहत्य तं द्विषम् । विधा चक्रे ततो जाताऽशनिघोषहयौ 'पुनः ॥ ३ ॥ (१) ख च ज पुरः । Page #55 -------------------------------------------------------------------------- ________________ द्वितीय: प्रस्तावः । साऽपि द्विधा कृता जन्ते ऽशनिघोषचतुष्टयौ । एवं च खण्डामानोऽसौ मायया शतधाऽभवत् ॥ ४ ॥ यावच्छ्रोविजयो राजा निर्विमस्तद्दधेऽभवत् । तावत्तत्र सिद्धविद्योऽमिततेजा स आययौ ॥ ५ ॥ अपहाय ततो मायां नश्यन्तं तद्भयेन तम् । दृष्ट्राऽऽदिदेशार्किनृपो विद्यां विद्यामुखीमिति ॥ ६ ॥ दूरादप्येष पापीयानानेतव्यस्त्वया स्फुटम् । साऽथ तत्पृष्ठतो लग्ना ययौ सीमनगे च सः ॥ ७ ॥ तत्र श्रीषभस्वामिजिनमन्दिरसविधौ । उत्पद्मकेवलज्ञानं वन्द्यमानं सुरासुरैः ॥ ८ ॥ निरोक्ष्य बलदेवर्षिं स तं शरणमाश्रयत् । देवताऽप्यमितायाख्यद् वलित्वा तं तथास्थितम् ॥८॥ (युग्मम्) देवीं सुतारामादाय त्वमागच्छेम मान्तिकम् । इति मारोचिमाज्ञाप्य सोऽथ श्रीविजयान्वितः ॥ १० ॥ सर्वसैन्ययुतो भेरोभाङ्कारैः पूरयन् दिशः । बलभद्रमुनिं नन्तुं तत्र सोमनी ययौ ॥ ११ ॥ ( युग्मम् ) गत्वा जिनालये नत्वा स्तुत्वा च प्रथमं जिनम् । अभ्यर्से बलदेवर्षेजेग्मतुस्तावुभावपि ॥ १२ ॥ देवीमादाय मारोचिरथागात्तत्र सत्वरम् । अर्पिताऽक्षतचारित्रा राज्ञः श्रीविजयस्य सा ॥ १३ ॥ उत्थायाशनिघोषोऽथ क्षमयामास तौ नृपौ । संमानितश्च ताभ्यां संजातास्ते गतमत्सराः ॥ १४ ॥ ५५ Page #56 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र अत्रान्तरे केवलिना प्रारब्धा धर्मदेशना । कतभव्यजनश्रोत्रसुधापूरप्रदेशना ॥ १५ ॥ तद्यथा रागद्देषवशीभूता दुराकूतास्तनूभृतः । . . नयन्त्यनर्थकं जन्म कृत्वाऽनर्थपरम्पराम् ॥ १६ ॥ न मोक्षप्रापण शक्ता याभ्यां विहितबन्धमाः । . रागहेषावमू शत्रू यूयं त्यजत भो जनाः ॥ १७ ॥ श्रुत्वा तां देशनां सम्यक् प्रतिबुद्धा तृणां गणाः । , केचिदाददिरे दीक्षां श्रावकत्वं तथाऽपरे ॥ १८ ॥ पप्रच्छाशनिघोषस्तं सुतास्यं मया प्रभो। . रागोद्रेकं विना हत्वा नीता निजरहे कथम् ॥ १८ ॥ केवल्यूचे पूर्वभवे पुरे रत्नपुराभिधे । शोषेणनामा भूपोऽभूत् जीवोऽस्यामिततेजसः ॥ २० ॥ इत्यादि तद्भवान् सर्वान् कथयित्वाऽब्रवीत्पुनः । तदाऽभूः कपिलस्त्वं हि सत्यभामा च त्वप्रिया ॥ २१ ॥ सत्यभामा सुतारयं संजाता कपिलस्तु सः। .. भवं भ्रान्त्वा मनुष्यत्वं कुले लब्धा तपस्विनाम् ॥ २२ ॥ कत्वा बालस्तपस्तत्र मृत्वाऽभूस्त्वं ततस्त्वया । जहे पूर्वस्वसम्बन्धाद्राजन् रागं विनाऽप्यसौ ॥२३॥ (युग्मम्) त्वय्यसौ विगतस्नेहा पुरातनभवेऽप्यभूत् । अतस्त्वमपि मन्दानुरागोऽस्यां हि प्रवर्त्तमे ॥ २४ ॥ Page #57 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । खखपूर्वभवान् श्रुत्वाऽमिततेजीढपादयः । दृष्टा अचुरहो नास्त्यसाध्यं किमपि ब्रह्मणः ॥ २५ ॥ पृष्टोऽथ केवली विद्याधरेशाऽमिततेजसा। भव्योऽहमथवाऽभव्यः प्रभो मे कथ्यतामिति ॥ २६ ॥ केवल्यूचे नवमे त्वं भवे राजनितो भवात् । भविष्यस्यत्र भरते पञ्चमः सार्वभौमराट् ॥ २७ ॥ षोडशश्च जिनेन्द्रोऽयं राजा श्रीविजयः पुनः । पुत्रो भूत्वा गणधरस्तवैवाद्यो भविष्यति ॥ २८ ॥ पृष्ट्वा श्रुत्वा ततस्तस्य पार्वे केवलिनो मुनेः । सम्यकमूल: सुश्राइधर्मस्ताभ्यामुपाददे ॥ २८ ॥ संस्थाप्य स्वात्मजं राज्येऽशनिघोषो विरक्तधीः । तस्य केवलिन: पाखें प्रव्रज्यां समुपाददे ॥ ३० ॥ राज्ञः श्रीविजयस्याम्बा देवी सा च स्वयंप्रभा। . तत्यादान्ते प्रवव्राज भूरिनारीसमन्विता ॥ ३१ ॥ अथ केवलिनं नत्वा स्वपरीवारसंयुतौ। खं खं स्थानं जग्मतुः श्रीविजयामिततेजसौ ॥ ३२ ॥ देवपूजागुरूपास्तितपःप्रभृतिकर्मभिः।। द्योतयन्ती श्रावकत्वं तौ कालमतिनिन्यतः ॥ ३३ ॥ पुण्यात्माऽमिततेजाश्च स प्रासादमकारयत् । पञ्चवर्णवररत्ननिर्मितं जिनमन्दिरम् ॥ ३४ ॥ - अन्यदा तत्समीपेऽसौ कारिते पौषधालये। . (१) घण - स प्रासादान्तरकारयत् । Page #58 -------------------------------------------------------------------------- ________________ ५८ श्रीशान्तिनाथचरित्रे आसीनो धर्ममाचष्टे विद्याधरसभान्तरे ॥ ३५ ॥ अवान्तरे चारणर्षिद्वितयं नभसा व्रजन् । सनातनजिनानन्तुं तं ददर्श जिनालयम् ॥ २६ ॥ तच्चैत्यवन्दनाहेतोरवतीर्णौ ततश्च तौ । उपवेश्यासने राज्ञा वन्दितौ भक्तिपूर्वकम् ॥ ३७ ॥ तत्रैकः साधुराचख्यौ राजन् जानासि चेत्स्वयम् । तथापि धर्ममाख्यातुमुचितो नस्ततः शृणु ॥ ३८ ॥ मानुष्यकादिसामग्रीं लब्धा ज्ञात्वा भवस्थितिम् । धर्मो निरन्तरं कार्यो निरन्तर सुखार्थिभिः ॥ ३८ ॥ मनसाऽप्यन्तरे तस्य कृते स्यात्सुखमन्तरा । जातं मत्स्योदराख्यस्य धनदस्येव निश्चितम् ॥ ४० ॥ पृच्छति स्म ततो राजा भक्तिभाक् रचिताञ्जलिः । मुने मत्स्योदरः कोऽयं कथ्यतां तत्कथा मम ॥ ४१ ॥ मुनिरूचेऽव भरतक्षेत्रे विदशपूः समम् । विख्यातमस्ति कनकपुरं नाम पुरं भुवि ॥ ४२ ॥ द्दिषत्कोपानलप्रौढोक्कृततेजाः सुवर्णवत् । बभूव तत्र कनकरथो नाम्ना महीपतिः ॥ ४३ ॥ तस्याग्रमहिषी रूपसम्पदा रतिजित्वरी । कनक श्रीर्विनयादिगुणैर्नारीवराऽभवत् ॥ ४४ ॥ औदार्य्यादिगुणाधारो रत्नसारोऽभिधानतः | अभूत्तत्र राजमान्य: 'श्रेष्ठो धर्मिष्ठधुकः ॥ ४५ ॥ (१) घ श्रेष्ठीशो धर्मधुर्य्यकः । Page #59 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । अनयंशोलरत्नाढ्या रत्नचूलेति तस्य तु । जने प्रिया प्रियालापा लज्जादिस्त्रीगुणाञ्चिता ॥ ४६ ।। अभिमानधनो धीमान् धर्मोपार्जनतत्परः । तयोः पुत्रः कलापात्रं बभूव धनदाभिधः ॥ ४७ ॥ इतश्च तस्मिन्नगरे कितवः सिंहलाभिधः । रेमे कपर्दनित्यं पुरदेव्या निकेतने ॥ ४८ स द्यूतक्रीडया नित्यं तावदेवाजयद्धनम् । कदर्यभोजनं किञ्चित् यावन्मात्रेण जायते ॥ ४८ ॥.. अन्यदा मन्दभाग्यत्वात् स जिगाय न किञ्चन । ततश्च दुष्टधौरुष्टो देवतामित्यभाषत ॥ ५० ॥ तव देवकुले नित्यं रममाणस्य मे न यत् ।। द्रव्यं सम्पद्यते तत्ते विक्रिया कटपूतने ॥ ५१ ॥ तदद्य प्रकटीभूय द्रव्यं किञ्चित्प्रयच्छ मे। अन्यथाऽहं करिष्यामि तवानथं महत्तरम् ॥ ५२ ॥ देवतोवाच रे दुष्ट त्वपित्रा किं त्वयाऽथवा । द्रव्यमस्यर्पितं मे यत् याचसे सहसैव तत् ॥ ५३ ॥ ततः पाषाणमुद्यम्य' सोऽवोचद्देहि मे धनम् । कुतोऽप्यानीय नोचेत्त्वां व्यङ्गयिष्यामि निश्चितम् ॥ ५४ । दध्यौ च देवता नास्याकत्यं किञ्चिन्न विद्यते । दत्तेनैव धनेनायं तुष्येनह्यन्यथा पुनः ॥ ५५ ॥ (१) घञ -मुत्याश्य। (२) ज भङ्गयिष्यामि । Page #60 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र ततो गाथासनाथं सा पत्रं तस्यार्पयत्करे । सोऽवदत्पत्रखण्डेन रे रण्डे किं करोम्यहम् ॥ ५६ ॥ देवतोवाच गाथेयं विक्रेतव्या त्वया खलु । दीनाराणां सहस्रं हि लप्सासे त्वं ममाज्ञया ॥ ५७ ॥ तत्पत्रं तहिराऽऽदाय वीथीमध्ये ययावसौ । इत्युवाच च गाथेयं लभ्यते गृह्यतामहो ॥ ५८ ॥ तहस्त्वसारमालोक्य वणिम्भिर्जातकौतुकैः । पृष्टो मूल्यमयाचिष्ट स दीनारसहस्रकम् ॥ ५६ ॥ तदसम्भाव्यमूल्यत्वादग्रह्णति जनेऽखिले । श्रेष्ठिपुत्रस्य तस्याट्टे स ययो क्रमयोगतः ॥ ६ ॥ तस्यार्पितेन तन्मूल्यमाख्यातं सोऽथ पत्रकम् । गृहीत्वा वाचयामास गायां तल्लिखितामिति ॥ ६१ ॥ 'जं किरि विहिणा लिहियं तंचिय परिणमइ सयललोयस्म। इय भाविजण धौरा विहुरेवि न कायरा हुंति ॥ ६२ ॥ (१) यत् किल विधिना लिखितं तदेव परिणमति सकललोके। इति भावयित्वा धीरा विधुरेऽपि न कातरा भवन्ति ॥ * कख च ज ड चिय । + क ख ग च जाणेवि णु। श्रोमुनिदेवस्वरयः स्वकृतपद्यशान्तिनाथचरित्रे संस्कृतबला इमां गाथां एवं लिलिखः - विधिना लिखितं यत्तन्त्रणां परिणमत्यलम् । धीरा भवन्ति ज्ञात्वैवं विधुरेऽपि न कातराः ॥ (सर्ग २ श्लो० १६७) Page #61 -------------------------------------------------------------------------- ________________ . . हितोयः प्रस्तावः । दध्यौ धन्धोऽथ गाथेयं लक्षणापि न लभ्यते ।.. दीनाराणां सहस्रेण समर्धा गृह्यते ततः ॥ ६३ ॥ तद् याचितमथो तस्मै दत्त्वा मूल्यं महामतिः । स्वीकृत्य पत्रकं तच्च मुहुर्मुहुरवाचयत् ॥ ६४ ॥ अत्रान्तरे पिता तस्य तत्रागात्तमभाषत । त्वया व्यवहृतं किञ्चित् अद्य नोवैति शंस मे ॥ ६५ ॥ प्रत्यासनवणिगपुत्रैः सहासैरिति जल्पितम् । श्रेष्ठिस्तव पुत्रेणाद्य व्यवहारः कतो महान् ॥ ६६ ॥ दीनाराणां महस्रेण यदेकाऽग्राहि गाथिका । वई यिस्थत्यसौ लक्ष्मी वाणिज्यकलयाऽनया ॥ ६७ ॥ रुष्टः श्रेष्ठयप्यभाषिष्ट त्वमितो याहि दुष्ट रे । शून्यैव हि वरं शाला पूरिता नतु तस्करैः ॥ ६८ ॥ एवं विमानतां प्राप्तो धनदोऽपि तदाऽऽपणात् । उत्थाय निर्ययो चित्ते गाथार्थं तं विचिन्तयन् ॥ ६८ ॥ पुरात्रिसृत्य कौवां दिश्यासनवनान्तरे । दिनावसानसमये प्राप्तो मानधनो हि सः ॥ ७० ॥ गम्भीरं सरसं स्वच्छं मदृत्तं सत्त्वशोभितम् । दृष्टं सरोवरं तेन तत्रैकं माधुचित्तवत् ॥ ७१ ॥ तत्र सात्वाऽम्बु पीत्वा च न्यग्रोधस्य तरोस्तले । तस्यासने स सुष्वाप रात्री तत्पत्रसंस्तरे ॥ ७२ ॥ अत्रान्तरे च तत्रागात् व्याध एको धनुईरः । हन्तुं वनचरान् जीवान् जलपानार्थमागतान् ॥ ७३ ॥ Page #62 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र ईषन्निद्रायमाणऽथ सचिन्ते श्रेष्ठिनन्दने । जज्ञे चलयति स्वाङ्गं शुष्कपत्रभवो ध्वनिः ॥ ७४ ॥ अयं वनचरो जीवः कोऽपि यातीति लुब्धकः । विव्याधैनं शरणांही हृदीवासज्जनो गिरा ॥ ७५ ॥ वेध्यं विद्वमिति व्याधस्तत्समीपमुपागमत् । धनदोऽपि प्रहारातॊ गाथामुच्चरति स्म ताम् ॥ ७६ ॥ तच्छ्रुत्वा लुब्धको दध्यौ हा मया मूढचेतसा । निर्विमः पथिकः कोऽपि सुप्तो बाणेन ताडितः ॥ ७ ॥ जचे च भद्र कुत्राङ्गे मया विद्धोऽस्यजानता। इत्युदित्वा तस्य पादादाचकर्ष स सायकम् ॥ ७८ ॥ पट्टबन्धं व्रणे तत्र कुर्वाणं तं न्यवारयत् । निजं स्थानं प्रयाहीति धनदो विससज्ज तम् ॥ ७८ ॥ निर्गच्छति व्रणाद्रक्ते जाते च रजनीक्षये । भारण्डपक्षिणा निन्ये स संस्थितधियाऽम्बरे ॥ ८० ॥ मुक्त्वाऽथ वारिधेमध्यदीप खादितुमुद्यतः । जीवन्तं तं च विज्ञाय ययावुड्डीय पक्ष्यसौ ॥ ८१ ॥ उत्थाय धनदो यावत् ऐक्षताशाः समन्ततः । तावत्तत्राटवी भीमामपश्यन्मानुषोज्झिताम् ॥ ८२ ॥ दध्यौ च क्क पुरं तन्मे क्व चेयं भीषणाऽटवी । अथवा चिन्तया मेऽलं देवचिन्ता बलीयसी ॥ ८३ ॥ क्षुत्तृष्णापीडितः सोऽथ भ्रमंस्तत्र फलाशया। ददर्शकं पुरं शून्यं पतितावाससञ्चयम् ॥ ८४ ॥ Page #63 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः | दृष्ट्वा च कूपकं किञ्चित्कृच्छ्रादाकृष्य तज्जलम् । पोत्वा च वारयामास तृष्णामथ शरोरगाम् ॥ ८५ ॥ विधाय प्राण्यात्त्रां च फलैः कदलिसंभवैः । पुरादपि ततो दूरं भीतभीतो ययावसौ ॥ ८६ ॥ अत्रान्तरे च मार्त्तण्डो निस्तेजा अस्तमीयिवान् । प्राप्ता मयाऽव्यवस्थेति धनदं बोधयन्निव ॥ ८७ ॥ अस्तं गते 'दिवानाथे तमसा क्लेशितं जगत् । विशिष्टज्ञानविरहादज्ञानेनेव सर्पता ॥ ८८ ॥ गिरेः कस्यापि निकटे वह्निमुत्पाद्य दारुणा । तस्य तापेन निःशीतः स व्यतीयाय यामिनीम् ॥ ८ ॥ प्रभातसमये वह्निप्रदेशोर्वी ददर्श सः । जातां स्वर्णमयीं सद्यो दध्यौ चैवं सविस्मयः ॥ ८० ॥ नूनं सुवर्णद्दोपोऽयं यदियं ज्वलितानलात् । जातरूपमयौ जाता सद्य एव वसुन्धरा ॥ ८१ ॥ पातयामि ततः स्वर्णमिति ध्यात्वाऽमुना कृताः । इष्टिकानां सुसङ्घाटाः स्वभूताश्च तेऽग्निना ॥ ८२ ॥ भ्रमन्रन्येद्युरद्राक्षौत् निकुञ्जे कुत्रचिह्निरेः । रत्नजातमयं तच्चानिनाय स्वर्णसन्निधौ ॥ ८३ ॥ एवं सुवर्णरत्नानां राशिस्तेन कृतो बहुः । कदल्यादिफलैः प्राण्यात्त्रां चक्रे च सोऽन्वहम् ॥ ८४ ॥ (३) ख च ञ मृत्तिकामयसं । (१) घ ङ च ज दिवाधीशे । (२) ख च ञ स्वर्ण राशिस्तेन कृतो बद्धः । Page #64 -------------------------------------------------------------------------- ________________ ६४ श्रीशान्तिनाथचरित्रे सार्थवाहः सुदत्ताख्योऽन्यदा तद्देशमाययौ । याने जलेग्धनं तस्य त्रुटितं पूर्वसञ्चितम् ॥ ८५ ॥ दृष्ट्वा तं दोपमेतन प्रेषिता निजपूरुषाः । जलेन्धनक्कते तत्र दट्टशर्धनदं च ते ॥ ८६ ॥ कस्त्वं भोरित्यपृच्छं वावोचद्दनचरोऽस्मि सः । तैरुक्तस्तर्हि पानीयस्थानं किमपि दर्शय ॥ ८७ तेनासौ दर्शितस्तेषां कूपस्तेऽपि तदन्तिके । ददृशुस्तसुवर्णादि पुरा यत्तेन सञ्चितम् ॥ ८८ ॥ कस्येदमित्यपृच्छंश्च धनदं सोऽप्युवाच तान् । मामकीनमिदं वित्तं स्थानं नयति यस्त्वदः ॥ ६८ ॥ यच्छामि तस्य तुयांशमित्युक्ते सार्थपोऽपि सः । तत्रागाडनदस्तस्य प्रणामाद्यौचितिं व्यधात् ॥ ३००॥ (युग्मम् ) सार्थवाहस्तमाधि पृष्ट्वा च कुशलादिकम् । तज्जातरूपरत्नानां नयनं प्रतिपन्नवान् ॥ १ ॥ प्रापय्य भृत्यत्रैस्तान्यक्षेप्सीत्प्रवहणे निजे । गणयित्वा धनदोऽपि तानि तेषां समार्पयत् ॥ २ ॥ दृष्ट्वा बहु धनं तच्च सार्येशश्वलिताशयः । आदिदेश 'निजनरान् कूपेऽसौ क्षिप्यतामिति ॥ ३ ॥ तैस्ततो धनदोऽभाणि कर्ष भोः कूपकाज्जलम् । वयं सम्यग्न जानीमः त्वं च तत्कृतपूर्व्यसि ॥ ४ ॥ (१) ख ग घ च त नरांस्तान् स्वान् । Page #65 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तोवः । तत्कर्तुमुद्यतस्तैः स क्षिप्त: कूपे कपोज्झितैः । हन्यते बन्धुरप्यर्थलुब्धैरन्यस्य का कथा ॥ ५ ॥ पर्णाञ्चितायां तन्मध्ये मेखलायां पपात सः । नेषदप्यङ्गजा पीडा ततोऽभूत्तस्य भाग्यतः ॥ ६ ॥ गाथां तां चिन्तयन् सोऽथ कूपपार्खान्यलोकयत् । दृष्ट्वैकदेशे विवरं तत्राविक्षञ्च कौतुकात् ॥ ७ ॥ चारसोपानपत्याऽसौ गत्वा किञ्चिदधस्ततः । ऋजुनैव पथा गच्छन् पश्यंश्चिवायनेकशः ॥ ८॥ ददर्शकं देवकुलं तस्य मध्ये प्रभावतीम् । । - ताारूढां चक्रपाणिं देवी चक्रखरौं तथा ॥८॥ (युग्मम्) नत्वा तां परया भक्त्या शौर्षे विरचिताञ्जलिः । एवं विज्ञापयामास धनदो वदतां वरः ॥ १० ॥ जय श्रीवृषभखामिजिनशासनदेवते। दुष्टारिष्टहरे स्तोतुः सर्वसम्पत्करे जय ॥ ११ ॥ दिध्या कष्टाहितनाद्य हे देवि त्वं मयेक्षिता। भवतां तावकोनी तच्चरणौ शरणं मम ॥ १२ ॥ तद्भक्तिमुदिता सोचे सर्व भव्यं भविष्यति । अग्रे गतस्य ते वत्स मत्तोऽप्यर्थय किञ्चन ॥ १३ ॥ सोऽवदत् मयका देवि किं न प्राप्तं महीतले । दृष्टे त्वद्दर्शने पुण्यरहितानां सुदुर्लभे ॥ १४ ॥ ततो महाप्रभावानि पञ्चरत्नानि देवता । करे तस्यार्पयामास तत्प्रभावं शशंस च ॥ १५ ॥ Page #66 -------------------------------------------------------------------------- ________________ ६ श्रीशान्तिनाथचरित्रे एकं सौभाग्यकरणं द्वितीयं श्रीनिकेतनम् ।। तृतीयं रोगहृत्पद्यश्चतुर्थं विषनाशनम् ॥ १६ ॥ इदं च पञ्चमं रत्नमापत्पर्यन्तकारकम् । इत्युक्त्वाऽन्तर्दधे देवी धनदोऽप्यग्रतो ययौ ॥ १७ ॥ दृष्ट्वैकवाददे संरोहिणी चौषधिमुत्तमाम् । दीर्खा तुरिकया जङ्घा न्यधाद्रनानि तत्र च ॥ १८ ॥ संरोहिण्या महौषध्या रोहयित्वाऽथ तहणम् । पुरश्च गच्छन् पातालपुरमेकं ददर्श सः ॥ १८ ॥ तत्रावलोकयामास भक्ष्यभोज्यसमाकुलाः । मन्दिराट्टाऽऽवलीश्चित्रा मानुषैः परिवर्जिताः ॥ २० ॥ प्रदेशेऽन्यत्र सोऽद्राक्षीत् नरेन्द्रभवनं महत् । गवाक्षगोपुरप्रांशुप्राकारपरिशोभितम् ॥ २१ ॥ प्रविश्य कौतुकेनात्र गतः सप्तमभूमिकाम् । ददर्श बालिकामेकां रूपाज्जितसुराङ्गनाम् ॥ २२ ॥ तां दृष्ट्वा विस्मयापन्नं ज्ञातुकामं च तत्कथाम् । बभाष कन्यका तं भोः कुत: स्थानात्त्वमागतः ॥ २३ ॥ इहागतस्य ते प्राणसंशयो भद्र वर्तते। तट् गच्छ शीघ्रमन्यत्र यावत्ते कुशलं किल ॥ २४ ॥ धनदोऽथाब्रवीत् सुभ्र मोद्देगं कुरु शंस मे। किमिदं नगरं किं वा विजनं भवती च का ॥ २५ ॥ सा तस्य धैर्यरूपाभ्यां विस्मिता पुनरब्रवीत्। अस्ति चेत्कौतुकं तत्त्वं शृणु सुन्दर कारणम् ॥ २६ ॥ Page #67 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । इहास्ति भरते रम्यं नाम्ना श्रीतिलकं पुरम् । . महेन्द्रराजो नाम्राऽभूत्तत्र राजा पिता मम ॥ २७ ॥ अन्यदा विग्रहीतस्यान्यभूपैस्तस्य सन्निधौ । आगत्य व्यन्तरः कश्चित् सस्नेहं तमभाषत ॥ २८ ॥ त्वं पूर्वभवमित्रं मे तदाख्याहि करोमि किम् । सोऽवदत् कुरु साहाय्यं शत्रन् मम विनाशय ॥ २८ ॥ व्यन्तरोऽप्यब्रवीते शक्या हन्तुं मया सखे । यतो मदधिकरतेऽधिष्ठिता व्यन्तरैः खलु ॥ ३० ॥ करोमि किन्तु साहाय्यमित्युक्त्वा तेन मत्यिता । सपौरः सपरीवार इहानीतो झटित्यपि ॥ ३१ ॥ पुरं चाकारि तेनेदं पातालपुरनामकम् । . प्रवेशनिर्गमावेककूपनैवास्य सुन्दर ॥ ३२ ॥ रक्षार्थ कूपकस्यापि द्वितीयं विहितं पुरम् । ततः प्रवहणैरत्र नानावस्तुसमागमः ॥ ३३ ॥ एवं गच्छति कालेऽत्र राक्षसः कश्चिदन्यदा । कूपप्रवेशसोपानपङ्क्तिं भक्त्वा समाययौ ॥ ३४ ॥ मांसलुब्धः स दुष्टात्मा प्रवृत्तः खादितुं जनान् । कियद्भिश्च दिनैश्चक्रे पुरमेतदमानुषम् ॥ ३५ ॥ बहिः पुरस्य लोकोऽपि तेनारब्धो निपातितुम् । स चाधिरुह्य यानेषु ययावन्यत्र कुत्रचित् ॥ ३६ ॥ एवं च विहिता तेन शून्येयं नगरहयो। एकैव रक्षिताऽहं तु परिणतुं दुरात्मना ॥ ३७ ॥ Page #68 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र इतो दिनासप्तमेऽहन्यतीते तेन मे पुरः । इति प्रोचे यथा भने प्रचण्डो राक्षसोऽस्यहम् ॥ ३८ ॥ मानुषामिषलुब्धेन मयेहागत्य मारितः । नगर निखिलो लोको रक्षिता त्वं तु कारणात् ॥ ३८ ॥ सप्तमे दिवसे लग्नं शुभग्रहनिरीक्षितम् ।। तत्र खां परिणेष्यामि करिष्यामि स्वर्गहिनीम् ॥ ४० ॥ तदद्य सप्तमदिनं समयोऽयं तदागतः । यावन्नायात्यसो तावत् याहि त्वं सुन्दराकृते ॥ ४१ ॥ धनदः माह मुग्धे त्वं मा भैषीः शृणु संप्रति । हतः स्वपाप्मनवासौ मरिष्थति करण मे ॥ ४२ ॥ सोचे तहि च तन्मृत्युसमयं कथयामि ते । पूजाकाले स विद्याया मारणीयस्त्वया खलु ॥ ४३ ॥ तस्मिंश्च समयेनासावुत्तिष्ठति न जल्पति । अयं च खड्गो मत्तातसत्को ग्राह्यस्त्वया तदा ॥ ४४ ॥ आगानिशाचरः सोऽथ ग्रहीत्वा वृशब करे । विलोक्य धनदं चाग्रे सप्रहासमदोऽवदत् ॥ ४५ ॥ अहो आश्चर्यमायातं भक्ष्यमद्य मम स्वयम् । इत्युदिलाऽवज्ञयैव मुमोच मृतकं च तत् ॥ ४६ ॥ विद्यां पूजयितुं यावत् प्रवृत्तोऽसौ तदाऽमुना । इत्युक्त: खड्गमावष्य त्वां हनिष्याम्यरेऽधुना ॥ ४७ ॥ अवजया हसन् सोऽथ कृतपूजो निपातितः । तेन खड्नेन सद्योऽपि पातयित्वा शिरो भुवि ॥ ४८ ॥ Page #69 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः। ६८ तेनैव कृतयोहाहसामग्रमा परिणीतवान् । धनदो रूपयुक्तां तां नाना तिलकसुन्दरीम् ॥ ४ ॥ भोगान् भुला तया साई दिनानि कतिचित्ततः । तां सारवस्तु चादायाययौ तवैव कूपके ॥ ५० ॥ वलित्वा च समानीतं तेन वस्तु मनः प्रियम् । भूयश्चक्रेश्वरी मार्गे वन्दिता भक्तिपूर्वकम् ॥ ५१ ॥ आगाप्रवहणं किञ्चित् तदा तदहीपसन्निधौ। तस्मिंश्च कूपके तस्माबरा नीरार्थमाययुः ॥ ५२ ॥ रज्जुः क्षिप्ताऽथ तैस्तत्र तां धृत्वा धनदोऽवदत् । पतितोऽस्मेष कूपे तत् मामुत्तारयतानघाः ॥ ५३ ॥ तैश्च तहेवदत्तस्य सार्थवाहस्य सत्वरम् । आख्यातं सोऽपि तत्रागात्कोतुकात्पूर्ण मानसः ॥ ५४ ॥ बड्वा वरनया कूपे प्रक्षिप्ता मञ्चिका ततः । तस्यामारुह्य धनदो बहिः कूपाहिनिर्ययौ ॥ ५५ ॥ तं दृष्ट्वा सुन्दराकारं वस्त्राभरणभूषितम् । ... अतीव विस्मितः सार्थवाहः पप्रच्छ गौरवात् ॥ ५६ ॥ कोऽसि त्वं भद्र कूपेऽत्र पतितोऽस्यथवा कथम् । सोऽवदन्मम भार्याऽपि पतिताऽस्त्यत्र सार्थप ॥ ५७ ॥ अन्यच्च देवतादत्तं वस्तु रत्नादिकं च नः । कष्ट्वा तत्कथयिष्यामि सर्वशद्धिं तवात्मनः ॥ ५८ ॥ नसः ॥ ५४॥ . (१) ज तत् । Page #70 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र एवं कुर्वति तेनोक्तो विदधे सोऽपि तत्तथा । विसिभिये तु सार्थेशो दृष्ट्वा तिलकसुन्दरीम् ॥ ५८ ॥ भूयोऽपि चामुना पृष्टः शशंस धनदोऽप्यदः । सार्थवाह वणिक् जात्या भरतक्षेत्रवास्यहम् ॥ ६० ॥ चलितः कटाहद्दीपं प्रति यानेन सप्रियः । भग्नं च वारिधी यानं ततोऽत्रागां प्रियान्वितः ॥ ६१ ॥ पतिता मत्प्रिया ह्यस्मिन् कूपे नोरेक्षणाकुला । अहमप्यपतं चास्याः स्नेहबद्धो भवे यथा ॥ ६२ ॥ जलान्त:पतिती नावां तत्तीरे किन्तु भाग्यतः । तुष्टा ददौ च रत्नानि तत्र मे जलदेवता ॥ ६३ ॥ कथितं च तयैवं यत् यानमत्र समेष्यति । तत्राधिरुह्य गच्छेस्त्वं निजस्थानं सुखेन भोः ॥ ६४ ॥ कथितयं मिजा वार्ता सार्थवाह मया तव । त्वमप्यात्मकथां ब्रूहि यतः सख्यं प्रवर्द्धते ॥ ६५ ॥ सोऽवदद्देवदत्ताख्यो भरतादहमप्यहो। कटाहद्दीपमगमं चलितश्च गृहं प्रति ॥ ६६ ॥ तदेहि भद्र त्वमपि गच्छाव: सममेव यत् । आरोपय निजं वस्तु मम याने प्रियां तथा ॥ ६७ ॥ धनदोऽप्यब्रवीदेवं कुरु सार्थपते यतः । षष्ठांशं ते प्रदास्यामि वस्तुनोऽस्य गृहं गतः ॥ ६८ ॥ (१) ख घ ङ च ततः । Page #71 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । ७१ धनेन किमसारेण गौरव्योसि त्वमेव मे। तहस्त्वारोपितं याने सार्थेशेनेति जल्पता ॥ ६८ ॥ मार्गे 'चागच्छतस्तस्य सार्थेशस्य दुरात्मनः । चचाल चित्तं ललनां तां विलोक्य धनं तथा ॥ ७० ॥ रात्रौ पुरोषव्युत्मर्गनिमित्तं मञ्चिकागतः । प्रक्षिप्तः सार्थवाहेन धनदोऽथ महोदधौ ॥ ७१ ॥ दूरं गतेन तेनोचे धनदोऽद्यापि नैति यत् । गत: शरीरचिन्तार्थं तन्नं पतितोऽर्णवे ॥ ७२ ॥ नरेशान्वेषयामास तं चिरं कैतवादसौ। पश्चादाखासयामास तत्रियां प्रियभाषणैः ॥ ७३ ॥ अन्यस्मिंश्च दिने तेन सोचे तिलकसुन्दरी। संस्थितस्त्वत्पतिर्भद्रे तत्पनी मे भवानघे ॥ ७ ॥ तच्छ्रुत्वा चिन्तयामास मा चैवं बुद्धिशालिनी। मत्पतिर्मेऽङ्गलुब्धेन नूनं व्यापादितोऽमुना ॥ ७५ ॥ ममैष शीलविध्वंसं करिष्यति बलादपि । ततः कृत्वोत्तरं किञ्चित्कालक्षेपोऽत्र युज्यते ॥ ७६ ॥ विचिन्त्यैवमुवाचैव संप्राप्तस्य पुरं तव । अनुज्ञाता महोभा भविष्यामि रहिण्यहम् ॥ ७७ ॥ (१) ग च ड ऽथा-1 (२) ग च ड शरीरचिन्ताया-। (३) ग च ज -चैन। Page #72 -------------------------------------------------------------------------- ________________ ७२ श्रीशान्तिनाथचरित्रे 1 हृष्टः सोऽप्यनुमेने तदिति ध्यायन् यथा नृपम् । तोषयित्वा 'स्वदानेन करिष्यामि समीहितम् ॥ ७८ ॥ इतः स धनदस्तेन प्रक्षिप्तो जलधेर्जले पूर्वभग्नस्य 'पोतस्य लेभे खण्डं विधेर्वशात् ॥ ७८ ॥ गाढं तदुरसाऽऽश्लिष्य तुभ्यमाणस्तरङ्गकः । पञ्चभिर्वासरैः प्राप्तः स्वपुरासन्नकूलकम् ॥ ८० ॥ हृष्टाशयो निजपुरं पश्यन्नूर्द्धमुखो दृशा । गिलितो गुरुमत्स्येन फलकेन सहैव सः ॥ ८१ ॥ दध्यौ च पतितो मत्स्यजठरे नरकोपमे । रे जीव देवदोषेण गाथां भावयतां ततः ॥ ८२ ॥ यहा पूर्वभवाचीर्णकर्मदोषेण केनचित् । पतत्यसौख्यं मय्येव च्छिद्रं जीर्णवृताविव ॥ ८३ ॥ इति ध्यात्वा स सस्मार मणिमापनिवारकम् । तत्प्रभावेन मत्स्योऽसौ गृहीतस्तत्र धीवरैः ॥ ८४ ॥ स्फाटिते जठरे तस्य दृष्टोऽसौ तैः सविस्मयैः T प्रक्षालितश्च नौरेण कथितश्च महीपतेः ॥ ८५ ॥ राजाऽपि विस्मितमनास्तमानाय्यात्मसन्निधौ । पप्रच्छ किमिदं भद्राघटमानं तवाऽभवत् ॥ ८६ ॥ अयि कोऽसि कथं वा त्वं पतितोऽसि भषोदरे । इति सत्यं ममाख्याहि वर्त्तते कौतुकं महत् ॥ ८७ ॥ (१) ङ सुदानेन | (२) ग घ ङ च यानस्य । Page #73 -------------------------------------------------------------------------- ________________ द्वितीय: प्रस्तावः । धनदोऽभ्यवदत्तावद्दविग्जातिमवेहि माम् । भग्ने याने फलहकं संप्राप्यागामिह प्रभो ॥ ८ ॥ निरीक्ष्यमाणो नगरं मत्स्येन गिलितोऽस्माहम् । गृहीतः स तु कैवर्तेर्जंठरं चास्य दारितम् ॥ ८ ॥ दृष्टश्च तस्य मध्येऽहं ततश्चैभिः सविस्मयैः । भवत्पार्श्वं समानीतो राजनिति कथा मम ॥ ८० ॥ स्वर्णक्षालितनीरण स्रपितः सोऽथ भूभुजा । मत्स्योदराभिधानव स्थापितो निजसविधौ ॥ ८१ ॥ प्रार्थितेन तेनासौ विदधे च स्थगीधरः । निनाय दिवसानेवं स्वस्वरूपमवेदयन् ॥ ८३ ॥ सुदत्तः सार्थवाहोऽथ तस्य पूर्वापकारकृत् । वातप्रेरितपोतेन तत्रान्येद्यः समाययौ ॥ ८३ ॥ गृहीत्वा प्राभृतं सोऽपि प्रतीहारनिवेदितः । श्रययौ नृपतेः पार्श्वे निषसय कृतानतिः ॥ ८४ ॥ राजाऽपि वणिजस्तस्य प्रियालापं स्वयं व्यधात् । दापयामास ताम्बूलं स्थगोधरकरेण च ॥ ८५ ॥ विज्ञाय सोऽथ तत्तस्मै ददौ भूत्वा मुखाग्रतः । स सुदत्तोऽपि धनदमुपलक्षयति स्म तम् ॥ ८६ ॥ परं सोऽघटमानत्वात्किञ्चित्सन्देहतत्परः | भणितो भूभुजा यत्तेऽईदानं भवतादिति ॥ ८७ ॥ महाप्रसाद इत्युक्त्वा निजस्थानं गतोऽन्यदा । पप्रच्छ पुरवास्तव्यं पुरुषं कचिदित्यसौ ॥ ८८ ॥ १० ৩३ Page #74 -------------------------------------------------------------------------- ________________ २R श्रीशान्तिनाथचरित्रे अयं स्थगीधरो राज्ञः किमु भद्र क्रमागतः । तेनापि कथितं तस्य तत् स्वरूपं यथातथम् ॥ ८८ ॥ अत्रान्तरे च मातङ्गो गौरव्यस्तस्य भूपतेः । आगाट् गीतरतिर्नाम्ना सार्थवाहस्य सन्निधौ ॥ ४०० । ततो गातुं प्रवृत्तोऽसौ निजवन्दसमन्वितः । रञ्जित: सार्थवाहोऽपि तह्रोतकलयाऽग्राया ॥ १ ॥ दानेन तोषयित्वैनमूचे भो यदि मामकम् । कार्य साधयसि त्वं तत् द्रव्यं यच्छामि ते बहु ॥ २ ॥ सोऽवदत्साधयिष्यामि सर्व कथय मे स्फुटम् । वशे यस्य महीपालस्ततः किं मे सुदुष्करम् ॥ ३ ॥ सार्थवाहोऽब्रवीत्तहि त्वयैकान्ते महीपतिः । एवं वाच्यो यथा मत्स्योदरोऽयं मम बान्धवः ॥ ४ ॥ अङ्गीकृतेऽथ तत्कायें स तस्मै प्रीतमानसः । सङ्घाटांश्चतुरः स्वर्णेष्टिकानां प्रददौ सुधीः ॥ ५ ॥ ययो च नृपतेः पार्थे सभासीनस्य तस्य तु। मातङ्गोऽपि 'समभ्येत्य पुरो गातुं प्रचक्रमे ॥ ६ ॥ तगीतरञ्जितो राजा स्थगीधरमवोचत । देहि ताम्बूलमेतस्मै गान्धर्विकवराय भोः ॥ ७ ॥ ताम्बूलं ददतस्तस्य लगित्वा कण्ठकन्दले । चिराद् दृष्टोऽसि हे भ्रातरिति जल्पन् रुरोद सः ॥ ८ ॥ (१) ग च तदाभ्येत्य। Page #75 -------------------------------------------------------------------------- ________________ J द्वितीयः प्रस्तावः । किमेतदिति भूपेन पृष्टो मत्स्योदरः सुधीः । हृद्युपायं विचिन्त्योचे देवायं सत्यमूचिवान् ॥ ८ ॥ अस्मिंश्व नगरे पूर्वं मातङ्गोऽभूत्पिताऽऽवयोः । महागायन इत्युर्वीपतेः प्रणयभाजनम् ॥ १० ॥ तस्याभूतामुभे भायें तयोरावां सुतौ प्रभो । मनागनिष्टा मे माता तदनिष्टोऽप्यहं पितुः ॥ ११ ॥ सुदीर्घदर्शिना तेन क्षिप्तानि जनकेन मे । जङ्घान्तः पञ्चरत्नानि तत्प्रहारश्च रोहितः ॥ १२ ॥ भणितं चेति यद्दत्स विपद्येतानि भक्षयेः । सर्वाङ्गेष्वपि तेनास्य 'संक्षिप्तानि धनानि तु ॥ १३ ॥ ततो विदार्यां वां तानि रत्नान्यदर्शयत् । प्रत्ययार्थं महोभर्त्तुर्धनदो मतिमद्दरः ॥ १४ ॥ ततो गोतरती राजादेशाद्दड्वा पदातिभिः । 'विदारयितुमारब्धो जजल्यैवं सुदीनवाक् ॥ १५ ॥ स्वामिद्वेष न मे भ्राता किं विदं कर्म गर्हितम् । रैदानात्सार्थवाहेन पाप्मना कारितोऽस्माहम् ॥ १६ ॥ प्रतीतिर्यदि ते देव मदुगिरा नहि जायते । तदानाययत स्वर्णसङ्घाटांस्तान्ममौकसः ॥ १७ ॥ राजाऽप्यालोकयामास मत्स्योदरमुखं पुनः । प्रत्यूचे पार्थिवं सोऽपि सत्यमेतदपि प्रभो ॥ १८ ॥ · (१) ग च ट ड त थ सन्ति चिप्तानि तानि तु । Page #76 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र पुनः प्रोवाच भूपालः परमार्थ निवेदय । मत्स्योदर महाश्चर्यकारि सर्वमिदं यतः ॥ १८ ॥ सोऽवदत्तर्हि विद्यन्ते यानऽस्य वणिजो मम । सपादाष्टशती स्वर्गसङ्घाटानां महीपते ॥ २० ॥ पञ्चदश सहस्राणि रत्नानां च प्रभावताम् । इति विज्ञाय गोखामिन् यत्कर्त्तव्यं कुरुष्व तत् ॥ २१ ॥ अभिज्ञानमिदं चात्र यतः सर्वेऽपि सम्पुटाः । खनामाङ्काः कृताः सन्त्युपलक्षणकृते मया ॥ २२ ॥ भूपपृष्टेन तेनाथ तबामोदौरितं निजम् । राज्ञाऽप्यानायितास्तेऽथ सङ्घाटाः खपचौकसः ॥ २३ ॥ विधा कृतेषु तेष्वन्तर्दृष्ट्वा तां धनदाभिधाम् । सद्यश्चुकोप मातङ्गवणिभ्यामवनीपतिः ॥ २४ ॥ हन्यमानी च तो मत्स्योदरेणैव विमोचिती। सोऽथ कल्याण नोरण स्नात्वा शुचिरभूत्पुनः ॥ २५ ॥ वणि पार्खात् निजं वस्त्वादाय मातङ्गतोऽपि च । तयोः कृत्वोचितं चाभूतनदो धनदोपमः ॥ २६ ॥ पृष्टोऽथ भूभुजा भूयः स जगादात्मन: कथाम् । सत्यां यथाऽत्र वास्तव्यो देवाहं श्रेष्ठिनन्दनः ॥ २७ ॥ गाथा मयैका दीनारसहस्रेणात्मसात्कृता। ततो निष्कासितः पित्रा ततो देशान्तरं गतः ॥ २८ ॥ (१) घ ङ ञ पावे। (२) घ ज मया गाथैका । ग मयैका गाथा। च मयैकगाथा | Page #77 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः। इत्यादि सकलां वाती कथयित्वाऽब्रवीवृपम् । देवाद्यापि प्रकाश्योऽहं नावश्यं कस्यचिद्यतः ॥ २८ ॥ मम वित्तकलनापहारकार्यपरोऽपि चेत्। . सार्थवाह इहायाति ततो भव्यं भवेताभो ॥ ३० ॥ सार्थेशो देवदत्तोऽपि तवान्येद्युः समाययौ। साई तिलकसुन्दर्या स ागाच नृपान्तिकम् ॥ ३१ ॥ ढोकयित्वा रत्नजातमुपविष्टो महीभुजा। अयं मत्स्योदरप्रोक्तो वणिगित्युपलक्षितः ॥ ३२ ॥ मत्स्योदरोऽपि तं दृष्ट्वा तथा तिलकसुन्दरीम् । जिज्ञासुस्तदभिप्रायं गोपिता'ङ्गोऽभवत् तदा ॥ ३३ ॥ पाललापाथ भूपालः सार्थवाहं ससंभ्रमः । भद्र त्वं कुत प्रायासी: का चेयं बालिका वरा ॥ ३४ ॥ सोऽवोचत कटाहाख्यद्वीपादवागतोऽस्माहम् । इयं च जलधेरन्तौ पे लब्धा मयैकका ॥ ३५ ॥ सुवस्त्राहारताम्बूलालङ्कारैः सत्कृताऽपि हि । राजंस्तवानुमत्यैव भवेन्मम रहिण्यसौ ॥ ३६ ॥ राजा प्रोवाच हे सुभु किं तेऽयं रोचते वरः । अथवा वामयं कामी बलादेव रिरंसते ॥ ३७॥ साऽवादीकोऽस्य पापस्य गृहीयादभिधामपि । गुणरत्ननिधि: सिन्धौ प्रक्षिप्तो येन मे पतिः ॥ ३८ ॥ (१) ग घ ङ च ज -माऽभवत् क्षणात् । (२) ग घ ङ च ज -सनिः । . Page #78 -------------------------------------------------------------------------- ________________ ৩ श्रीशान्तिनाथचरित्रे अनेन प्रार्थिता स्वामित्र कार्षमिदमुत्तरम् । यतो राजप्रदत्ताऽहं भविष्यामि प्रिया तव ॥ ३८ ॥ निस्त्राणया मयेतस्मात् शोलमेवं हि रक्षितम् । अधुना तु करिथामि प्रवेशं ज्वलितानले ॥ ४० ॥ स्त्रीणामवश्यं साक्षी स्याद्भर्तुः सङ्गे हुताशनः । स एव शरणं तासां विरहे तस्य युज्यते ॥ ४१ ॥ भणिता भूभुजा सैवं मा कार्षीभृत्युसाहसम् । यतोऽहं दर्शयिष्यामि परिणीतपतिस्तव ॥ ४२ ॥ सोचे नरेन्द्र नो कत्तुं परिहासस्तवोचितः । कास्ति मे स धवो यो हि प्रक्षिप्तोऽगाधवारिधौ ॥ १३ ॥ ततस्ताम्बूलदानार्थमुत्थाप्य धनदं नृपः । प्रोचे भट्रे स्वभ रममं दृध्या विलोकय ॥ ४४ ॥ तमालोक्योपलक्ष्यापि साऽसंभाव्यसमागमम् । यावदद्यापि नो हर्षप्रकर्ष तादृशं दधौ ॥ ४५ ॥ अवदद्धनदस्तावद्देवास्या: स पतिः स्फुटम् । यः शून्यागारसंस्थायाः कुतोऽप्यागादतर्कित: ॥ ४६ ॥ अनयैवार्पितो यस्य खगो राक्षसघातकृत् । राक्षसश्च हतो येनोदूढेयं चानुरागिणी ॥ ४७ ॥ इत्यादि सर्ववृत्तान्ते कथिते सति मूलतः । सूर्यालोकेऽजिनीवाभूत्सा सद्यो विकसन्मुखी ॥ ४८ ॥ जाता मत्स्योदरस्यैषा पुनर्जाया तृपाज्ञया । मार्यमाणश्च सार्थेशो नृपात्तेनैव मोचितः ॥ ४८ ॥ Page #79 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । अनन्यसदृशं सर्वमलङ्कारादि वस्तु तत् । धनदो वणिजाऽऽनीतं दर्शयामास भूपतेः ॥ ५० ॥ कृतान्यकृत्यः सोऽन्येारनुज्ञाप्य धराधिपम् । भूयसा परिवारण प्रययौ पिटमन्दिरम् ॥ ५१ ॥ राजमान्योऽयमित्यस्यासनादिस्वागतक्रियाम् । .. विधाय व्याजहारैवं रत्नसारोऽप्युदारधीः ॥ ५२ ॥ धन्योऽहं यस्य गेहे त्वमायासी पवल्लभः । तहि वस्तु येनार्थः सर्वस्वमपि ते मम ॥ ५३ ॥ धनदोऽप्यवदत्तात सत्यमेतद्रवीषि यत् । परं पृच्छाम्यहं किञ्चित्कारणम गरीयसा ॥ ५४ ॥ यस्तेऽभूननदो नाम तनयः क तु सोऽधुना। शुद्धिं जानासि तस्य त्वं क्वाप्यसौ विद्यते न वा ॥ ५५ ॥ वचः श्रुत्वाऽस्य साकूतं सुताकारं च वीक्ष्य तम् । सुतोदन्तमथ श्रेष्ठी सवितर्को न्यवेदयत् ॥ ५६ ॥ गाथा सुतेन दीनारसहस्रेणाददे मम। तदर्थे परुषं किञ्चिहचनं भणितो मया ॥ ५७ ॥' अभिमानवशात्वापि गृहानिःसृत्य सोऽगमत् । गतस्याभूहहुः कालः शुद्धिं जानामि नास्य तत् ॥ ५८ ॥ आकृत्या वचसा चैवं मन्येऽहं त्वं स एव हि । त्वयि गोपयति स्वं च कुर्वे सन्देहमप्य हो ॥ ५८ ॥ सदृशा बहवो लोका दृश्यन्तेऽत्र महीतले ।। ततस्त्वमपि मत्युत्रसदृक्षोऽपि भविष्यसि ॥ ६ ॥ Page #80 -------------------------------------------------------------------------- ________________ C . श्रौशान्तिनाथचरित्र धनदः स्माह हे तात स एवास्मि सुतस्तंव । तस्थांही दक्षिणे चिह्न दृष्ट्वा ज्ञातोऽमुनाऽप्यसौ ॥ ६१ ॥ पितुः पादौ ननामायं गाढं सोऽम्यालिलिङ्ग तम् । हर्षाश्रुपूरपूर्णाक्षो जगाद च सगहदम् ॥ ६२ ॥ हा पुत्रात्रागतेनापि किं त्वयाऽऽत्मा निगूहितः । नोत्कण्ठा किमु ते पित्रोश्चिरामिलितयोरपि ॥ ६३ ॥ कास्थाः कालमियन्तं त्वमनुभूतं त्वया किमु । दुःखं सुखं वा हे वत्स देशान्तरगतेन हि || ६४ ॥ धनदोऽप्यश्रुपूर्णाक्ष: स पादात्मनः कथाम् । पित्रोनिवेदयामास क्षमयामास तौ तथा ॥ ६५ ॥ इदं चोवाच हे तात पार्थिवान्मां विमोचय । यथाऽहं तव वधूवागच्छावो निजमन्दिरम् ॥ ६६ ॥ गत्वा राजकुले सोऽथ तम) निरमापयत् । सह पुत्रेण भूपालमप्याकारयति स्म च ॥ ६७ ॥ ततो गजेन्द्रमारूढो धनदः प्रेयसीयुतः । अनुगम्यमानो भूपेनागाब्रिजनिकेतनम् ॥ ६८ ॥ पुत्र देशान्तरायाते गृहप्राप्ते च भूपती। दृष्टः प्रावर्तयत् श्रेष्ठी स महोत्सवमुत्तमम् ॥ ६८ ॥ अत्रान्तरे नृपसुतो नृपस्योत्सङ्गसंस्थितः । यावदासीन्मनस्तोषं जनयबिजलीलया ॥ ७० ॥ तावदारामिकः कश्चिदुद्धृत्य स्खकरण्डकात् । कुसुमान्यार्पयद्राजस्तनयस्तानि चाग्रहीत् ॥ ७१ ॥ Page #81 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । तेषामन्तर्गतेनायं दष्टो राजाहिनाऽणुना। . नाशाग्रे 'घ्राणमानोऽपि पूत्करोति ततश्च सः ॥ ७२ ॥ राजाऽपि पुष्पमध्यस्थं तं दृष्ट्वाऽहिं सुदुःखितः । प्रोचे गारुडिकं भद्र कुर्बेनं गतवेदनम् ॥ ७३ ॥ .. सोऽवादीद्राजसर्पोऽयं सर्वसर्पशिरोमणिः । तत्कत्तुं युज्यतेऽस्माकमत्र मन्त्रक्रिया नहि ॥ ७४ ॥ ततश्चक्रखरीदत्तमणिनोरण निर्विषम् ।.. तं चक्रे धनदः सद्यो मुमुदे च महीपतिः ॥ ७५ ॥ ततः संमान्य धनदं समागत्य निजं गृहम् । .: नृपोऽप्यकारयद्दीपनं पुत्रस्य जन्मवत् ॥. ७६ : - अथासौ नृपतेः पुत्रः क्रमासंप्राप्तयौवनः । ... निर्ययौ गजमारूढो राजपाटिकयाऽन्यदा ॥ ७७.॥ पुरस्य पश्यता शोभा दृष्टा तेन मनोहरा। तनया शूरराजस्य श्रोषणा नाम कन्यका ॥ ७८ ॥ निरीक्ष्योद्भटरूपां.तां कुमारो मारपीडितः । बभूव सा च तं दृष्ट्वा नेषदप्यनुरागिणी ॥ ७८ ॥.. कुमारो विरहे तस्या रहे प्राप्तो रतिं गतः । मित्रैश्च तदभिप्रायो महोभर्तुनिवेदितः ॥ ८० ॥. मन्त्रेयक: पार्थिवादिष्टो गला शूरनृपान्तिके। ... कुमारार्थे ययाचे तां श्रोषणां वरकन्यकाम् ॥ ८१ ॥ (१) ग ङ च ट पूत्करोति स्म दद्योऽस्मीति ततश्च सः । ११ Page #82 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे परमानुग्रहं सोऽथ मन्यमानोऽतिगौरवम् । चक्रे यावदमात्यस्य तावत्मा बालिकाऽवदत् ॥ २ ॥ यदि दास्यथ मां तस्मै यूयं तात तदा ध्रुवम् । आत्महत्यां करिष्यामि तच्छु त्वा विषसाद सः ॥ ८३ ॥ ऊचे च सचिवं तावत् यात यूयं नृपान्तिकम् । कन्यकामनुनीयेमां कथयिष्याम्यहं पुन: ॥ ८४ ॥ मन्त्री गत्वा तदाचख्यो राज्ञः शूरोऽपि कन्यकाम् । बभाण 'सा तु श्रोषणा नेच्छति स्मैव तं पतिम् ॥ ८५ ॥ तेनाथ पार्थिवस्येदं कथितं पार्थिवोऽपि तत् । सुतस्याख्यत्सोऽपि गाढं बभूव मदनातुरः ॥ ८६ ॥ अत्रान्तरे च संप्राप्तो धनदो राजस निधी। पप्रच्छवं महाराज यूयं चिन्तातुरा नु किम् ॥ ८७ ॥ राजाऽपि तनयावस्थास्वरूपं पर्यकोर्तयत् । तच्छ्रुत्वा श्रेष्ठिसूः स्माहाल विषादेन भूपते ॥ ८८ ॥ देवीचक्रेश्वरीदत्तमणमाहात्मातः क्षणात् । साधयिष्याम्यदःकार्यमित्युक्त्वा मणिमानयत् ॥ ८८ ॥ आयच्च कुमारस्याराधयामास सोऽपि तम् । धनदाख्यातविधिना तस्य तुष्टो मणिस्तत: ॥ ८ ॥ सा शूरनन्दनी तस्मिन्ननुरागं नृपात्मजे । दध्यौ तं च समीपस्थां सखों स्निग्धमजिज्ञपत् ॥ ८१ ॥ (१) ग ङ च ट बहुधा सा तु। (२) घ ज स्व-1 Page #83 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । साऽऽचख्यौ तत्पितुः सोऽपि गत्वाऽशंसन्महीभुजः । राजाऽपि तनयस्याख्यत् ततः स्वस्थो बभूव सः ॥ ८२ ॥ सांवत्सरमथाकार्य विवाहदिनमुत्तमम् । राजाऽपृच्छत्म चाचख्यौ तद्वितीयदिने शुभम् ॥ १३ ॥ लग्ने दोषोज्झिते तस्मिन् शुभग्रहनिरीक्षिते । शकुनैर्विहितोत्साहो विवाहः समभूत्तयोः ॥ ८४ ॥ स कुमारस्तया साई भेजे वैषयिकं सुखम् । अथान्येद्यु पस्योग्रा शिरःशूलव्यथाऽभवत् ॥ ८५ ॥ रोगापहारिसुमणः प्रभावाइनदोऽपि ताम् । तत्पीडां शमयामास दुःसाध्यां भिषजामपि ॥ ८६ ॥ ततश्च पार्थिवो दध्यावस्याहो सदृशः पुमान् । नास्ति कोऽपि महीपौठे गुणरत्नमहोदधिः ॥ ८७ ॥ भाग्योदयेन केनापि सम्पन्नोऽयं सखा मम । इति ध्यात्वाऽधिकं मैने स्वसुतादपि तं सदा ॥ १८ ॥ चतुर्जानधर: पद्भ्यां पविलितवसुन्धरः । आगात्तत्र पुरेऽन्येद्युः सूरिः शोलंधराभिधः ॥ ८ ॥ जग्मुस्तहन्दनाहेतोः पौराः सर्वेऽपि भक्तितः । दृष्ट्वा तान् ज्ञातवृत्तान्ती रथस्थो धनकोऽप्यगात् ॥ ५०० । कृत्वा नतिं यथास्थानमासीनेषु 'जनेषु च । सूरि: शोलंधरः सोऽथ विदधे धर्मदेशनाम् ॥ १ ॥ (१) ग घ च ज धनादिषु । Page #84 -------------------------------------------------------------------------- ________________ ८४ श्रीशान्तिनाथचरित्रे जीवानामिह संसारे विना धर्मेण नो सुखम् । त्यक्त्वा प्रमादं भो भव्यास्तद्धर्मे कुरुतादरम् ॥ २ ॥ कुर्वन् कलङ्कयेत् धर्मं मनसाऽप्यन्तरा हि यः महणाक इवाप्नोति स सौख्यं दुःखमिश्रितम् ॥ ३ ॥ पप्रच्छ धनदः कोऽसौ भगवन्महणाभिधः । कुर्वताऽपि कथं तेन धर्मो नाम कलङ्कितः ॥ ४ ॥ सूरिः प्रोचेऽत्र भरते पुरे रत्नपुराभिधे । शुभदत्ताभिधः श्रेष्ठो वसति स्म महाधनः ॥ ५ ॥ भार्या वसुन्धरा तस्य महणाकश्च तत्सुतः । सोमश्रोर्नाम तस्यापि बभूव सहचारिणी ॥ ६ ॥ अन्यदा रथमारुह्योद्या निकायां ययावसौ । उद्याने मण्डपस्तत्र 'विस्तीर्णश्च विनिर्मितः ॥ ७ ॥ खाद्य-भोज्य-लेह्य-पेय-भेदैस्तत्र चतुर्विधम् । बुभुजे स वराहारं मित्रैः सह यदृच्छया ॥ ८ ॥ ततस्ताम्बूलमादाय पञ्चसौगन्धिकं वरम् । क्षणं दृष्टिकृतानन्दं प्रेच्य प्रेक्षणकं तथा ॥ ८ ॥ बहु पादपसङ्गीर्णं फलपुष्पर्द्विबन्धुरम् । उद्यानमीक्षमाणोऽसौ ददर्शकं महामुनिम् ॥ १० ॥ ( युग्मम् ) स मित्र प्रेरितो गत्वा ववन्दे तं तपोधनम् । सोऽपि ध्यानं विमुच्यास्मै धर्मलाभाशिषं ददौ ॥ ११ ॥ (१) ग घ ट ड सुविस्तीर्णश्च निर्मितः 1 Page #85 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः। तहर्मदेशनां श्रुत्वा प्रतिबुद्दा' स शुद्धधीः । ." सम्यक्त्रमूलं तत्पाचे ग्रहिधर्ममुपाददे ॥ १२ ॥ पुनः साधुं नमस्कृत्य स गतो निजमन्दिरम् । द्रव्येण कारयामास जिनमन्दिरमुत्तमम् ॥ १३ ॥ पश्चाच्च चिन्तयामास बहुद्रव्यव्ययो मया । कतो धर्मरसाधिक्यपराधीनतया कथम् ॥ १४ ॥ स एवं विगतोत्साहो भूत्वा कत्यपि वासरान् । ततो लोकानुरोधनाकारयप्रतिमामपि ॥ १५ ॥ प्रतिष्ठा कारयामास तस्याश्च खेतभिक्षुभिः ।। न्यवारयज्जीवमारिं ददौ दानं यथोचितम् ॥ १६ ॥ पुनर्दध्यावहो धर्मे बहुव्यव्ययं व्यधाम् । उपार्जितधनात्तुर्यभाग एवात्र युज्यते ॥ १७ ॥ फलं भावि नवाऽस्येति सन्देहो मे प्रवर्तते । शास्त्रे च श्रयते स्तोकव्ययस्यापि फलं महत् ॥ १८ ॥ स एवं संशयानोऽपि चक्र पूजादिसत्कियाम्। अन्येागृहमांयांतावपश्यच्च तपोधनौ ॥ १८ ॥ खयमेतौ शुभाहारैरुत्थाय प्रत्यलाभयत् । गतयोश्च तयोश्चिन्तां चक्रे धन्योऽहमित्यसौ ॥२०॥ . निद्राक्षये च यामिन्यामन्यदाऽचिन्तयत्पुनः । अप्रत्यक्षफलेनेह कृतन श्रेयसा हि किम् ॥ २१ ॥ (१) गं च ड -वः। (२) ग ङ च ड विधिपूर्वकम् । Page #86 -------------------------------------------------------------------------- ________________ ८६ श्रीशान्तिनाथचरित्रे अपरेद्युर्मुनिद्दन्दं दृष्ट्वा मलमलीमसम् । स एवं चिन्तयामास धिगहो मलिनाविमौ ॥ २२ ॥ यद्येते निर्मलं वेषमकरिष्यन्महर्षयः । ततोऽभविष्यत् किं नाम जैनधर्मस्य दूषणम् ॥ २३ ॥ अथवा हा मया दुष्टं चिन्तितं मुनिपुङ्गवाः । भवन्त्येवंविधा यस्मात्संयमेनैव निर्मलाः ॥ २४॥ एवं च शुभभावेन शुभं कर्म समार्जयत् । सोऽशुभेनाशुभं कर्मार्जयति स्मान्तराऽन्तरा ॥ २५ ॥ आयुः ये विपद्याभूत्स देवो भुवनाधिपः । ततश्चुत्वा समुत्पन्नः स त्वं धनदनामकः ॥ २६ ॥ कृत्वा कृत्वाऽन्तरा धर्मो यत्त्वया दूषितस्तदा । सुखानि दुःखमिश्राणि लब्धानीह ततः स्फुटम् ॥ २७ ॥ तच्छ्रुत्वा मूर्च्छितः पृथ्वयां पपात धनदः क्षणम् । जातिस्मृत्या निजं पूर्वभवभावं ददर्श च ॥ २८ ॥ उवाच च प्रभो सत्यं यद् युष्माभिः प्ररूपितम् । ततो बन्धूननुज्ञाप्य ग्रहीष्याम्यनगारताम् ॥ २८ ॥ इत्युदित्वा ग्टहे गत्वा पितरावेवमूचिवान् । हे अंबतात मां दीक्षाकृते विसृजतं युवाम् ॥ ३० ॥ ताभ्यां निवार्यमाणोऽपि न यावद्विरराम सः । तावत्तावूचतुर्दीक्षामादास्यावस्त्वया सह ॥ ३१ ॥ राज्ञः पार्श्वे ययौ सोऽथ स्वाभिप्रायं शसंस च । सोऽप्यूचेऽहमपि समं ग्रहीष्यामि व्रतं त्वया ॥ ३२ ॥ Page #87 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः | धनदः स्माह गार्हस्थ्ये मम खामी भवानभूत् । भविष्यति यतित्वेऽपि संयोगोऽयं मनः प्रियः ॥ ३३ ॥ ततो राज्ञा सुतो राज्ये स्थापितः कनकप्रभः । धनदस्य सुतः श्रेष्ठिपदे चैव धनावहः ॥ ३४ ॥ ततः साईं महोभर्त्रा पितृभ्यां भार्यया तथा । उपाददे परिव्रज्यां धनदो गुरुसन्निधौ ॥ ३५ ॥ गृहीत्वा द्विविधां शिक्षां कृत्वा च विविधं तपः । मृत्वा सर्वेऽपि ते जग्मुः पुण्यात्मानः सुरालयम् ॥ ३६ ॥ ततश्चुत्वा मनुष्यत्वं प्राप्य श्रमणतां तथा । क्षेत्रे महाविदेहे ते संप्राप्ताः परमं पदम् ॥ ३७ ॥ ॥ इति मत्स्योदरकथा ॥ धनदस्य कथामेतां श्रुत्वा विद्याधराधिप । धर्मो निरन्तरं कार्यस्त्वयेत्यूचे मुनिः स तु ॥ ३८ ॥ तच्छ्रुत्वाऽमिततेजाः स गुर्वाज्ञां शिरसा दधत् । उत्थाय नमति स्मांत्री भूयोऽपि मुनिवर्ययोः ॥ ३८ ॥ चारणश्रमणौ तौ च समुत्पत्य विहायसा । तपोमाहात्मासम्पन्नौ जग्मतुः स्थान' मोप्सितम् ॥ ४० ॥ नरखेचरराजौ श्रीविजयामिततेजसा । गमयामासतुः कालं तावथो धर्मतत्परौ ॥ ४१ ॥ तौ यात्रात्रितयं धन्यौ चक्रतुः प्रतिवत्सरम् । तत्र स्यात् शाश्वतं यात्रादयमेका त्वशाश्वती ॥ ४२ ॥ (१) च -मुत्तमम् । ८७ Page #88 -------------------------------------------------------------------------- ________________ ८८ श्रीशान्तिनाथचरिने चैत्रस्य विमले पक्षे यात्रैका शाखती भवेत् । द्वितीया चाखिनीमासे प्रसिद्धाऽष्टाह्निकाऽभिधा ॥ ४३ ॥ देवा विद्याधराश्चैते होप नन्दीश्वराभिधे । यात्रे कुर्युनराः स्वस्वस्थानचैत्येषु संमदात् ॥ ४४ ॥ तृतीयामपि तौ यात्रां चक्रतुः सोमपर्वते । बलर्षिकेवलोत्पत्तिस्थाने नाभेयमन्दिरे ॥ ४५ ॥ बहून्यब्दसहस्राणि कृत्वा तौ राज्यमन्यदा । गत्वा मेरो ववन्दाते सनातनजिनक्रमान् ॥ ४६ ॥ नन्दनाख्ये वने तत्र चारणश्रमणावुभौ । विपुलमहामतिसंज्ञौ चोपविष्टावपश्यताम् ॥ ४७ ॥ नत्वा श्रुत्वा च तद्याख्यां पृष्टौ ताभ्यामिमौ मुनी । भगवन्तौ कियदायुरावयोरिति कथ्यताम् ॥ ४८ ॥ षड्विंशतिर्दिनान्यायुः शेषमस्तीति जल्पितौ। ताभ्यां तावाकुलीभूतौ पुनरेवं जजल्पतुः ॥ ४८ ॥ विषयामिषरानाभ्यां नेयत्कालं कृतं व्रतम् । संप्रत्यल्पायुषावावां करिष्यावो हहा किमु ॥ ५० ॥ मुनिभ्यां भणितावेतौ विनष्टं युवयोर्नु किम् । व्रतं गृहीतमद्यापि युवां स्वर्गापवर्गदम् ॥ ५१ ॥ ततः स्वस्वपुरं प्राप्तौ सुतौ राज्ये निधाय तो। पाखें जग्गृहतुर्दीक्षामभिनन्दनसन्मुनेः ॥ ५२ ॥ (१) ग ज ड -षौ सन्तौ। Page #89 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । स्थितावनशनेनैती पादपोपगमेन च । सस्मार जनकस्यौजस्तदा श्रीविजयो मुनिः ॥ ५३ ॥ ततश्च तपसाऽनेन भूयासमहमम्यहो। पित्रा सम इति व्यक्तं निदानमकरोदसौ ॥ ५४ ॥ एवं कतनिदानोऽसावन्योऽकतनिदानकः । मृत्वा तौ प्राणते कल्ये समुत्पन्नौ महईिको ॥ ५५ ॥ विमाने नन्दिकावर्ते खस्तिकावर्त्तके तथा । दिव्यचूलमणिचूलाभिधानी सुरसत्तमो ॥ ५६ ॥ (युग्मम्) तत्रादौ सुरकत्यजातमखिलं कृत्वा स्थितेर्वेदिनी दिव्यं वैषयिकं ततः खलु सिषवाते सुखं तौ मुदा । कुर्वाणो जिनचैत्यवन्दनविधिं यात्रां च नन्दोखरे गाढं चक्रतुरुज्ज्वलं शुभमती सम्यक्वरत्नं निजम् ॥ ५५७ ॥ इत्याचार्य श्रीअजितप्रभविरचितं श्रौशान्तिनाथचरित्वे चतुर्थपञ्चमभववर्णनो नाम द्वितीयः प्रस्तावः ॥ Page #90 --------------------------------------------------------------------------  Page #91 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । -600 इतोऽस्य जम्बूद्दीपस्य पूर्वविदेहमध्यगे। विजये रमणीयाख्ये सुभगायां महापुरि ॥१॥ वृत्तगाम्भीर्यमर्यादाश्रीगुणैर्जितसागरः । प्रौढप्रतापयुक्तोऽभूत् राजा स्तिमितसागरः ॥ २ ॥ (युग्मम्) भार्या वसुन्धरी तस्यानयशीलवसुन्धरा। द्वितोयाऽनुद्धरौ नाम बभूव स्त्रीगुणाञ्चिता ॥ ३ ॥ दिव्यचूलः सुरः सोऽथ च्युत्वा प्राणतकल्पतः । राज्ञः पत्नया वसुन्धर्या उदरे समवातरत् ॥ ४ ॥ गजपद्मसरश्चन्द्रवषखनास्तया तदा । चत्वारो हलभृज्जन्मसूचका वीक्षिताः शुभाः ॥ ५ ॥ समये सुषुवे साऽथ तनयं कनकप्रभम् । अपराजित इत्याख्यां चक्रे तस्य पिता शुभम् ॥ ६ ॥ अन्यदाऽमुद्धरीकुक्षौ सरसीव सिप्तच्छदः । समुत्पन्नः सुतत्वेन मणिचूलो दिवश्यतः ॥ ७॥ सिंहाकुम्भसिन्धुश्रीरत्नोच्चयहुताशनान् । प्रविणतो मुखेऽद्राक्षीत् सप्त स्वप्नानसो तदा ॥ ८ ॥ कथयामास तान् भर्तुः सोऽपि पप्रच्छ तदिदम् । सोऽवदत्ते सुतो विष्णुर्भावी स्वप्नैरिमैनप ॥ ८ ॥ Page #92 -------------------------------------------------------------------------- ________________ २ श्रीशान्तिनाथचरित्रे अग्रेतनसुतश्चायं बलभद्रो भविष्यति । इत्युक्त्वाऽगात् गृहे राज्ञा विसृष्टः स्वप्नपाठकः ॥ १० ॥ समये सुषुवे साऽपि देवी कृष्णप्रभं सुतम् । अनन्तवीर्य इत्याख्या पित्रा तस्य विनिर्ममे ॥ ११ ॥ काले कृतकलाभ्यासौ रूपलावण्यशालिनौ । उद्योवन कुमारौ तौ पित्रा कन्ये विवाहितौ ॥ १२ ॥ अन्येद्युस्तत्पुरोद्याने विशिष्टज्ञानसंयुतः । स्वयंप्रभो नाम मुनिरागत्य समवासरत् ॥ १३ ॥ इतोऽखवाहनां कृत्वा परिश्रान्तः स भूपतिः । विश्रामार्थं तमुद्यानमाययौ नन्दनोपमम् ॥ १४ ॥ 'क्षणमेकं स विश्रान्तस्तत्राशोकतरोस्तले । ददर्श मुनिवर्यं तं ध्यानाचलकलेवरम् ॥ १५ ॥ तं त्रिः प्रदक्षिणीकृत्य नमस्कृत्य च भक्तितः । निषद्य च यथास्थानं स शुश्रावेति देशनाम् ॥ १६ ॥ कषायाः कटवो वृक्षा दुर्गानं तत्प्रस्नकम् । फलं च पापकर्मेह परलोके च दुर्गतिः ॥ १७ ॥ संसारोद्दिग्नचित्तेन निर्वाणसुखमिच्छुना । कषायाः परिहर्त्तव्यास्त देतेऽनर्थकारणम् ॥ १८ ॥ अथोचे पार्थिवः सत्यं महात्मविदमेव हि । परमेवं ममाख्याहि कतिभेदा भवन्ति ते ॥ १८ ॥ (१) खघ च चणमेकं शयितस्तत्वाशोकस्य तरोस्तले । Page #93 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । मुनिर्जगो कोप- मान-माया - लोभाभिधा इमे । चत्वारः स्युस्तथाऽमीषां भेदाः प्रत्येकशोऽप्यमी ॥ २० ॥ आद्योऽनन्तानुबन्ध्यत्राप्रत्याख्यानो द्वितीयकः । प्रत्याख्यानस्तृतीयस्तु तुर्यः संज्वलनाभिधः ॥ २१ ॥ निश्चलोऽचलरेखेव दारुणो दुःखदायकः । भवेत्तत्वादिमो राजन् कोपोऽनन्ताऽनुबन्धकः ॥ २२ ॥ पृथ्वीरेखासमोऽप्रत्याख्यानो नाम्ना द्वितीयकः । प्रत्याख्यानस्तृतीयस्तु रेणुरेखासमो मतः ॥ २३ ॥ तुर्य: संज्वलनो नोररेखातुल्यः प्रकीर्त्तितः । एवं मानोऽद्रास्थिकाष्ठटणसस्तम्भसत्रिभः ॥ २४ ॥ माया वंशमेषशृङ्गगवांमूत्रावलेहवत् । लोभः कमिरागपङ्काज्ञ्जन हारिद्ररागवत् ॥ २५ ॥ जन्मवर्षचतुर्मासीस्थितयः स्युः क्रमात्त्रयः । तुर्यः पक्षस्थितिस्ते च श्वभ्वादिगतिहेतवः ॥ २६ ॥ एवं कषायास्ते राजन् षोडशापि प्रकीर्त्तिताः । गाढसंरम्भविहिताः स्युर्यके गाढदुःखदाः ॥ २७ ॥ संरम्भेण विना स्तोकभवान् दुःखं ददत्यलम् । ततश्चाल्पेऽपि नो कार्याः कषाया नृपते त्वया ॥ २८ ॥ राजव्रल्पोयसोऽपि स्यात् दुष्कृतस्य फलं महत् । मित्रानन्दादिसत्त्वानां यथादृष्टं मनीषिभिः ॥ २८ ॥ मित्रानन्दादयः केऽमी इत्युक्तो भूभुजा पुनः । स्वयंप्रभमुनिः स्माह तत्कथा श्रूयतामिति ॥ ३० ॥ ३ Page #94 -------------------------------------------------------------------------- ________________ ε४ श्रीशान्तिनाथचरित्रे सुरसद्मसमानर्द्धि नानाऽद्भुतमनोहरम् । अस्तीहामरतिलकं नगरं भुवि विश्रुतम् ॥ ३१ ॥ रूपलक्ष्मप्राऽतिशायिन्याऽभिभूतमकरध्वजः । मकरध्वजनामाऽभूत् भूपतिस्तत्र विक्रमी ॥ ३२ ॥ पत्नयां मदनसेनायां पद्मकेसरनामकः । तस्य पद्मसरःस्वप्नसूचितस्तनयोऽभवत् ॥ ३३ ॥ राज्ञः पत्नया तयाऽन्येद्युर्विवृखत्या शिरोरुहान् । विलोक्य पलितं दूत आगाद्देवेति जल्पितम् ॥ ३४ ॥ ततः संभ्रान्तचित्तस्य कुर्वाणस्य दिगोक्षणम् । * भूयः पत्युस्तयाऽऽख्यातं पाण्डुकेशं प्रदर्शितम् ॥ ३५ ॥ दूतोऽयं धर्मराजेन प्रेषितः पलितच्छलात् । आगच्छति जराक्कृत्यं कुरुष्वेति वदन्निव ॥ ३६ ॥ ततश्च पार्थिवो दध्यौ मम पूर्वैर्महात्मभिः । अदृष्टपलितैरेव धर्मसेवा व्यधीयत ॥ ३७ ॥ धिग् मां राज्यलुब्धं तु 'स्थितिविच्छेदकारिणम् । यस्य मे विषयासक्तस्यैव जातो जरागमः ॥ ३८ ॥ इति चिन्ताविषस्मास्यं पतिं दृष्ट्वा सनर्मवाक् । उवाचैवं पुना रात्री तद्भावाविदुरा सका ॥ ३८ ॥ नाथ त्वं वृद्धभावेन लज्जसे यदि सर्वथा । ततोऽहं कारयिष्यामि पटहोद्घोषणामिमाम् ॥ ४० ॥ ( 8 1 खघ च मति । Page #95 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । । यः कश्चिदवनीनाथं जातयामं वदिष्यति । भविष्यति सकोऽवश्यमकालेऽपि यमातिथि: ॥ ४१ ॥ राजा प्रोवाच हे देवि किं ब्रवीथविवेकिवत् । जरैव मण्डनं यस्माद्भवेदस्मादृशां किल ॥ ४२ ॥ तर्हि श्याममुखा यूयं किमित्यक्ते तया पुनः । स तस्याः कथयामास स्वस्य वैराग्य कारणम् ॥ ४३ ॥ ततश्च तनयं राज्ये संस्थाप्य प्रियया सह । तापसीभूय राजाऽसौ वनवासमशिश्रियत् ॥ ४ ॥ गूढगर्भा तु सा राजी प्रपना तापसव्रतम् । वईमाने तु गर्भेऽस्या अवर्धिष्टोदरं क्रमात् ॥ ४५ ॥ किमेतदिति दृष्ट्वा च साऽऽचस्यौ तद्यथातथम् । पत्युः कुलपतेः सोऽपि व्रतदूषणभीरुकः ॥ ४६॥ तापसीभिः पाल्यमाना समये मुधुवेऽथ सा। सुतं देवकुमाराभं शुभलक्षणशोभितम् ॥ ४७.! तस्याश्चानुचिताहारादोगोऽभूहारजस्तनी।। अचिन्तयंश्च दुःखास्तेि 'तपोधनतापसाः ॥ ४ ॥ ग्रहिणमपि दुष्पालो बालः स्याज्जननीमृते । तन्मातरि विपवायां कथं पाल्योऽयमर्भकः ॥ ४८ ॥ वणिगुज्जयिनीपुर्या वाणिज्येन परिभ्रमन् । तदा तवाययौ देवधराख्यो दैवयोगत: ५० ॥ (१) ख घ च तपोवन-। . Page #96 -------------------------------------------------------------------------- ________________ ६ श्रीशान्तिनाथचरित्रे सोऽथ तापसभक्तत्वात् तान् प्रणम्य तपखिनः | दृष्ट्वा चिन्तातुरांश्चैतान् पप्रच्छोद्देगकारणम् ॥ ५१ ॥ ऊचे कुलपतिः सोऽयमस्मद्दुःखेन दूयसे । तदाऽमुं बालकं श्रेष्ठिन्नस्मद्दत्तं गृहाण भोः ॥ ५२ ॥ ततस्तेन ग्टहीत्वाऽयं स्वभार्यायाः समर्पितः । देवेनाभिधानायाः प्रत्ययाः सुतां पुरा ॥ ५३ ॥ देवी मदनसेना सा स्थानप्राप्तं विलोक्य तम् । जातचित्तसमाधाना रोगाच्या संस्थिता तया ॥ ५४ ॥ ग्टहं गतेन तेनाथ श्रेष्ठिनोत्सव पूर्वकम् । तनयस्यामरदन्त इति नाम विनिर्ममे ॥ ५५ ॥ सुरसुन्दरीतिं पुत्राश्चेत्यभूच्च जनश्रुतिः । प्रसूताः पत्ययुगलं पत्नी देवधरस्य यत् ॥ ५६ ॥ सागरश्रेष्ठिनः पुत्रो मित्रश्र कुक्षिसम्भवः । मरदन्तस्य मित्रानन्दाभिधः सुहृत् ॥ ५७ ॥ सर्वचोर्नित्यं समजागरनिद्रयोः । तयोः प्रववृते मैत्री नेत्रयोरिव धन्ययोः ॥ ५८ ॥ जीमूतेभघटाशाली हरिरावविराजितः । क्षणिका सिलताधारी गर्जाभम्भारवोहरः ॥ ५८ ॥ के किचक्रप्रियालापग्राम्यस्त्रीगोतमङ्गलः । प्रावर्त्तत धराप्रेयानृतुराट् प्रावृडन्यदा ॥ ६० ॥ ( युग्मम्) तस्मिन् काले च तौ सिप्रासेकते वटसविधौ । क्रीडयोतिकानाम्ना रेमाते सुहृदौ मुदा ॥ ६१ ॥ Page #97 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । एकदाऽमरदत्तेन प्रणुन्रोन्नतिकाऽथ सा । वटोsस्य चौरस्य प्रविवेश मुखान्तरे ॥ ६२ ॥ मित्रानन्दो हसन्तूचे पश्याहो महदद्भुतम् । I ॥ विवेशाडोलिकाऽ'कस्माच्छबस्य वदने कथम् ॥ ६३ ॥ भणितः कुपितेनैष' मित्रानन्द ! तवाप्यरे । अत्रैवोल्लम्बितस्याऽऽस्येऽवश्यं वेक्ष्यत्यडोलिका ॥ ६४ ॥ तच्छ्रुत्वा मृत्युभोतोऽसौ निरानन्दाशयोऽवदत् । पतिताऽडोलिका यस्मान्मृतकस्य मुखे सखे ॥ ६५ ॥ जातेयमशुचिस्पृष्टा तदलं क्रीडयाऽनया । प्रत्यूचेऽमरदत्तस्तं ममास्त्यन्याप्यडोलिका ॥ ६६ ॥ ( युग्मम्) इति प्रोक्तेऽपि तं क्रोडाविमुखं प्रेच्य भाववित् । आगादमरदत्तोऽसौ मित्रानन्दश्च' मन्दिरम् ॥ ६७ ॥ द्वितीये दिवसेऽप्येनं दृष्ट्वा श्याममुखाम्बुजम् 1 पप्रच्छेत्यमरो मित्रं किं ते दुःखस्य कारणम् ॥ ६८ ॥ अतिनिर्बन्धपृष्टेन तेनाप्यस्य निवेदितम् । तच्छबस्य वचो येन गोप्यं स्थान सुहृज्जने ॥ ६८ ॥ तनिशम्यामरः स्माह शबा जल्पन्ति न क्वचित् । तदियं व्यन्तरक्रीडा सम्यक् विज्ञायते न तु ॥ ७० ॥ (१) च द यस्मान्मृतकस्य मुखे सखे | ( २ ) ङवं | (३) ङद कोऽपि । १३ GP (8) घ च छ - स्य । (५) ङ हि । Page #98 -------------------------------------------------------------------------- ________________ C श्रीशान्तिनाथचरित्रे इदं सत्यमसत्यं वा परिहासवचो ऽथवा। कार्यः पुरुषकारो हि तथापि पुरुषेण भोः ॥ ७१ ॥ मित्रानन्दोऽवदहेवायत्ते किं नाम पौरुषम् । प्रत्यूचे चामरस्तं नाश्रौषौकिन्तु भवानदः ॥ ७२ ॥ आपत् निमित्तदृष्टाऽपि जीवितान्तविधायिनी। शान्ता पुरुषकारेण ज्ञानगर्भस्य मन्त्रिण: ॥ ७३ ॥ ज्ञानगर्भः स को मन्त्रीति मित्रेणोदितः पुनः । अमरः कथयामास तदने तत्कथामिति ॥ ७४ ॥ अस्त्यत्र भरते धान्यधना बन्धुरा पुरी। चम्पेति पृथिवीख्याता 'लङ्कायाः सदृशा गुणैः ॥ ७५ ॥ जितशत्रु पस्तनाभवत्कोतियशोनिधिः । दृप्ताय॑नेककुम्भौन्द्रकुम्भपाटनकेसरी ॥ ७६ ॥ राज्ये सर्वेश्वरस्तस्याभवन्मन्त्री पुरोदितः । बुद्ध्याऽवगणितो येन गुरुः स्वौकसामपि ॥ ७७ ॥ भार्या गुणावलो तस्य पुत्रस्तत्कुक्षिसम्भवः । सुबुद्धिनामा तस्याभूत् रूपश्रीविजितस्मरः ॥ ७८ ॥ उपविष्टोऽन्यदाऽऽस्थाने नृपमण्डलसेवितः । सहितो मन्त्रिवर्गेण यावदासोन्महीपतिः ॥ ७ ॥ आययौ तावदष्टाङ्गनिमित्तज्ञानपण्डितः । नृपपर्षदि ना कश्चित् प्रतीहारनिवेदितः ॥ ८० ॥ (2) ङ च छलकायाः। Page #99 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः। दत्ताशीवचनः सोऽथोपविष्टो विष्टर वरे। . कियज्ञानं तवास्तौति पृष्टो राजेत्यभाषत ॥ ८१ ॥ राजन् ! लाभमलाभं च जीवितं मरणं तथा। . सुखं दुःखं च जानामि गमनागमनं नृणाम् ॥ २ ॥ राजोचे मत्यरीवारमध्ये त्वं यस्य कस्यचित् । पश्यस्थत्यद्भुतं किञ्चित् पक्षान्तस्तनिवेदय ॥ ८३ ॥ नैमित्तिकोऽवदत्तर्हि ज्ञानगर्भस्य मन्त्रिणः । पश्यामि सकुटुम्बस्योपसर्ग मारणात्मकम् ॥ ८४ ॥ तच्छ्रुत्वा पौडितो राजा राजलोकस्तथाऽखिलः । अन्तर्दूनोऽपि मन्त्री तु साहित्थो ययौ ग्रहम् ॥ ८५ ॥ नैमित्तिकं सहानीय तमपृच्छद्रहस्यदः । अयि भद्र ! कुतो हेतोरापदं मम पश्यसि ॥ ८६ ॥ तेनापि तस्य साऽऽख्याता भाविनी ज्येष्ठनन्दनात् । . विसृष्टी ज्ञानगर्भेण सत्कत्य ज्ञान्यसौ ततः ॥ ८७ ॥ अभाणि तनयश्चैवं ममाऽऽदेशं करोषि चेत् । । आपत्रिस्तीर्यते वत्स ! तदियं जीवितान्तकृत् ॥ ८८ ॥ यदादिशसि मे तात ! कृत्यं खेतमथासितम् । सदवश्यं मया कार्यमित्यूचे विनयो स तु ॥ ८८ ॥ ततः पुरुषमानायां मञ्जूषायां महामतिः । सचिवस्तं निचिक्षेप नौराहारादिसंयुतम् ॥ ८ ॥ दत्ताष्टतालकां तां च महीभर्तुः समार्पयत् । देवेदं मम सर्वस्वं रक्ष्यं चेति व्यजिज्ञपत् ॥ ८१ ॥ Page #100 -------------------------------------------------------------------------- ________________ १०० श्रीशान्तिनाथचरित्रे । राजा प्रोवाच हे मन्त्रिनिदं धर्मे नियोज्यताम् । विना भवन्तमेतेन धनेनाहं करोमि किम् || २ || भूयोऽपि सचिवः स्माऽऽह धर्मोऽयं हि नियोगिनाम् । यदार्थो वञ्चते नैव विपद्यपि धनादिना ॥ ८३ ॥ ततो राज्ञा प्रपन्नं तत् मन्त्री च जिनमन्दिरे । अष्टाहिकोत्सवं चक्रे स पूजयति स्म च ॥ १४॥ दीनानाथादिसत्त्वेभ्यो ददौ दानं यथोचितम् । शान्तिमुदुघोषयामासाभयदानं च देहिनाम् ॥ ८५ ॥ सनकवचैः पुमभिर्विविधायुधधारिभिः । गृहं च रक्षयामास तथा हयगजादिभिः ॥ ८६॥ एवं क्रमेण संप्राप्तेऽकस्मात्पञ्चदशे दिने | राजान्तःपुरमध्ये वागुदस्थादोदृशी स्फुटा ॥ ८७ ॥ यथा हि मन्त्रिणः पुत्रः सुबुद्धिर्नाम दुर्मतिः । राजपुत्राः केशपाशं छित्त्वा कापि ययावहो ॥ ८८ ॥ तच्छ्रुत्वा कुपितो राजा दयौ कर्मेदृशं व्यधात् । अतिसम्मानितो मूर्खो मुमूर्षुः सचिवात्मजः ॥ ८८ ॥ अस्यापराधे वढ्यो मे सकुटुम्बोऽपि मन्त्रासौ । इति च ज्ञापयामास पार्षद्यानखिलांस्ततः १०० ॥ सर्वोऽपि मारणीयोऽस्य मोच्या नो कर्मकर्यपि । इत्यादिश्य बलं मन्त्रिग्टहे प्रैषोन्नराधिपः ॥ १ ॥ तदमात्यभटैरुवं ग्टहं चैत्यपुरः स तु । सुधोर्ध्यानमिविष्टः सन् वृत्तान्तमशृणोदमुम् ॥ २ ॥ Page #101 -------------------------------------------------------------------------- ________________ हतीयः प्रस्तावः । १०१ विनिवार्य निजान् पत्तोन् सेनामुख्यानदोऽवदत् । यथा नयत मां पार्चमेकवारं महीपतेः ॥ ३॥ तथा चक्रे च तैस्तस्याभवद्राजा परामुखः । तत्राप्यभिमुखीभूय स नत्वैवं व्यजिज्ञपत् ॥ ४ ॥ मया मुक्ताऽस्ति या राजन् ! मञ्जूषा सा निरूप्यताम् । गृहीत्वा तहतं वस्तु पश्चात् कुर्याद्यथोचितम् ॥ ५ ॥ राजा प्रोवाच द्रव्येण मां विलोभ्य समौहमे । अरे त्वमात्मनो मोक्षमपराधे महत्यपि ॥ ६ ॥ मन्त्राचे नाथ ! मे प्राणास्तवाऽऽयत्ताः सदैव हि। परं प्रसादो मञ्जूषाऽवलोके क्रियतां मम ॥ ७ ॥ . ततस्तस्योपरोधेन लोकाभ्यर्थनया तथा।। उहाटयामास सर्वान् मञ्जषातालकान् नृपः ॥ ८॥ सवेणीकसव्यपाणिं सासिधेन्वितरं पुनः । मञ्जूषान्तः सुबुद्धिं तं बद्धक्रममुदक्षत ॥८॥ तं दृष्ट्वा विस्मयापन: पप्रच्छ सचिवं नृपः । किमेतदिति स प्रोचे नाहं जानामि किञ्चन ॥ १० ॥ जानात्येव भवान् राजन् ! यो हि भक्तेऽपि सर्वथा । व्यलोकं चिन्तयन् मूलच्छेदायोपस्थितो मम ॥ ११ ॥ परमार्थ ममाऽऽख्याहीत्युक्तो राज्ञाऽब्रवीत्पुनः । स्वामिन् ! केनापि रुष्टेन प्रचण्डव्यन्तरादिना ॥ १२ ॥ निर्दोषस्यापि पुत्रस्य दोष उत्पादितो मम। अन्यथैवं गोपितस्यावस्थाऽस्य कथमौदृशौ ॥ १३ ॥ Page #102 -------------------------------------------------------------------------- ________________ १०२ श्रीशान्तिनाथचरित्रे आपतनिमित्तेनोपस्थिता मे सुदुःसहा । इति ज्ञात्वा यथायुक्तं विचारय कुरुष्व च ॥ १४ ॥ अभ्यधाच्च नृपो मन्त्रिन् ! तुष्टोऽस्मि तव सर्वथा । परं कथय विज्ञातं कथमेतत्त्वया स्फुटम् ॥ १५ ॥ ततो नैमित्तिकपृच्छाप्रभृत्याख्याय सोऽवदत् । सुलभा देव ! संसारे विपदो विषयाशिनाम् ॥ १६ ॥ देवमानुषतिर्यक् स्वक्कता एताश्चतुर्विधाः । धर्मस्यैव प्रभावेन नश्यन्ति जगतीपते ! ॥ १७ ॥ राज्ये मन्त्रिपदे चैव निवेश्य स्वस्वनन्दनौ । तौ पाते तपोऽत्युग्रं प्रतिपद्यानगारताम् ॥ १८ ॥ तन्मित्र ! मन्त्रिणा तेन यथाऽऽपल्लङ्घितौजसा । आवामपि करिष्यावस्तथैव त्वं विषोद मा ॥ १८ ॥ मित्रानन्दोऽवदद् ब्रूहि कर्तव्यं हे वयस्य ! किम् । स ऊचेऽन्यत्र यास्यावो मुक्त्वा स्थानमदो निजम् ॥ २० ॥ तस्य चित्तपरीक्षार्थं पुनर्मित्रोऽब्रवीत् सखे ! । देशान्तरगतस्याङ्ग ! खेदस्तव भविष्यति ॥ २१ ॥ कालेन कियता तेन यच्छबेन निवेदितम् । तद्भावि सुकुमारत्वात् पञ्चत्वमधुनैव ते ॥ २२ ॥ अमरः स्माह गन्तव्यं दूरदेशान्तरेऽपि भोः । मया सौख्यम सौख्यं वा भोक्तव्यं च त्वया सह ॥ २३ ॥ ततश्च कृतसङ्केतौ गृहान्निःसृत्य तावुभौ । जग्मतुः क्रमयोगेन पाटलीपुरपत्तनम् ॥ २४ ॥ Page #103 -------------------------------------------------------------------------- ________________ द्वतीयः प्रस्तावः । १०३ १०३ अशोकशोकपुन्नागनागपूगप्रियङ्गुभिः । नारङ्गादिकदल्यामचारुश्च शोभितम् ॥ २५ ॥ प्रासादमेकमुत्तुङ्गप्राकारपरिवेष्टितम् । तहहिः पश्यतः स्मैतौ ध्वजराजिविराजितम् ॥२६॥(युग्मम्) मुखाऽद्धिकरशौचं तौ कृत्वा पुष्करिणीजले । अन्तः प्रविश्य प्रासादरूपलक्ष्मीमपश्यताम् ॥ २७ ॥ वर्णिकाऽप्सरसां विश्वकर्मणव विनिर्मिता । ददृशेऽमरदत्तेन तत्र पाञ्चलिकैकका ॥ २८ ॥ पश्यन्नेतामथोत्पश्योऽमरः स्मरशरातुरः । विदाञ्चकार नो तृष्णां न क्षुधां न श्रमं च सः ॥ २८ ॥ मध्याह्नसमये जाते मित्रेणेति प्रजल्पितः । आर्येहि नगरं यावो येनोच्छरं प्रवर्तते ॥ ३० ॥ स स्माह ननु भो भद्र ! क्षणं तावहिलम्बय । यावत्पाञ्चालिकामेतामहं पश्याम्यशेषतः ॥ ३१ ॥ कौतूहलेन याऽऽरूढा तस्यास्तुने कुचस्थले ।। परिश्रान्तेव तदृष्टिः स्थिता तत्रैव सा चिरम् ॥ ३२ ॥ पुनस्तथैव मित्रेण क्षणेनोक्तो जजल्प सः । चलामि चेदितः स्थानात् ततो मृत्युभवेन्मम ॥ ३३ ॥ मित्रानन्दो जगादेवं कृत्यात्य विदः सदा । काऽस्यां पाषाणमय्यां ते हन्त रागातिरकता ॥ ३४ ॥ यदि नारीरिएंसा ते ततः प्राप्तः पुरान्तरे । (१) सन-वैव। Page #104 -------------------------------------------------------------------------- ________________ १०४ श्रीशान्तिनाथचरित्रे विधाय भोजनं स्वेच्छां पूरयेस्तामपि क्षणे ॥ ३५ ॥ एवमुक्तेऽपि तेनास्मिंस्तस्याः पार्श्वममुञ्चति । भूरिमन्युभराक्रान्तो मित्रानन्दोऽरुदद्भृशम् ॥ २६ ॥ रुरोदामरदत्तोऽपि स्थानं तत् तु मुमोच न । तावत्तत्रायो श्रेष्ठ प्रासादस्यास्य कारकः ॥ ३७ ॥ रत्नसाराभिधानेन तेनेदं भणिताविमौ । भद्रौ युवां युवतिवत् किं नाम रुदियो वृथा ॥ ३८ ॥ ताततुल्यस्य तस्याग्रे कथयित्वाऽऽदितः कथाम् । मित्रानन्देन मित्रस्य चेष्टितं तत्रिवेदितम् ॥ ३८ ॥ तेनाथ बोधितोऽप्येष रागं पाञ्चालिकागतम् । न यावद्दिजहौ तावत् स सखेदमचिन्तयत् ॥ ४० ॥ अप्यश्मनिर्मितं पुंसां यासां रूपं मनो हरेत् । वनिता विश्वमोहाय मन्ये ता वेधसा कृताः ॥ ४१ ॥ तावन्मौनी यतिर्ज्ञानी सुतपस्वी जितेन्द्रियः । यावत्र योषितां दृष्टिगोचरं याति पूरुषः ॥ ४२ ॥ एवं चिन्तापरः सोऽथ मित्रेण भणितं पुनः । तातास्मिन् सङ्कटे कार्ये क उपायो भविष्यति ॥ ४३ ॥ तस्मिंश्च कञ्चनोपायमपश्यति वणिग्वरे । मित्रानन्देन तमभिप्रोचे बुद्धिमता पुनः ॥ ४४ ॥ तं चेत् सूत्रकृतं 'वेत्सि येनैषाऽकारि पुत्रिका । तदिच्छापूरणोपायमस्य तात ! करोम्यहम् ॥ ४५ ॥ (१) ख ग घ च द वेद्मि । Page #105 -------------------------------------------------------------------------- ________________ द्वतीयः प्रस्तावः । रत्नसारोऽब्रवीत्तर्हि सूरदेवोऽत्र सूत्रवत् । स तु कुङ्कुणदेशान्तःसोपारकपुरऽस्ति भोः ॥ ४६ ॥ अहं निकेतनस्यास्य कारकस्तेन वेद्मादः । शंस त्वमपि मे तावदुपायं स्ववितर्कितम् ॥ ४७ ॥ सोऽवोचत्तात ! मन्मित्रमिदं प्रतिकरोषि चेत् । गत्वा सोपारके सूत्रधारं पृच्छाम्यहं ततः ॥ ४८ ॥ यद्यसौ पुत्रिका तेन स्यात्प्रतिकृतिना कता । ततस्तस्मिन् समानौते सेत्स्यत्यस्य समीहितम् ॥ १८ ॥ श्रेष्ठिना तत्प्रतीकारेऽङ्गीकृतेऽथामरोऽवदत् । श्रोष्यामि यद्यपायं ते तदा यास्यन्ति मेऽसवः ॥ ५० ॥ इतरः स्माह नायामि हिमास्यन्तरहं यदि। तदा त्वयाऽवगन्तव्यं नास्ति मन्मित्रमित्यहो ॥ ५१ ॥ कष्टेन बोधयित्वेनं श्रेष्ठिनाऽनुमतोऽथ सः । अखण्डितप्रयाणोऽगात् सोपारकपुर क्रमात् ॥ ५२ ॥ तत्राङ्गुलीयं विक्रीय गृहीत्वा वसनादि च । ताम्बूलव्याप्तकरः प्रययौ स्थपतेहे ॥ ५३ ॥ सश्रीक इति तेनास्य प्रतिपत्तिः कता मुदा । शुभासनोपविष्टः स पृष्टश्चागमकारणम् ॥ ५४ ॥ भद्र ! देवकुलं रम्यं कारयिष्याम्यहं त्वया। परं प्रतिकृतिः काचिद्दर्यतामिति सोऽब्रवीत् ॥ ५५ ॥ उवाच सूत्रकच्चक्रे प्रासादो मयका किल । पुरे पाटलिपुत्राख्ये स दृष्टो भवता न किम् ॥ ५६ ॥ Page #106 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे अवादीदपरो दृष्टः किं तु पञ्चालिकाऽमुका। प्रतिच्छन्दकता तत्र स्वबुध्या रचिताऽथवा ॥ ५७ ॥ स जगादावन्तिपुया महासेनस्य भूपतेः । सुताया रत्नमञ्जर्याः प्रतिच्छन्देन सा कता ॥ ५८ ॥ पृष्ट्वा सुदिनमेथामीत्युक्त्वा गत्वा पणेऽथ सः । विक्रीय चारुवस्त्राणि व्यधात्पाथेयसूत्रणाम् ॥ ५८ ॥ ततोऽखण्डप्रयाणैः स गच्छन्नुज्जयिनों ययौ । तत्र गोपुरमध्यस्थो देव्या देवकुलेऽवसत् ॥ ६० ॥ अत्रान्तरे स शुश्राव पटहोहोषणामिमाम् । यामिन्याश्चतुरो यामान् यो रक्षेन्मृतकं ह्यदः ॥ ६१ ॥ तस्मै ददाति दौनारसहस्रं वणिगीश्वरः । मित्रानन्देन श्रुत्वेवं पृष्टो दौवारिकस्तदा ॥ ६२ ॥ (युग्मम्) दीयतेऽतिप्रभूतं स्वं भोः कार्य किमियत्यपि । स आचख्यावियं मारीविद्रुताऽस्त्यधुना पुरी ॥ ६३ ॥ अयं मारौकतो यावच्छब: श्रेष्ठिगृहेऽभवत् । तावदस्तमितः सूर्यः प्रतोली पिहिता ह्यसौ ॥ ६४ ॥ समर्थो रक्षितुं कोऽपि न मारोहतमित्यमुम् । ततोऽस्य रक्षण भद्र ! लभ्यते प्रचुरं धनम् ॥ ६५ ॥ कार्याणि धनहीनानां न सिध्यन्ति महीतले । इति मित्रः स्वलाभार्थं शबरक्षां प्रपत्रवान् ॥ ६६ ॥ तस्येप्सितं धनस्याई मर्पयित्वा शबं च तम् । शेष प्रभाते दास्यामीत्युक्त्वाऽगादीखरो रहे ॥ ६७ ॥ Page #107 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । शाकिनीभूतवेतालोपसर्गेषु भवत्स्वपि । रक्षितं तेन तद्रात्रौ मृतकं धोरताजुषा ॥ ६८ ॥ प्रभाते स्वजनैस्तच्च मृतकं भस्मसात्कृतम् । धनं मार्गयतो मित्रानन्दस्य ददिरे न ते ॥ ६८ ॥ सोऽवदद्यदि राजाऽत्र महासेनो भविष्यति । ततो लप्सेा धनमहमित्युक्त्वाऽगमदापणे ॥ ७० ॥ गृहीत्वा चारुवस्त्राणि दोनारैकशतेन सः | विधाय चोह्नटं वेषं वेश्यायाः सदनं ययौ ॥ ७१ ॥ वसन्ततिलकानाम्ना रूपयौवनयुक्तया । १०७ अभ्युत्थानादिसत्कारो विदधे तस्य वेश्यया ॥ ७२ ॥ दत्तानि तेन चत्वारि दीनाराणां शतान्यथ | कुहिन्या हर्षिता सा चादिदेशेति सुतां निजाम् ॥ ७३ ॥ द्रष्टव्यो गौरवेणैष पुत्रप्रदारी नरस्त्वया । श्रादावेव धनं येन ममादायि प्रभूतशः ॥ ७४ ॥ ततः सा स्वयमेवास्य चक्रे स्नानादिसत्क्रियाम् । प्रदोषसमये वासगृहे तस्या ययावसौ ॥ ७५ ॥ धरायाताऽमरीकल्पा कल्पिताऽनल्पभूषणा । तत्र शय्यागते तस्मिन् गणिका सा समाययौ ॥ ७६ ॥ सोऽथ दध्यौ न विषयासक्तानामिह देहिनाम् | नूनं कार्याणि सिध्यन्तोति विचिन्त्याब्रवोच्च ताम् ॥ ७७ ॥ करोमि स्मरणां काञ्चिद् भद्रे ! पट्टं समानय । इत्युक्ते सहसाऽऽनीतः पट्टो हेममयस्तया ॥ ७८ ॥ Page #108 -------------------------------------------------------------------------- ________________ १०८ श्रीशान्तिनाथचरित्र तत्रोपविश्य निविडं कृत्वा पद्मासनं तथा । वस्त्रेणाच्छादयित्वाऽङ्गं सोऽस्थाडुद्धिमतां वरः ॥ ७८ ॥ गतेऽथ प्रथमे यामे रन्तुमभ्यर्थितस्तया। स तु मौनपरस्तस्थौ वृथा ध्यानेन शान्तवत् ॥ ८० ॥ एवं ध्यानपरस्यास्य सकलाऽपि गता निशा । प्रभाते स समुत्थाय देहचिन्ताकृते ययौ ॥ ८१ ॥ सद्भावेऽथ तयाऽऽख्याते पुनः सा भणिताऽक्कया। सर्वथा सेवनीयोऽयं हे पुत्रि ! त्वयका नरः ॥ ८२ ॥ अस्मिंश्च कामिते वित्तं स्थिरमेतद्भविष्यति । अन्यथा भद्रिते शौर्षे तत्प्रसूनमिवास्थिरम् ॥ ८३ ॥ हितीयाऽपि निशा तस्यातिक्रान्तैवं तथाऽपरा । ततस्तं कुटिनी रुष्टा सोपालम्भमदोऽवदत् ॥ ८४ ॥ भद्रेमां मम पुत्रीं त्वं भूपानामतिदुर्लभाम् । विडम्बयसि किं नामानुरक्तामप्यकामयन् ॥ ८५ ॥ सोऽवदत्समये सर्वं करिष्याम्यक ! साध्वहम् । किं तु पृच्छामि राजस्ते प्रवेशोऽस्ति रहे नवा ॥ ८६ ॥ सोवाच वत्स ! मे पुत्री राज्ञश्चमरध यसौ । तेन तस्य गृहे रात्री दिवा चाहमवारिता ॥ ८७ ॥ यद्येवं तस्य तनयामक्क ! त्वं रत्नमञ्जरीम् ।। जानासौत्युदिता तेन सोचे सा मत्सुतासखो ॥ ८८ ॥ (१) द -धा-1 Page #109 -------------------------------------------------------------------------- ________________ हतीयः प्रस्तावः । १०८ मित्रानन्दोऽवदत्तर्हि तदने कथय त्वकम् । भद्रे ! गुणोत्करः पठ्यमानो यस्य श्रुतस्त्वया ॥ ८ ॥ जातानुरागया लेखो यस्य च प्रेषितो मुदा। तस्येहामरदत्तस्याऽऽगतोऽस्ति सुहृदित्यलम् ॥४०॥(युग्म म्) प्रतिश्रुत्याथ तत्कायं सा तस्या अन्तिकं ययौ । तया च दृष्टवदना दृष्टा पृष्टवमब्रवीत् ॥ ११ ॥ अहं हि त्वप्रियोदन्तमद्य तुभ्यं निवेदितुम् । . पागताऽस्मि ततः स्मेरवदना नृपनन्दिनी ॥ १२ ॥ कोऽसौ मम प्रियं इति तयोक्ते सा न्यवेदयत् । वृत्तान्तमखिलं तस्य मित्रानन्दमुखाच्छ्रुतम् ॥ २३ ॥ तच्छ्रुत्वा राजपुत्रेवं दध्यौ धूर्तविजृम्भितम् । सर्वमेतद् यतः कोऽपि वल्लभोऽद्यापि नास्ति मे ॥ ८४ ॥ परं येनेशी कूटरचना विहिता विशा। पश्यामि तमहं दृष्ट्येत्यालोयाका तयोदिता ॥ २५ ॥ गवाक्षणामुना सोऽद्याऽऽनतव्यः पुरुषस्त्वया। . मम प्रियस्य सन्देशवाचको लेखसंयुतः ॥ ८६ ॥ आगत्य निजगहे सा कुटिनी हर्षपूरिता। तदुक्तं कथयामास मित्रानन्दस्य धीमतः ॥ ८७ ॥ निनाय च निशायां तं द्वारे राजगृहस्य सा। प्राकारसप्तदुर्लङ्घयमिदं तस्मै शशंस च ॥ ८ ॥ कन्यावासगृह पृष्ट्वा मित्रोऽथ विससर्ज ताम् । विद्युदुत्क्षिप्तकिरणेनाविशच्च नृपालये ॥ ६ ॥ Page #110 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे प्राकारोल्लङ्घनं तं च कुर्वन्तं वीक्ष्य कुटिनी । महावीरोऽयमित्यन्तनिवृत्ता स्वगृहं ययौ ॥ २०० ॥ मित्रानन्दोऽप्यथाऽऽरूढो राजपुत्रया निकेतनम् । सुष्वाप साऽपि तहौरचर्यामालोक्य कैतवात् ॥ १ ॥ कटकं राजनामाझं स तहस्तादुपाददे । चक्रे क्षुरिकया वीरो दक्षिणोरौ च लक्षणम् ॥ २ ॥ तेनैव विधिना सोऽथ निर्गत्य नृपमन्दिरात् । सुप्तो देवकुले क्वापि दध्यौ चैवं नृपात्मजा ॥ ३ ॥ न सामान्यः पुमानेष चरित्रेणामुना ध्रुवम् । तन्मया न कृतं साधु नायं सम्भाषितो यतः ॥ ४ ॥ अनया चिन्तया रात्रिं गमयित्वा निशात्यये । निद्रामवाप सा बाला स तु वौरनरस्तदा ॥ ५ ॥ उत्थाय हारदेशे च गत्वा भूपतिवेश्मनः । अहो अन्याय इत्युच्चैः पूत्करोति स्म बुद्धिमान् ॥ ६ ॥ राजादिष्टप्रतीहाराकारितो नृपसन्निधौ। गत्वा नत्वा नृपं मित्रानन्दोऽथैवं व्यजिज्ञपत् ॥ ७ ॥ प्रचण्डशासने देव ! त्वयि सत्यपि भूपती। वणिजा परिभूतोऽहमीश्वरेण विदेशगः ॥ ८ ॥ राज्ञा च 'कथमित्युक्तं कथयामास तस्य सः । ट्रव्यलाभावसानां तां शबरक्षणजां कथाम् ॥ ८ ॥ (१) ख घ च ज किमितीत्युक्तः। ग ड ट द कथमित्युक्तः । Page #111 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । १११ ततश्चाज्ञापितो राज्ञा रक्षकस्त्वयकाऽऽशु रे ! । सोऽत्र बध्वा दुराचारो वणिगानीयतामिति ॥ १० ॥ ज्ञातव्यतिकरः सोऽथ स्वयमेत्य नृपान्तिकम् । दोनारानार्पयत्तस्य नृपस्यैवं शशंस च ॥ ११ ॥ तस्मिन् काले मया देव ! शोकाकुलितचेतसा । शबकत्यविहस्तेन दत्तमस्य धनं न हि ॥ १२ ॥ लोकाचारेण दिवसत्रितयं विगतं 'यतः । द्रव्यदानविलम्बेन दोषः को नाम मे प्रभो ! ॥ १३ ॥ निर्दोष इति भूपालो वणिजं विससर्ज तम् । मित्रानन्दं च पप्रच्छ शबरक्षणजां कथाम् ॥ १४ ॥ सोऽवदद्देव ! यद्यस्ति भवतोऽत्र कुतूहलम् । तदैकमानसो भूत्वा शृणु त्वं कथयाम्यहम् ॥ १५ ॥ नन्वहं धनलोभनाङ्गीकृत्य शबरक्षणम् । यावदस्थामप्रमत्तो गृहीत्वा क्षुरिकां करे ॥ १६ ॥ गतेऽथ प्रथमे यामे राराविरभूत्तदा। स्फोटयन्निव ब्रह्माण्ड प्रचण्डः फेरवीरवः ॥ १७ ॥ ज्वलद्दावानलज्वालाजालपिङ्गलरोमकाः । क्षणाच्च परितः स्वस्य शृगालौर्दृष्टवानहम् ॥ १८ ॥ लोबजीवितनाशाभिस्ताभिरक्षुभिते मयि । हितीये प्रहरी रात्रेः प्रादुरासनिशाचराः ॥ १८ ॥ (१) द ततः। Page #112 -------------------------------------------------------------------------- ________________ ११२ श्रीशान्तिनाथचरित्र अतीव भौषणाः कृष्णवर्णाः किलकिलोर्जिताः । मम सत्वसमीरण ते प्रणष्टा घना इव ॥ २० ॥ क गमिष्यसि रे दासेति वदन्त्यः सकर्तिकाः । एत्य नष्टाश्च शाकिन्यस्तृतीयप्रहरे निशः ॥ २१ ॥ चतुर्थप्रहरे राजन् ! अप्सरस्मदृशाकृतिः । दिव्यांशुकाच्छादिताङ्गी नानाभरणभूषिता ॥ २२ ॥ मुक्तकेशा करालास्या ज्वालाभिः कर्तिकाकरा । मम पार्वेऽबला काचिदाययौ भयकारिणी ॥२३॥ (युग्मम्) क्षयं नथामि दुष्टाऽद्य भवन्तमिति वादिनीम् । तां विलोक्य मया राजन् ! सेयं मारीति चिन्तितम् ॥२४॥ ततोऽतिसविधीभूता धृता वामकरे क्षणात् । मया वामकरणै षोत्याटिताऽन्येन शस्त्रिका ॥ २५ ॥ मोटयित्वा मम करं 'बलाद्देव ! चचाल सा । मया क्षुरिकया यान्ती दक्षिणोरी च लक्षिता ॥ २६ ॥ तस्थौ च कटकं तस्या ममैव हि करे प्रभो!। अनान्तरेऽजिनौबन्धुरुदियाय दिवाकरः ॥ २७ ॥ तच्छ्रुत्वा विस्मितो राजा प्रोचे दर्शय तत्कटम् । मारोहस्ताद ग्रहोतं यत् त्वया वीरशिरोमणे ! ॥ २८ ॥ परिधानांशुकग्रन्थिमध्यादाकृष्य तद् द्रुतम् । मित्रानन्दोऽर्पयामास कटकं भूपतेः करे ॥ २८ ॥ (१) स ज त -वो-। (२) ख ट त बनादेव। Page #113 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । वनामाङ्कं च तदृष्ट्वा स दध्यौ किमहो मम । कन्यकेषाभवन्मारी यत्तस्या भूषणं ह्यदः ॥ ३० ॥ देहचिन्ताऽपदेशेन ततश्चोत्थाय भूपतिः । गत्वा च कन्यकापार्श्वे प्रसुप्तां तामलोकयत् ॥ ३१ ॥ दृष्ट्वा वामकरं तस्या गुप्तालङ्करणं तथा । पट्टबन्धं व्रणस्थाने वज्ज्राहत इवाभवत् ॥ ३२ ॥ अचिन्तयच्च वंशो मे चन्द्रमण्डलनिर्मलः । कलङ्कितोऽनया दुष्टकन्यया सर्वथा यतः ॥ ३३ ॥ नृशंसोऽनृताभाषी कुशीलवञ्चलाशयः । स्त्रीजनो जायते यत्र तत्कुलं न हि निर्मलम् ॥ ३४ ॥ न यावन्नगरीलोकं निखिलं मारयत्यसौ । तावत् केनाप्युपायेन कार्योऽस्या एव निग्रहः ॥ ३५ ॥ विचिन्त्यैवं वलित्वा चापृच्छन्मित्रं महीपतिः । भद्र ! किं साहसेनैव मृतकं रक्षितं त्वया ॥ ३६ ॥ अथवा मन्त्रशक्तिस्ते काचिदस्तीति सोऽवदत् । कुल क्रमागतो नाम मम मन्त्रोऽपि विद्यते ॥ ३७ ॥ कृत्वैकान्तमथाचख्यौ राजा यद् भद्र! मे सुता । मारी, नास्त्यत्र सन्देहस्ततोऽस्या निग्रहं कुरु ॥ ३८ ॥ मित्रानन्दोऽवदद्दाक्यं घटते देव! नेदृशम् । यत्कुमारो भवेन्मारी समुत्पन्ना कुले तव ॥ ३८ ॥ (१) ध ज झ -प्तामवलोकयत् । १५ ११३ Page #114 -------------------------------------------------------------------------- ________________ ११४ श्रीशान्तिनाथचरित्रे उवाच भूपतिर्ना' माघटमानं किमत्र भोः ! | मेघवृन्दोद्भवा विद्युद् भवेत् प्राणहरी न किम् ? ॥ ४० ॥ इतरः स्माह यद्येवं तदियं दर्श्यतां मम । यतः साध्यामसाध्यां वा वेद्मि दृष्ट्या विलोक्य ताम् ॥ ४१ ॥ गत्वारै विलोकयेत्युक्तो राज्ञा तत्र जगाम सः | सुप्तोत्थिता कुमारी सा तमायान्तमलोकयत् ॥ ४२ ॥ दध्यौ चैवं नरः सोऽयं येन मे कटकं हृतम् । मन्ये त्वाऽऽज्ञापितो राज्ञा यन्निःशङ्खः समेत्य लम् ॥ ४३ ॥ तया दत्तासने सोऽथोपविश्यैवमवोचत । मया ह्यारोपितं सुम्बु ! कलङ्कं 'सुमहत् तव ॥ ४४ ॥ अर्पयिष्यति भूपालो मम त्वामद्य सुन्दरि ! | ततः स्थानं नयामि स्वं तव चेत् सम्मतं भवेत् ॥ ४५ ॥ नो चेदियत्यपि गते ऽकलङ्कां त्वां करोम्यहम् । त्वया जलाञ्जलिर्भद्रे ! मम देयस्तदा पुनः ॥ ४६ ॥ तच्छ्रुत्वाऽचिन्तयदसौ कन्या तद्गुणरञ्जिता । अहो अकृत्रिमप्रेमा कोऽप्यसौ पुरुषो मयि ॥ ४७ ॥ (१) खघ ज झ म घटते न किमत्र भोः । (२) ङ ञ ट (३) ङ ञ ट ष्टाऽव - | - त्वाऽव - | (४) द शङ्ख । (५) ङ -त्यसौ । (६) ज अ ट द सुमहत्तरम् । Page #115 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । दुःखमप्युररोक्कृत्य श्रयणीयस्ततो मया । सुलभो राज्यलाभोऽपि न तु स्नेहपरो जनः ॥ ४८ ॥ ऊचे च सुभग ! प्राणास्तवाऽऽयत्ता इमे मम । त्वया 'महागमिष्यामि वेत्ति किं न भवानिदम् ॥ ४८ ॥ अन्धो नरपतेश्चित्तं व्याख्यानं महिला जलम् । तत्रैतानि हि गच्छन्ति नोयन्ते यत्र शिक्षितैः ॥ ५० ॥ ज्ञात्वा मनोरथान् सिद्धानिति मित्रो जगाद ताम् । फेत्काराः सर्षपक्षेपे त्वया मोच्या नृपान्तिके ॥ ५१ ॥ उपेत्य च नृपं प्रोचे सा मारो मम सङ्ग्रहे । प्राप्ता ढोकय किं त्वेकं भूपते ! शीघ्रवाहनम् ॥ ५२ ॥ तत्राऽधिरोष्य यामिन्यां त्वद्देशान्तं नयाम्यहम् । उदेष्यत्यन्तरा सूर्यश्वेन्मारी सा तथा स्थिता ॥ ५३ ॥ ततो भीतेन राज्ञाऽस्य ढौकिता वडवा निजा । वायुवेगवती प्राणप्रिया लोकहितैषिणा ॥ ५४ ॥ सन्ध्याकाले च केशेषु ग्टहीत्वा सा समर्पिता । तस्य तेनापि फेत्कारान् मुञ्चतो हक्किताऽसकृत् ॥ ५५ ॥ ततस्तां वडवारूढां पुरस्कृत्य चचाल सः | राजाऽपि गोपुरं यावत् तावन्वित्य गृहं ययौ ॥ ५६ ॥ मित्रानन्दमवादीत्साऽर्वत्यां त्वमपि सुन्दर ! | TS अस्यामारुह किं पादचारेण सति वाहने ॥ ५७ ॥ ( १ ) ट सह गमिष्यामि । (1) ङ अ ण द ग्यमम् । ११५ Page #116 -------------------------------------------------------------------------- ________________ ११६ श्रीशान्तिनाथचरित्रे क्षणमेकमहं पद्भ्यां यास्यामीति वदन्नसौ | तदर्थमर्थितो भूयः सीमां प्राप्तस्तया भृशम् ॥ ५८ ॥ मित्रः प्रोवाच हे सुभ्रु ! नात्मार्थं मयका त्वकम् । अनीता किं तु मित्रस्यामरदत्तस्य हेतवे ॥ ५८ ॥ मित्रव्यतिकरं चास्याः कथयित्वा न्यवेदयत् । न मे युक्तं त्वया साईमेकत्र शयनासनम् ॥ ६० ॥ तच्छ्रुत्वा राजपुत्त्रो सा दध्यौ विस्मितमानसा । अहो अस्य महापुंसश्चरित्रं भुवनोत्तरम् ॥ ६१ ॥ पिता माता सखा भ्राता यदर्थं वञ्चातं नरः । प्राप्ताऽपि कामिनी साऽहं येन नो कामिता सता ॥ ६२ ॥ सर्वोऽपि सहते क्लेशं स्वार्थसिद्धिपरायणः | परार्थसाधने कोऽपि विरलोऽङ्गीकरोति तम् ॥ ६३ ॥ चेतसा चिन्तयत्येवं' स्त्रीरत्नं रत्नमञ्जरी । पार्श्वे पाटलिपुत्रस्य निन्ये मित्रेण सा शनैः ॥ ६४ ॥ इतश्चामरदत्तोऽसौ 'पूर्णे मासद्दयावधी । अनागच्छति मित्रे च रत्नसारमदोऽवदत् ॥ ६५ ॥ तात ! मे नाययौ मित्रं काष्ठैः कारय तच्चिताम् । येन तद्दुःखदग्धोऽहं प्रवेक्ष्यामि हुताशने ॥ ६६ ॥ तच्छ्रुत्वाऽधिकदुःखार्त्तः स श्रेष्ठी पौरसंयुतः । क्रन्दन्नत्याग्रहेणास्य रचयामास तां चिताम् ॥ ६७ ॥ (१) ङ ण द -चिन्तयन्त्ये - । ( २ ) ञण द पूर्णमासद्दयावधिः । Page #117 -------------------------------------------------------------------------- ________________ वतीयः प्रस्तावः । 'वह्नौ पाखं स्थितैः सर्वैर्नागर्भणितोऽथ सः । भद्राद्यापि प्रतीक्षस्व येनेदमवधेर्दिनम् ॥ ६८ ॥ एवमश्रुमुखे तस्मिनिषिद्धमरणे जनैः । अपराह्ने तया साई मित्रस्तत्र समाययौ ॥ ६८ ॥ आगच्छन्तं तमुबौक्ष्यामरदत्तः समभमः । उत्थायाऽऽलिङ्गति स्माशुजलधौतमुखाम्बुजः ॥ ७० ॥ यत्तयोमित्रयोः सौख्यमभून्मिलितयोः किल । तावेव वेदको तस्य नान्यस्तहक्तमीश्वरः ॥ ७१ ॥ मित्रानन्दोऽवदन्मित्र ! तव चित्तस्य चौर्यसौ। आनीताऽस्त्युररीकृत्य मया कष्टपरम्पराम् ॥ ७२ ॥ इतरः स्माह बन्धो ! त्वं सत्यनामा सदैव मे। साधितनामुनाऽर्थेन विशेषेणाभव: पुन: ॥ ७३ ॥ अपनाय्य चितैधांसि स्थाने तताग्निसाक्षिकम् । मित्र: कारयति स्माथ पाणिग्रहणमेतयोः ॥ ७४ ॥ विलोक्य रत्नमञ्जर्या रूपं पौरगणोऽवदत् । तन्नाश्चर्यं यदेषोऽस्याः प्रतिच्छन्देन मोहितः ॥ ७५ ॥ वृत्तोहाहस्य तस्याथाऽमरदत्तस्य तत्र यत्। सञ्जातं भाग्ययुक्तस्य तदितः श्रूयतां जनाः ! ॥ ७६ ॥ तस्मिन्नेव पुरेऽपुत्रो महीपालो व्यपद्यत । चक्रे च राजलोकेन पञ्चदिव्याऽधिवासना ॥ ७७ ॥ (१) ण त वङ्गिपावस्थितैः । ञ द वह्नौ पार्थस्थिते । (२) म अपनीय । Page #118 -------------------------------------------------------------------------- ________________ ११८ श्रीशान्तिनाथचरित्रे भ्रान्वा त्रिकचतुष्कादिस्थानेषु निखिले पुरे । तानि तत्र समाजग्मुः कुमारो यत्र विद्यते ॥ ७८ ॥ हयेन हेषितं द्राक् हस्तिना गुलगुलायितम् । चक्रे तस्योपरि च्छत्रं तस्थौ तत्र स्वयं तथा ॥ ७८ ॥ वीजितं चामराभ्यां च भृङ्गारण विनिर्ममे । महीपत्वा'भिषेकोऽस्य, पुण्यैः किं नाम नो भवेत् ॥ ८ ॥ ततस्तं शुण्डयोत्पाद्य गजः स्कन्धेऽध्यरोहयत् । विवेश नगरे सोऽथ सञ्जातानेकमङ्गलः ॥ ८१ ॥ पुरप्रवेश तस्याथ मिलितो महिलाजनः । राजराज्ञयोः स्वरूपं तं दृष्ट्वाऽन्योऽन्यमदोऽवदत् ॥ ८२ ॥ काचिज्जजल्प राज्ञोऽस्य रूपसम्पद'मुत्तमाम् । पश्य विश्वजनश्लाघ्यां हला ! रतिपरिव ॥ ८३ ॥ अन्याऽवादीत् किमन्यत्त्वं मुग्धे ! वर्णयसि स्फुटम् । देव्याः समानरूपाऽस्या न स्त्री त्रिभुवनेऽपि यत् ॥ ८४ ॥ अपरा स्माह यद्रूपमस्यास्त्रिभुवनोत्तरम् । तदेतत्प्रतिच्छन्देन मोहितोऽयमभूबृपः ॥ ८५ ॥ इतरोचे हला ! पुण्यभागिन्येषा महीतले । यया विश्वजनश्श्रेष्ठो लब्ध एवंविधो धवः ॥ ८६ ॥ 'प्रत्युक्तमन्ययोषाभिर्धन्यो येनेटशी प्रिया। लब्धा विदेशगेनापि लक्ष्मीरिव मुरहिषा ॥ ८७ ॥ (१) ज महीपट्टाभि-। ख ण महीपत्य-। १२) ण रूपसंपद उत्तमाः । (३) ण द प्रत्युतमन्ययैषोऽपि । Page #119 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । कृत्वा गाढोद्यमं येनानीतेयं मृगलोचना । तदस्य भाग्यवन् मित्रं श्लाघ्यमित्यपराऽवदत् ॥ ८८ ॥ जजल्पान्या किमेतं न श्रेष्ठिनं वर्णयस्यलम् । अविज्ञातोऽपि येनायं पुत्रवत् परिपालितः ॥ ८८ ॥ इत्यालापान् पुरन्ध्रीणां शृण्खानः प्रीतमानसः । ययावमरदत्तोऽसौ द्वारे नृपतिवेश्मनः ॥ ८० ॥ स्तम्बेरमात्ममुत्तौय्यं विवेशाऽऽस्थानमण्डपे | उपाविशञ्च तत्रैव नृपमण्डलसेवितः ॥ ८१ ॥ सा रत्नमञ्जरी देवी मित्रानन्दः सुहृत्तथा । निषेदतुर्नृपोपान्ते यथास्थानमथापरे ॥ ८२ ॥ चक्रे राज्याभिषेकोऽस्य सामन्तैर्मन्त्रिभिस्तथा । राज्ञा च विहिता पट्टराज्ञी सा रत्नमञ्जरी ॥ ८३ ॥ चक्रे सर्वाधिकारी च मित्रानन्दो 'महामतिः । स्थापित पितुः स्थाने रत्नसारो वणिग्वरः ॥ ८४ ॥ एवं कृत्वोचितं तेषां कृतज्ञैकशिरोमणिः । अखण्डशासनो राज्यं पालयामास तत्र सः ॥ ८५ ॥ राज्यकार्यरतोऽप्येवं मित्रानन्दः शबोदितम् | तन्मृत्युसूचकं वाक्यं विसस्मार कदापि न ॥ ८६ ॥ एकदा तेन भूपस्य कारणं तन्निवेदितम् । देशान्तरगतिः स्वस्य प्रार्थिता च पुनस्ततः ॥ ८७ ॥ (१) द न्टपेण सः । ११६ Page #120 -------------------------------------------------------------------------- ________________ १२० श्रीशान्तिनाथचरित्रे प्रत्युक्तो भूभुजा सोऽपि मा कार्षीत्वं भयं सखे ! | दुष्टोऽपि स्थियोर कर्ता नौ व्यन्तरः स किम् ? ॥ ८८ ॥ मित्रानन्दोऽवदत् प्रत्यासन्नत्वेन मनो मम । अद्यापि दूयते दूरं तन्मां प्रेषय भूपते ! ॥ ८८ ॥ विचिन्त्योक्त पुना राज्ञा यद्येवं गच्छ तत् सखे ! । नरैः प्रत्ययितैः सार्द्धं वसन्तपुरपत्तनम् ॥ ३०० ॥ अङ्गीकृते तदादेशे विसृष्टोऽसौ महीभुजा । प्रेषिताश्च समं तेन शिक्षां दत्त्वेति पूरुषाः ॥ १ ॥ हंहो ! तत्र गतैः कैश्चिद् युष्मन्मध्यान् ममान्तिकम् । आगन्तव्यमिहैतस्य क्षेमवाती निवेदितुम् ॥ २ ॥ अथ मित्रे गते राजा तद्वियोगार्दितोऽपि सः । पुण्यलब्धां समं देव्या भुङ्क्ते स्म नृपतिश्रियम् ॥ ३ ॥ तेषां मध्यान्नृणां कोऽपि नाऽऽययौ भूभुजा ततः । अन्ये संप्रेषितास्तस्य शुद्धिज्ञानकृते नराः ॥ ४ ॥ प्रत्यागतैश्च तैः पुम्भिः कथितं नृपतेरदः । दृष्टोऽसौ तत्र नाऽस्माभिः वार्ताऽप्यस्य श्रुता न हि ॥ ५ ॥ ततः संभ्रान्तचित्तो राट् देवीमूचे कथं प्रिये ! | कर्तव्यं यन्त्र वार्ताऽपि श्रुता मित्रस्य हा ! मया ॥ ६ ॥ साऽऽख्यद् यद्येति कोऽप्यत्र ज्ञानी तत्तेन विद्यते । सन्देहोऽयं प्राणनाथ ! हन्त नान्येन केनचित् ॥ ७ ॥ उद्यानपाल केनेति विज्ञप्तोऽत्रान्तरे नृपः । देवाऽऽयातोऽस्ति श्रीधर्मघोषसूरिः पुरे तव ॥ ८ ॥ Page #121 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । अशोक तिलकोद्याने प्राशुकस्थण्डिले स्थितः । चतुर्ज्ञानधरो धर्मं लोकानामादिशत्यसौ ॥ ८ ॥ समयाऽऽगमनं तस्व श्रुत्वाऽसौ भक्तितत्परः । ययौ तद्दन्दनाहेतोः सामग्रग्रा प्रेयसीयुतः ॥ १० ॥ खड्गादिराजचिह्नानि मुक्ता गुर्वन्तिकं गतः । नत्वा सपरिवारं तं निषसाद यथास्थिति ॥ ११ ॥ गुरुरूचेऽत्र भोः ! स्वर्गापवर्गादिसुखैषिभिः । नष्टदुष्टाष्टकर्माऽयं कर्तव्यो धर्म एव हि ॥ १२ ॥ अत्रान्तरेऽशोकदत्तः पप्रच्चैवं वणिग्वरः । १२१ भगवन् ! कर्मणा केनाशोक श्रीर्दुहिता मम ॥ १३ ॥ अतीव वेदनाऽऽक्रान्ता सर्वाङ्गेष्वभवत्ततः । चिकित्साच कृतास्तस्या रोगशान्तिर्बभूव न ॥ १४ ॥ ( युग्मम् ) सूरिः प्रोचे भूतशालनगरे श्रेष्ठिनः प्रिया । साऽभवद् भूतदेवस्य नाम्ना कुरुमती पुरा ॥ १५ ॥ पोते सत्यन्यदा दुग्धे मार्जार्या, भणिता तया । स्रुषा देवमती नाम्नो गाढकोपवशादिदम् ॥ १६ ॥ शाकिन्या किं गृहीताऽसीर्यन्नारक्षि पयस्त्वया । साऽपि वृद्दचसा भीतोत्कम्पिताङ्गी बभूव च ॥ १७ ॥ ततः सा दुष्टमातङ्गया शाकिनो मन्त्रयुक्तया । आता 'स्वकर्मकर्येव च्छलं लब्धा झटित्यपि ॥ १८ ॥ (१) ङ ज ट ण स्वकर्मकायैव । १६ Page #122 -------------------------------------------------------------------------- ________________ १२२ श्रीशान्तिनाथचरित्र ततस्तवेदनाक्रान्ता भिषग्भिः सा चिकित्मिता । दोष तथाऽप्यशान्तेऽस्या योगी कोऽपि समाययौ ॥ १८ ॥ मन्त्रवादेऽमुनाऽऽरब्धेऽग्निना यन्त्रे च ताडित । मातङ्गी मुक्तकेशा सा तत्रागाहेदनाऽदिता ॥ २० ॥ 'क्क रहोता त्वयाऽसाविति पृष्टा योगिना पुनः । श्व (दुर्वाक्यभौताङ्गी मयाऽऽत्तेति जगाद सा ॥ २१ ॥ 'नौरोगाऽथ सुषा साऽभूच्छाकिनी सा विनाशिका । योगिनो वचसा तस्य राज्ञा निर्वासिता पुरात् ॥ २२ ॥ कुरुमत्यपि लोकेन कालजिह्वेति जल्पिता। ततः सा संयतीपाखें व्रतं जग्राह भावतः ॥ २३ ॥ विशुद्धं पालयित्वा तन्मृत्वाऽगादमरालयम् । ततश्चुरतयं संजाता श्रेष्ठिस्ते दुहिता सका ॥ २४ ॥ उक्त्वा नालोचितं पूर्वभवे दुर्वाक्यमेतया। यतस्तेनेयमाकाशदेवतादोषदूषिता ॥ २५ ॥ (१) श्रीमाणिक्यचन्द्रसूरिनिर्मिते शान्तिनाथचरित्रे टतोयसर्गे विदित्वा शाकिनीदोष मान्त्रिको यन्त्रमालिखत् ॥ २७८ ॥ कृत्वा समयां सामग्री यावत्तत्ताप्यतेऽम्निना । (२) ज किं । (३) ब द प्रभावाद् योगिनस्तस्य शाकिन्या मा स्नषोभिता । (४) दसापि तहचसा शीघ्रं राज्ञा निर्वासिता पुरात् । न सापि तहचसा राना मुक्ता कृतविलक्षणा। Page #123 -------------------------------------------------------------------------- ________________ हृतीयः प्रस्तावः । तामिहानय कन्यां त्वं श्रुत्वा येन वचो मम । असौ पूर्वभवं जातिस्मरणेन हि पश्यति ॥ २६ ॥ तस्मादुपद्रवादाशु मुच्यते सेति सूरिणा । कथिते श्रेष्ठिना निन्ये सा सद्यस्तत्पदान्तिकम् ॥ २७ ॥ नष्टाः सूरिप्रभावेण खगामिन्यः क्षणेन ताः । श्रुत्वा च चरितं स्वस्य जातिस्मृतिमवाप सा ॥ २८ ॥ जजल्प च प्रभो ! सत्यं यद् युष्माभिर्निवेदितम् । तदलं भववासेन परिव्रज्यां प्रयच्छ मे ॥ २८ ॥ गुरुः प्रोवाच ते भोगफलं कर्मास्ति संप्रति 1 भुक्ते तस्मिन् श्रमणी त्वं भविष्यसि शुभाशये ! ॥ ३० ॥ एवमस्त्विति तच्छ्रेष्ठी प्रतिपद्या'ssययौ गृहम् । तद्दृष्ट्वा चिन्तयामास विस्मितः स महीपतिः ॥ ३१ ॥ अत्यद्भुतं भगवतौ ज्ञानमस्य महीतले । प्रत्यक्षमिव येनोक्तं यद्दत्तं पूर्वजन्मनि ॥ ३२ ॥ पप्रच्छ च प्रभो ! मित्रानन्दस्य सुहृद: कथाम् । ममाप्याख्याहि कृत्वा त्वं प्रसादमतुलं मयि ॥ ३३ ॥ गुरुणोक्तं महाराज ! त्वत्पार्श्वाञ्चलितोऽथ सः । जलदुर्गमतिक्रम्य स्थलदुर्गे ययौ क्रमात् ॥ ३४ ॥ nine गिरिगद प्रपाते तस्थिवानसौ । तदा भोक्तुं निविष्टास्ते सर्वेऽपि तव सेवकाः ॥ ३५ ॥ (१) द - द्य ययौ । १२३ Page #124 -------------------------------------------------------------------------- ________________ १२४ श्रीशान्तिनाथचरित्रे कस्याश्चिद् दैवदुर्योगात् पल्लेमध्यात् समागता। पपात तत्र भिल्लानां धाटी तावदतर्किता ॥ ३६ ॥ सर्वेऽपि पत्तयो भिल्लैः प्रचण्डैस्ते पराजिताः । मित्रानन्दः स एकाको कान्दिशौक: पलायितः ॥ ३७॥ ह्रिया दर्शयितुं वक्त्रमक्षमास्ते पदातयः । केऽपि कापि ययुः पार्वे भवतः कोऽपि नाऽऽययौ ॥३८॥ मित्रो गच्छन्नरण्येऽथ ददशैकं सरोवरम् । तत्र पौत्वा च पानीयं न्यग्रोधस्य तलेऽ स्वपत् ॥ ३८ ॥ ततोऽसौ कृष्णसर्पण निस्मृत्य वटकोटरात् । दष्टो दृष्टश्च तत्रैकेनागतेन तपखिना ॥ ४० ॥ विद्याऽभिमन्त्रितजलाभिषिक्तसकलानकः । करुणाऽऽपत्रचित्तेन तेन जीवापितस्ततः ॥ ४१ ॥ पृष्टश्चैवं त्वमेकाको प्रस्थितोऽसि क्क भद्रक !। तेनापि कथिता वार्ता सत्या तस्य स्वकीयका ॥ ४२ ॥ खस्थानं तापस: सोऽगाद् दध्यौ मित्रोऽपि हा मया। संप्राप्तमपि नो लब्धं सुखेन मरणं किल ॥ ४३ ॥ तन्मित्रसङ्गमस्यापि भ्रष्टोऽहं स्वकदाग्रहात् । अथवाऽद्यापि तत्याखें यामि किं चिन्तयाऽनया ॥ ४४ ॥ ततोऽसौ 'चलितो मार्गे गृहीतस्तस्करैः पुनः । नीत्वा च निजपल्ली तैविक्रीतो वणिगन्ति के ॥ ४५ ॥ (१) घ ण द -स्वपीत् । (२) छ द वलितो-। Page #125 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । सोऽपि पारसकुलाख्ये देशे गन्तुमना वणिक् । उज्जयिन्यां पुरि प्राप्तोऽन्यदाऽवात्सीच्च तद्दहिः ॥ ४६ ॥ तत्र रात्रावसौ मित्रः कथञ्चिद् गतबन्धनः । पुर्या निमनेनान्तः प्रविवेश तदा पुनः ॥ ४७ ॥ तस्करोपद्रुता साऽभूत् ततो राज्ञा नियोजितः । आरक्षको विशेषेण चौरनिग्रह कर्मणि ॥ ४८ ॥ ( युग्मम्) प्रविशेश्वौरवत् तेन मित्रानन्दो निरीक्षितः | बहुच केfकबन्धेन विपरीतविधेर्वशात् ॥ ४८ ॥ यष्टिमुट्यादिभिर्घातैस्ताडयित्वा च निष्ठुरम् । वधार्थं स्वमनुष्याणामारचेण समर्पितः ॥ ५० ॥ अयं सिप्रानदीतीरे वटवृक्षे महीयसि 1 उबध्य वध्यो युष्माभिरिति चाज्ञापिता इमे ॥ ५१ ॥ ततस्तैर्नीयमानोऽसौ मनस्येवं व्यचिन्तयत् । जातं तद्दचनं सत्यं यच्छबेनोदितं पुरा ॥ ५२ ॥ यत्र वा तत्र वा यातु यद्दा तहां करोत्वसौ । तथाऽपि मुच्यते प्राणी न पूर्वकृतकर्मणा ॥ ५३ ॥ विभवो निर्धनत्वं च बन्धनं मरणं तथा । यत्र यस्य यदा लभ्यं तस्य तत्र तदा भवेत् ॥ ५४ ॥ याति दूरमसौ जोवोऽपायस्थानाद्भयद्रुतः । तत्रैवाऽऽनीयते भूयोऽहमिव प्रौढकर्मणा ॥ ५५ ॥ मा कार्षीः कोपमेतेषु रे जीव ! वधकेष्वपि । यदीच्छसि परत्रापि सुखलेशं त्वमात्मनः ॥ ५६ ॥ S १० * חה १२५ Page #126 -------------------------------------------------------------------------- ________________ १२६ श्रीशान्तिनाथचरित्रे एवं विचिन्तयत्रेष तेरारक्षकपूरुषः । तत्रtest वटे नीत्वाऽपराधरहितोऽप्यहो ! ॥ ५७ ॥ अन्यदा रममाणानां गोपानां दैवयोगतः । उत्त्योतिकाऽविचत् मुखे तस्यापि पूर्ववत् ॥ ५८ ॥ तत् सूरिवदनाच्छ्रुत्वाऽमरदत्तो महीपतिः । स्मारं स्मारं गुणग्रामं तस्यैवं व्यलपन्मुहुः ॥ ५८ ॥ हा मित्र ! निर्मलखान्त ! हा परोपकृतौ रत ! | हा प्रशस्यगुणव्रात ! हा भ्रातः ! क्व गतोऽसि हा ! ॥ ६० ॥ देवी च विललापैवं हा देवर ! सखिप्रिय ! | सुविचार ! गुणाधार ! निर्विकार ! क तिष्ठसि ॥ ६१ ॥ यदाऽहं भवताऽऽनीता तदाऽनेके विनिर्मिताः । उपायाः स्वविपत्तौ ते क्व गता हा महामते ! ॥ ६२ ॥ उवाच सप्रियं भूपं विलपन्तमदो गुरुः । शोकं मा कुरु राजेन्द्र ! भवभावं विभावय ॥ ६३ ॥ न चतुर्गतिकेऽप्यस्मिन् संसारे परमार्थतः । सौख्यं शरीरिणामस्ति किन्तु दुःखं निरन्तरम् ॥ ६४ ॥ स कोऽपि नास्ति संसारे मृत्युना यो न पीडितः । सिमार्गममुं ज्ञात्वा कः शोकं कुरुते सुधीः ॥ ६५ ॥ शोकाऽऽवेशं परित्यज्य राजन् ! धर्मोद्यमं कुरु । येनेदृशानां दुःखानां भाजनं नोपजायसे ॥ ६६ ॥ राज्ञा प्रोचे करिष्यामि धर्मं मे कथ्यतां परम् । मित्रानन्दस्य जीवोऽसौ कुत्रोत्पन्नो मुनीश्वर ! ॥ ६७ ॥ Page #127 -------------------------------------------------------------------------- ________________ हतीयः प्रस्तावः । १२७ सूरिः प्रोवाच ते देव्याः सोऽस्याः कुक्षौ समागतः । सुतत्वेन यतस्तेन भावना भाविता तदा ॥ ६८ ॥ जातः कमलगुप्ताख्यस्तव पुत्रः सुविक्रमः। पूर्व कुमारतां प्राप्य क्रमाद्राजा भविष्यति ॥ ६८ ॥ पुनः पप्रच्छ भूपाल: कथं तस्य महात्मनः । जाता निरागसोऽप्येवं तस्करस्येव पञ्चता ॥ ७० ॥ कलशसम्भवो देव्याः कथं वा समभूत् प्रभो!। मम बन्धुवियोगश्चाबाल्यादण्यभवत् कथम् ॥ ७१ ॥ नेहोऽधिकतरीऽस्माकं कथं वा भगवन् ! वद । इति पृष्टो मुनीन्द्रस्तु ज्ञात्वा ज्ञानेन सोऽवदत् ॥ ७२ ॥ इतो भवात् टतीये त्वं भवे क्षेमङ्कराभिधः । आसीः कौटुम्बिको राजन् ! सत्यश्रीस्तस्य गेहिनी ॥ ७३ ॥ चण्डसेनाभिध: कर्मकरः कर्मक्रियापटुः । बभूव च तयोर्भक्तोऽनुरतो विनयान्वितः ॥ ७४ ॥ तत्क्षेत्रे सोऽन्यदा कर्म कुर्वाणः कञ्चनाध्वगम् । परक्षेत्रे धान्यशम्बा' रहन्तं समलोकयत् ॥ ७५ ॥ ऊचे चैनमहो चौरमुल्लम्बय तराविति । न क्षेत्रवामिना तस्य विदधे किञ्चनापि तु ॥ ७६ ॥ दूनस्तहचसा सोऽथाध्वगः कर्मकताऽपि तत् । बद्धं क्रुधा चेष्टितेन कर्म दुर्वाक्यसम्भवम् ॥ ७७ ॥ (१) ञण द -सिङ्गा। Page #128 -------------------------------------------------------------------------- ________________ १२८ श्रीशान्तिनाथचरित्र वध्वाः सत्यश्रियस्तस्था भुञ्जानाया रहेऽन्यदा । उत्तालायाः कथमपि कवलो व्यलगद गले ॥ ७८ ॥ सोचे सत्यश्रिया पापे ! निशाचरि ! न भुञ्जमे । कवलेलघुभिः किं त्वं यथा नो विलगेगले ॥ ७० ॥ अन्येद्युः कर्मकृत् सोऽथ स्वामिनोक्तो यथाऽद्य भोः ! । ग्रामेऽमुभिन् प्रयाहीति कारणेनामुना त्वकम् ॥ ८० ॥ सोऽवदद् व्याकुलोऽद्याहं बन्धूनां मिलनेन हि । कुपितेन च तेनोक्तं स्वजना मा मिलन्तु ते ॥ ८१ ॥ अत्रान्तरे मुनिहन्दं गृहे तस्य समागतम् । दानमस्मै प्रदेहीति भणिता चामुना प्रिया ॥ ८२ ॥ सुपात्रमिति हर्षेण तया तत्प्रतिलाभितम् । प्राशभक्तपानाद्यैरकताकारितैस्तथा ॥ ८३ ॥ दयो कर्मकरोऽप्येतो धन्यो याभ्यां महामुनी। काले निजग्टहायातौ भक्तितः प्रतिलाभितौ ॥ ८४ ॥ अत्रान्तरेऽपतत् तेषां त्रयाणामुपरि क्षणात् । क्षणिका तेन पञ्चत्वं सममेव गता हि ते ॥ ८५ ॥ सौधर्मकल्ये देवत्वं प्राप्ताश्च प्रीतिनिर्भराः । ततः क्षेमकरश्चयत्वा त्वमभूर्जगतीपते ! ॥ ८६ ॥ जीव: सत्यश्रियः सेयं सञ्जाता रत्नमञ्जरी। जीवः कर्मकरस्याभूत् मित्रानन्दः सखा तव ॥ ८७ ॥ बद्धं यद् येन दुष्कर्म वचसा पूर्वजन्मनि । तत्तस्योपस्थितं राजन् ! युष्माकमिह जन्मनि ॥ ८८ ॥ Page #129 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । ततः पूर्वभवे राजन् ! यसद्भिर्निबध्यते 1 'रुदद्भिर्वेद्यतेऽवश्यं तत्कर्मेह शरोरिभिः ॥ ८ ॥ तन्निशम्य महोपोऽसौ मुमूर्च्छ प्रियया सह । तत्पूर्वविहितं सर्वं जातिस्मृत्या विवेद 'स: ॥ ८० ॥ ऊचे च यत्प्रभो ! प्रोक्तं युष्माभिर्ज्ञानभास्करैः । तज्जातिस्मरणेनाभूत् प्रत्यक्षमधुनाऽपि मे ॥ ८१ ॥ तदेतस्यामवस्थायां विद्यते यस्य योग्यता । क्कृत्वा प्रसादं युष्माभिः स धर्मो मम कथ्यताम् ॥ ८२ ॥ गुरुः प्रोवाच सज्जाते तनये ते महीपते ! । प्रव्रज्या भवितेदानीं गृहिधर्मस्तवोचितः ॥ ८३ ॥ ततो द्वादशभेदेन गृहिधर्मो विवेकिना । प्रपन्नोऽमरदत्तेन भूभुजा प्रियया सह ॥ ८४ ॥ पुनः पप्रच्छ भूपालो यत्तदा तेन जल्पितम् | मृतकेन तदाख्याहि कारणं विस्मयोऽत्र मे ॥ ८५ ॥ गुरुणोक्तमसौ पान्यः शम्बाग्राही महोपते ! | 'मृत्वा भ्रान्त्वा भवं तत्र वटेऽभूद् व्यन्तरः क्रमात् ॥ ८६ ॥ मित्रानन्दं समुद्दोक्ष्य स्मृत्वा वैरं च तत्कृतम् । अवतीर्य्य शबस्यास्ये तेन तज्जल्पितं वचः ॥ ८७ ॥ (१) घ ङ ज थ रटङ्गि । (२) ङ ट ग थ द च । छ ण द सिङ्गा- । द विपद्य व्यन्तरो जज्ञे वटे तस्मिन् खकर्मणा । १७ १२८ (३) (४) Page #130 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे इत्थं विच्छिन्नसन्देहोऽमरदत्तो महीपतिः । सूरिं नत्वा स्वसदनमाययौ सपरिग्रहः ॥ ८ ॥ अज्ञानमोहितप्राणिप्रतिबोधविधौ रतः । धर्मघोषमुनीन्द्रोऽपि विजहार महीतले ॥ ८ ॥ समये रत्नमञ्जर्या देव्याः मूनुरजायत । तदेव समभूत् तस्य नाम यद् गुरुणोदितम् ॥ ४०० । धात्रीभिः पालितः सोऽथ समतिक्रान्तशैशवः । समधीतकलो विश्वम्भराधारक्षमोऽभवत् ॥ १ ॥ स एव सुगुरुस्तत्र पुनरन्येाराऽऽययौ । उद्यानपालकस्तस्याऽऽगतिं राजे शशंस च ॥ २ ॥ निवेश्य तनयं राज्ये ततोऽसौ प्रियया सह । गुरूणामन्तिके तेषां परिव्रज्यामुपाददे ॥ ३ ॥ राज्ञः सपरिवारस्य दत्त्वा दोक्षामथो गुरुः । तस्याऽन्येषां च बोधार्थ शिक्षामेवंविधां ददौ ॥ ४ ॥ भवाम्भोधिपतजन्तुनिस्तारणतरी क्षमा । कथञ्चित् पुण्ययोगेन प्रव्रज्या प्राप्यतेऽङ्गिभिः ॥ ५ ॥ प्रव्रज्या प्रतिपद्यापि स्युर्य के विषयैषिणः । जिनरक्षितवद् घोरे ते पतन्ति भवार्णवे ॥ ६ ॥ स्युर्यके निरपेक्षास्तु विषयेष्वर्थिता अपि । जिनपालितवत्तेऽत्र भवन्ति सुखभाजिनः ॥ ७ ॥ पृष्टो राजर्षिणा तेन ततः कथयति स्म सः । सूरिः सिद्धान्तकथितां भविष्यन्ती तयोः कथाम् ॥ ८ ॥ Page #131 -------------------------------------------------------------------------- ________________ १३१ तृतीयः प्रस्तावः । चम्पापुयीं प्रसिद्धायां जितशत्रुरभूवृपः । बभूव धारिणी नाम्नी तप्रिया रूपशालिनी ॥ ८ ॥ अभवत्तत्र माकन्दी नाम्ना श्रेष्ठी महाधनः । प्रशान्तः सरलस्त्यागी बन्धुकरवचन्द्रमाः ॥ १० ॥ 'भद्रा नाम्नी च तद्भार्या तत्सती क्रमजावुभौ। जिनपालितनामाऽऽद्यो हितोयो जिनरक्षित: ॥ ११ ॥ यानमारुह्य कुर्वयां परदेशे गताऽऽगतम् । वारानकादशामूभ्यां निस्तीर्ण: सरितां पति: ॥ १२ ॥ अर्जितं हि धनं भूरि ततस्तावतिलोभत: । गन्तुकामौ पुनस्तत्रापृच्छतां पितरं निजम् ॥ १३ ॥ (१) ट थ सद्धर्म कर्मनिपुणो गुरौ देवे च भक्तिमान् । दानशीलतपोभावधर्म करोत्यनारतम् ॥ ११ ॥ भद्रा नाम्नी च तद्भार्या रूपलावण्यसंयुता। सतीत्वं पालयन्ती मा विनयादिगुणान्विता ॥ १२ ॥ तत्कक्षिसम्भवौ शान्तौ तनयो क्रमजावुभौ । इत्येवं पाठः । (२) ञ ण द तत्पत्रौ। (३) इतिश्लोकानन्तरं ट व पुस्तके विद्याविनयसौन्दर्यलावण्यादिगुणाञ्चितौ। शैशवाद् यौवनं प्राप्तौ पित्रा तौ परिणायितौ ॥ १४ ॥ हिसप्ततिकलायुक्तो द्रव्योपार्जनतत्परौ। स्वदेशे परदेशे च यातायातौ सदैव तौ ॥ १५ ॥ इत्येवं पाठः । Page #132 -------------------------------------------------------------------------- ________________ १३२ श्रीशान्तिनाथचरित्रे सोऽवदद् विद्यतेऽग्रेऽपि 'हे वत्सौ ! प्रचुरं धनम् । निजेच्छया त्यागभोगौ तेनैव कुरुतं युवाम् ॥ १४ ॥ इयं च द्वादशी वेला भवेत् सोपद्रवाऽप्यसौ । ततो न युज्यते वार्डों प्रयातुमिति मे मतिः ॥ १५ ॥ अथ तावूचतुस्तात ! मा वादीरोदृशं वचः । भाविन्येषाऽपि नौयात्रा नेमेण त्वत्प्रसादतः ॥ १६ ॥ ततस्तेन विसृष्टौ तावत्याग्रहपरायणौ । क्रयाणकं जग्टहतुणिमादि चतुर्विधम् ॥ १७ ॥ सामग्रीं सकलां कृत्वा जलादीनां च संग्रहम् । यानमारुह्य चार्णोधौ ततः प्रविशतः स्म तौ ॥ १८ ॥ तयोर्महासमुद्रान्तर्गतयोरभवत् क्षणात् । अकालदुर्दिनं व्योम्नि जगर्ज च बलाहकः ॥ १८ ॥ विलला सासद् विद्युदूर्मयश्च जजृम्भिरे । वातश्च प्रबलो जज्ञे यानं तेन ननर्त तत् ॥ २० ॥ स्फुटितं च चणादेव विधुरेऽधीरचित्तवत् । विपन्नस्तद्गतो लोकस्तौ यानाधिपती पुनः ॥ २१ ॥ लब्धा फलहकं किञ्चित् तद् गाढं परिरभ्य च । तोरमासेदत् रत्नद्दोपस्य दिवसैस्त्रिभिः || २२ || ( युग्मम्) | नालिकेरीफलैस्तत्र प्राण्यात्रां विधाय तौ 1 तत्तैलाभ्यङ्गयोगेन रूढदेहौ बभूवतुः ॥ २३ ॥ (१) छ झ ट थ तनयौ । Page #133 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । ततस्तत्त्राऽऽययौ रत्नद्दोपदे' वोति देवता । नृशंसा निर्घृणा पाणौ कृपाणं बिभ्रती शितम् ॥ २४ ॥ ऊचे चैवमहो साईं मया विषयसेवनाम् । १३३ चेद् युवां कुरुथः प्राणकुशलं वां ततो भवेत् ॥ २५ ॥ अन्यथाऽनेन खतेन शिरश्छेत्स्यामि निश्चितम् । इत्युक्ते भयभीताङ्गौ तावप्येवं जजल्पतुः ॥ २६ ॥ भिन्नप्रवहणावावां देवि ! त्वां शरणाऽऽश्रितौ । यदादिसि कचित्त्वं कर्तास्वस्तदसंशयम् ॥ २७ ॥ प्रासादमात्मनो नीत्वा तौ ततः प्रीतमानसा | अपजह्रे तयोरङ्गात् पुद्गलानशुभानसौ ॥ २८ ॥ बुभुजेऽथ समं ताभ्यां खैरं वैषयिकं सुखम् । ताभ्यां सुधाफलाहारं ददौ च प्रतिवासरम् ॥ २८ ॥ एवं च तस्थुषोर्यावद् गताः कत्यपि वासराः । तयोस्तत्रान्यदा तावत् तयैवं भणिताविमौ ॥ ३० ॥ सुस्थितेनाऽहमादिष्टाऽधिष्ठात्रा लवणोदधेः । यथा त्रिः सप्तक्कत्वस्त्वं भद्रे ! शोधय वारिधिम् ॥ ३१ ॥ तृणकाष्ठाशुचिप्रायं भवेद् यत् तत्र किञ्चन । सर्वं नीत्वा तदेकान्ते परित्याज्यं ममाज्ञया ॥ ३२ ॥ ततस्तत्र मया गम्यं युवामत्रैव तिष्ठतम् । कुर्वन्तौ सत्फलैरेभिः प्राणवृत्तिं शुभाशयौ ॥ ३३॥ (१) च देव्यधिदेवता । Page #134 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र कथञ्चिदिजनत्वाहां यद्यत्रोत्पद्यतेऽरतिः । पूर्व दिग्वनखण्डे तगन्तव्यमपशशितम् ॥ ३४ ॥ सर्वदाऽवस्थितौ तत्र ग्रीष्मप्राइटसुसंनिती। उभातू विनोदाय युवयोरपि भाविनी ॥ ३५ ॥ न चेत् तत्राऽपि वां चित्तं रमेत कथमप्यहो। तदोत्तरवनखण्डे गन्तव्यं हि ममाजया ॥ ३६ ॥ तत्राप्यवस्थितौ नित्यं शरद्देमन्तनामको। भविष्यत ऋतू नाम स्वाधीनौ युवयोरपि ॥ ३० ॥ तत्रापि नो रतिश्चे हां तत्प्रतीचौवनान्तरे । गम्यं तनाऽपि शिशिरवसन्ताख्यातू स्थिरौ ॥ ३८ ॥ तत: प्रासाद एवाऽत्राऽऽगम्यमौत्सुक्यसम्भवे । दक्षिणस्था वनेऽमुमिन् गन्तव्यं न कथञ्चन ॥ ३८ ॥ यतस्तत्रासितच्छायो भुग्नकायो द्दिजिह्वकः । अस्ति दृष्टीविषः सर्पो वेणीभूतोऽवनिस्त्रियः ॥ ४० ॥ एवमुक्त्वा ययावेषा माकन्दितनयौ च तौ। वनखण्डनये तस्मिन् गच्छतः स्म पुरोदिते ॥ ४१ ॥ अथाचिन्तयतां चैवं दक्षिणस्या दिशो वने । पौन:पुन्येन गच्छन्ती तयाऽऽवां वारिती कथम् ॥ ४२ ॥ चिन्तयित्वेति साशको 'यावत्तौ तत्र गच्छतः । प्रविवेश तयोस्तावद् घ्राणे गन्धः सुदुःसहः ॥ ४३ ॥ (१) ग यावत्तौ दक्षिणां गतौ। ज द यावत्तले यतस्तको। Page #135 -------------------------------------------------------------------------- ________________ बतीयः प्रस्तावः। १३५ स्थगयित्वोत्तरीयेण नासारन्ध्र ततश्च तौ। .. राशिं नरकरशाणां वने तस्मिन्नपश्यताम् ॥ ४४ ॥ भयभीतौ विशेषणाऽऽलोकयन्तावदो वनम् । नरमेकं च तो प्रेक्षाञ्चक्राते शूलिकागतम् ॥ ४५ ॥ जीवन्तं विलपन्तं च दृष्ट्वा पपृच्छतुश्च तम् । कस्त्वं भद्र ! कथं वा तेऽवस्थेयं के त्वमी शवाः ॥ ४६ ॥ सोऽप्यवोचत 'कायन्दीपुर्वास्तव्योऽस्म्यहं वणिक् । भग्नं वारिनिधी यानं वाणिज्येनाऽऽगतस्य मे ॥ ४७ ॥ ततचहागतो रत्नहोपदेव्याऽभिकामितः । स्तोकापराधेिऽप्यन्येद्युस्तयैवं निहितोऽस्माहम् ॥ ४८ ॥ तयैवं विहताश्चैतेऽनया प्रक्रियया शवाः । तद् युवां कुत आयाती प्राप्तौ चास्या रहे कथम् ॥ ४८ ॥ ततस्तावात्मनो वार्ता निवेद्य तमपृच्छताम् । भद्र ! नौ जीवनोपायः कोऽम्यस्त्येवं स्थिते सति ॥ ५० ॥ सोऽवदच्छेलको नाम्ना यक्ष: पूर्ववनेऽस्ति भोः ! । सोऽश्वरूपधरः पर्वदिनेष्वेवं प्रजल्पति ॥ ५१ ॥ कं रक्षामि नरं कं वा विपदं तारयाम्यहम् । तद् गत्वा यक्षराजं तं भक्त्याऽऽराधयतं युवाम् ॥ ५२ ॥ (१) ङज, काकन्दीपुर्या वास्तव्योऽहं वणिक | ज ञ ट ठ ढ ण त थ द, कायन्दीपुर्यश्वानामहं वणिक । च, कायन्दीपुर्यस्त्यस्यामहं वणिक् । (२) ङ ञ ण इतचे(३) ण निहता Page #136 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे उद्दोषणायां जातायामावां रक्षेति जल्पतम् । इति शिक्षा तयोर्दत्त्वा स नरः संस्थितस्ततः ॥ ५३ ॥ पूजयामासतः पुष्पैर्यक्षं गत्वा च तत्र तौ। आवां निस्तारयेत्याशु तदुत्तौ च जजल्पतुः ॥ ५४ ॥ उवाच शैलको निस्तारयिष्यामि युवामहम् । एकं त्ववहितो भूत्वा वाक्यं संशृणुतं मम ॥ ५५ ॥ युवयोर्गच्छतोः पृष्ठे देवता सा समेष्यति । सानुरागसकामानि जल्पिश्यति वचांस्यपि ॥ ५६ ॥ अनुरागं ततस्तस्यां युवा यदि करिष्यथः । ततश्चोल्लालयित्वाऽहं प्रक्षेप्यामि महोदधौ ॥ ५७ ॥ यदि वा निरपेक्षौ हि तस्यां ननु भविष्यथः । तत: क्षेमेण चम्पायां प्रापयिष्यामि निश्चितम् ॥ ५८ ॥ ॥ किं बहुना ॥ संमाननं न दृध्याऽपि तस्याः कार्य कथञ्चन । न भत्तव्यं भयं तस्यां दर्शयन्त्यामपि स्फुटम् ॥ ५८ ॥ व्यवस्थयाऽनया खं भोः ! शक्ती निर्वाहितुं यदि। तन्ममाऽऽरुहतं पृष्ठं शीघ्रं येन नयाम्यहम् ॥ ६ ॥ ततस्तत्पृष्ठमारूढौ तावङ्गीकृत्य तद्दचः । उत्पत्य नभसा सोऽपि ययौ मध्येमहोदधेः ॥ ६१ ॥ अत्रान्तरे च देवी साऽपश्यन्ती तौ स्ववेश्मनि । बभ्राम वनखण्डेषु तत्राऽप्येतो ददर्श न ॥ ६२ ॥ Page #137 -------------------------------------------------------------------------- ________________ हतीयः प्रस्तावः । ततो ज्ञानोपयोगेन ज्ञात्वा तहमनं तयोः । दधावे खगमादाय पृष्ठे कोपपराऽसको ॥ ६३ ॥ दृष्ट्वा च तावुवाचैवं रे ! किं याथो विमुच्य माम् । पुनरागच्छतं वस्य जीवितं वाञ्छतो यदि ॥ ६४ ॥ नोचेदनेन खड्नेन पातयिष्यामि वां शिरः । तयेत्युक्तेऽथ यक्षेण भणितौ ताविदं पुनः ॥ ६५ ॥ मम पृष्ठे स्थितावस्या मा भैष्टं भोः ! कथञ्चन | इति संधौरितावेतौ स्थिरचित्तौ बभूवतुः ॥ ६६ ॥ ततोऽनुकूलवाक्यानि जजल्यैवमसौ यथा । मां मुक्काकिनी दीनां क्क प्रियौ प्रस्थितौ युवाम् ॥ ६७ ॥ इत्यादिदीनवचनैस्तया भणितयोरपि । न चचाल तयोश्चित्तं यक्षावष्टम्भशालिनोः ॥ ६८ ॥ ततोऽसौ भेदनिष्णाता प्रत्यूचे जिनरक्षितम् । मम प्रियो विशेषण त्वमेवासि. महाशय ! ॥ ६८ ॥ ईक्षणाऽऽलापसंमानक्रियासाम्येऽपि देहिनाम् । चित्ताबादकरं प्रेम कस्मिंश्चिदपि जायते ॥ ७० ॥ एवं ममाऽपि कुर्वत्या युवाभ्यां सह सङ्गतिम् । जिनरक्षित ! सद्भावे स्नेहस्त्वय्येव निश्चलः ॥ ७१ ॥ तदेहि देहि हे कान्त ! ममैकान्तरते: सुखम् । अन्यथाऽहं मरिथामि त्ववियोगरुजाऽदिता ॥ ७२ ॥ नाथानाथां नियमाणां दृष्ट्या मां किं न वीक्षसे । ददाति रागिणी प्राणानित्यर्थे संशयो नु किम् ॥ ७३ ॥ Page #138 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे सकूटमोहितः सोऽथ तत् सत्यमिति चिन्तयन् । दृष्ट्याऽऽलोकयते स्मास्था दुर्गतेरिव संमुखम् ॥ ७४ ॥ यक्षेणोल्लालयित्वाऽथ क्षिप्तः सोऽथ खपृष्ठतः । तया नौरमसंप्राप्तस्त्रिशूलेन प्रतीच्छितः ॥ ७५ ॥ लभस्व पाप ! रे सद्यो मम वञ्चनजं फलम् । इत्युदित्वा च खड्नेन खण्डयित्वा निपातितः ॥ ७६ ॥ ततश्च कूटकपटरचनानाटिका नटी। प्रत्याययितुमारेभे चाटुभिर्जिनपालितम् ॥ ७७ ॥ यक्षेण भणितः सोऽथ यद्यस्या वचने रुचिः । भविष्यति गतिस्तत्ते कनिष्ठस्येव निश्चितम् ॥ ७८ ॥ जातो निश्चलचित्तोऽसौ तं कूटमवधूय तत् । क्षेमेण सह यक्षेण प्राप्तः चम्पापुरौं निजाम् ॥ ७ ॥ कलिता व्यन्तरी साऽथ यक्षोऽपि वलितः सकः । क्षामितः कृतकृत्येन श्रेष्ठिपुत्रेण भक्तितः ॥ ८० ॥ गेहे गत्वा खलोकस्य मिलितो जिनपालितः । कथयामास तहन्धुमरणं शोकसङ्गुलम् ॥ ८१ ॥ मृतकार्याणि तस्याऽथ माकन्दी वजनान्वितः । विधाय पालयामास रहवासं सुतश्च सः ॥ ८२ ॥ अन्यदा समवासार्षीत् तत्र वीरजिनेश्वरः । तं नन्तुं जग्मतुश्चैतौ माकन्दिजिनपालितौ ॥ ३ ॥ (१) ङ च छ शोकसंकुलः। Page #139 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । श्रुत्वा तदन्तिके धर्मं प्रतिबुद्धौ महाशयौ । जातव्रतपरीणामौ जिनं नत्वेयतुर्गृहम् ॥ ८४ ॥ पौत्रे भारं कुटुम्बस्य विन्यस्य सुतसंयुतः । स श्रेष्ठ परिवव्राज श्रीवीर जिनसन्निधौ ॥ ८५ ॥ पित्रा समन्वितः सोऽथ जिनपालितसंयुतः । स्वकार्यसाधको जन्मे तपः कृत्वा सुदुश्चरम् ॥ ८६ ॥ कथयित्वा कथामेतां धर्मघोषमुनीश्वरः । राजर्षेरमरस्योपनयं कथयति स्म सः ॥ ८७ ॥ यथा तौ वणिजौ तद्ददु जीवाः संसारिणोऽखिलाः रत्नstपदेवतेवाऽविरतिः परिकीर्तिता ॥ ८८ ॥ तथाऽविरतिजं दुःखं यथाऽस्याः शबसञ्चयः । शूलागतनरो यद्दद् हितभाषी गुरुस्तथा ॥ ८८ ॥ यथा तेन तत्स्वरूपमनुभूतं निवेदितम् । तथैवाविरतेर्दुःखं गुरुराख्याति देहिनाम् ॥ ८० ॥ यथाऽसौ शैलको यक्षस्तारक: संयमस्तथा । समुद्र इव संसारस्तरणीयोऽमुना ध्रुवम् ॥ ८१ ॥ यथा तस्या वशीभूतो विनष्टो जिनरक्षितः | तथैवाऽविर ते जन्तुर्वशीभूतो विनश्यति ॥ ८२ ॥ देवतोक्तिनिराकाङ्क्षी यक्षादेशमखण्डयन् । क्षेमेण स्वपुरं प्राप्तो यथाऽसौ जिनपालितः ॥ ८३ ॥ विरतोऽविरतेस्तद्दच्चारित्रमविराधयन् । निष्कर्मा जायते प्राणी निर्वाणसुखभाजनम् ॥ ८४ ॥ १३८ Page #140 -------------------------------------------------------------------------- ________________ १४० श्रीशान्तिनाथचरित्रे तद् भोः ! प्रपद्य श्रामण्यं पुनर्भोगेषु नो मनः । कर्त्तव्यमिति सन्दिष्टे गुरुणा मुमुदे मुनिः ॥ ८५ ॥ समर्पिता प्रवर्तिन्यास्त तोऽसौ रत्नमञ्जरी। कत्वोदारं तपस्तौ द्वौ संप्राप्तौ परमं पदम् ॥ ८६ ॥ ॥ इति मित्रानन्दामरदत्तकथानकं समाप्तम् ॥ स्वयंप्रभमुनेर्धर्मोपदेशमतिपावनम् । श्रुत्वैवं प्रतिबुद्धोऽसौ राजा स्तिमितसागरः ॥ ८७ ॥ अनन्तवीर्य भूपत्वे, कुमारत्वेऽपरं सुतम् । विन्यस्यास्य मुनेः पार्खे स दीक्षां समुपाददे ॥ ८ ॥ विराध्य मनसा किञ्चित् सोऽन्तकालेऽनगारताम् । मृत्वाऽधो भुवने जज्ञे चमरेन्द्रोऽसुराऽधिपः ॥ ८ ॥ इतोऽपराजितानन्तवीर्ययोविभुताजुषोः । विद्याधरण केनाऽपि मैत्री सममजायत ॥ ५०० ॥ दत्ता विद्यास्तेन ताभ्यां विहायोगमनक्षमाः । सर्वा तत्साधनोपायसामग्री च निवेदिता ॥ १ ॥ बर्बरीति चिलातीति गीतनाट्यकलाविदौ । तयोर्बभूवतुर्दास्यौ विनोदास्पदमद्भुतम् ॥ २ ॥ अन्यदा स्थानमासीनी सन्नाव्य क्रियया तयोः । अभूतां व्याकुलौ यावत् तौ बन्धू रङ्गनिर्भरौ ॥ ३ ॥ तावत् तत्र ब्रह्मधारी खेच्छाचारी कलिप्रियः । सम्यग्दर्शनपुण्यात्मा नारदर्षिरुपाययौ ॥ ४ ॥ Page #141 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । १४१ नासावभ्यस्थितस्ताभ्यामाक्षिप्ताभ्यां ततश्च सः । रुष्टो व्यचिन्तयदिमौ चेटीनाव्येन मोहितौ ॥ ५ ॥ वित्तो मामपि नायातं ततोऽमू चेटिके ध्रुवम् । . महामात्रे कलापात्रे हारयिष्यामि केनचित् ॥६॥ (युग्मम्) विद्याधराधिराजस्य त्रिखण्ड विजयेशितुः । प्रतिविष्णोर्दमितारः सकाशे स ययौ ततः ॥ ७ ॥ अभ्युत्थानादिसत्कारं कृत्वाऽसावासनस्थितम् । पप्रच्छ तं मुनिं दृष्टं पृथिव्यां किञ्चिदद्भुतम् ॥ ८ ॥ सोऽवदच्छृणु राजेन्द्र ! सुभगायाः पुरो विभोः । अनन्तवीर्यभूपस्य समीपे गतवानहम् ॥ ८ ॥ 'तर्बरिचिलात्याख्यचेव्यो व्यक्रिया वरा । मयाऽवलोकिता तत्र विश्वविस्मयकारिणी ॥ १० ॥ किं विद्याभिः प्रचण्डाभिः किं राज्येन किमाजया । ते विना तत्र भूपति गदित्वा नारदो ययौ ॥ ११ ॥ तेनाऽथ प्रेषितो दूतः स गत्वा तत्र सत्वरम् । इदमूचे तयोरग्रे खखामिबलगर्वितः ॥ १२ ॥ हंहो भवन्ति रत्नानि राजगामौनि निश्चितम् । चेट्यौ नाट्यविधायिन्यौ तदेते अर्पतां प्रभोः ॥ १३ ॥ (१) द म्यर्चित-। (२) त ठ तरिचिलात्याख्ये चेयौ नायक्रियावरे। मया विलोकिते तत्र विश्वविस्मयकारिके ॥ १० ॥ Page #142 -------------------------------------------------------------------------- ________________ १४२ श्रीशान्तिनाथचरित्र तावेवमूचतुर्भद्र ! युक्तं त्वं ननु जल्पसि । पालोयैतत् करिथावो याहि त्वं स्वामिनोऽन्तिके ॥ १४ ॥ दूतं विसृज्य तावेवं मन्त्रयांचक्रतुर्यथा । विद्याबलेन नौ तावत् करोत्येष पराभवम् ॥ १५ ॥ आवामपि ततो विद्याः साधयित्वा स्वचित्तगाः । दर्पमस्य हरियाव इति चिन्तयतोस्तयोः ॥ १६ ॥ पूर्वजन्मसाधितास्ताः स्वयमेवोपस्थिरे । शंसित्वा सिद्धमात्मानं विविशश्च तदन्तिके ॥ १७॥(युग्मम्) जातौ विद्याधरौ तौ हौ तत्प्रभावान्महोजसौ। विद्यानां चक्रतुश्चाची गन्धमाल्यादिवस्तुभिः ॥ १८ ॥ अत्रान्तरे पुनतः प्राप्तस्तस्य महीपतेः । जजल्पवमहो मृत्योरतिथौ किं भविष्यथः ॥ १८ ॥ येन नाद्याऽपि चेव्यौ ते कृते प्रेषयथः प्रभोः । तावूचतुश्च कर्तव्यमवश्यं खामिनो हितम् ॥ २० ॥ ततस्तदुहितुः वर्णश्रियो लोभन तावुभौ । चेव्यो रूपं तयोः कृत्वा जग्मतुस्तत्पुरे द्रुतम् ॥ २१ ॥ कलाकौशलमालोक्य भणितौ तौ महीभुजा। युवाभ्यां करणीयो हि विनोदः कनकश्रियः ॥ २२ ॥ यथौतुर्दुग्धरक्षायां क्षुद्दान् सिद्धानरक्षण । हृष्टो भवेत् तथाऽभूतां तदादेश नृपस्य तौ ॥ २३ ॥ सा कामरहिणीरूपा दृष्टा ताभ्यां सुकन्यका । सर्वोपमादलोधैर्या विधिनेव विनिर्मिता ॥ २४ ॥ Page #143 -------------------------------------------------------------------------- ________________ हतीयः प्रस्तावः। १४३ आभाषि भावमधुरैः परिहासमनोहरैः । देशीभाषासगर्भेश्च प्रियालापैः ससंभ्रमम् ॥ २५ ॥ पप्रच्छ साऽथ तत्याखेंऽनन्तवीर्यस्वरूपताम् । . ततोऽपराजितोऽशंसत् तदने तद्गुणानिति ॥ २६ ॥ रूपचातुर्यगाम्भीर्यवौर्यौदार्यादिसद्गुणाः । शक्या ह्यनन्तवीर्यस्य शंसितुं नैकजिह्वया ॥ २७ ॥ (युग्मम्) किच कुटिलः सरलाङ्गेन विश्रुतिः श्रुतिशालिना। शेषोऽपि निर्जितो येन क्षमाद बिभ्रता क्षमाम् ॥ २८ ॥ सञ्जातरोमहर्षी तां दृष्ट्वा पुनरभाषत । यद्यस्ति कौतुकं तत्ते दर्शयाम्यधुनैव तम् ॥ २८ ॥ आमेति तकया प्रोक्त तावभूतां वरूपिणी। दृष्ट्वा जगाद सा चाहं युभदाज्ञाकरी खलु ॥ ३० ॥ विष्णुः प्रोवाच यद्येवमेहि यामो निजां पुरीम् । जजल्प सा च मत्तातो विधाता वां पराभवम् ॥ ३१ ॥ " भणिता सा ततस्ताभ्यां भेतव्यं न हि सर्वथा । आवयोः समरे नैष पुरः स्थातुं क्षणं क्षमः ॥ ३२ ॥ A ङ ज ढ ण द पुस्तकेषु भूयान् पाठभेद एषः भणिता सा ततस्ताभ्यां भेतव्यं सुध ! न त्वया। आवां त्वज्जनकं जेतुं शक्नौ सबलवाहनम् ॥ ३२ ॥ Page #144 -------------------------------------------------------------------------- ________________ १४४ . श्रीशान्तिनाथचरित्र तयोरिति वचः श्रुत्वा प्रेमपागनियन्त्रिता । विस्मिता रूप'सूर्याभ्यामाभ्यां सह चचाल सा ॥ ३३ ॥ विमानं विद्यया कृत्वा समारुह्य नभःस्थितः । उवाचानन्तवीर्योऽथ दमितारिं सदःस्थितम् ॥ ३४ ॥ भो भोः ! सामन्तमन्ववाद्याः ! सेनाध्यक्षाः ! नृपस्य ये । शृण्वन्त्वपहरबस्मि सुतां युष्मत्पतेरिमाम् ॥ ३५ ॥ न वाच्यं तेन भावेन शहोताऽस्माकमजानताम् । इत्युही-नन्तवीर्यो नभोऽगात् सपरिग्रहः ॥ २६ ॥ तदाकर्ण्य ज्वलत्कोपकरालः प्रतिकेशवः । रे रे ! गृहीत ग्टहीत दुरात्मानममुं जवात् ॥ ३७ ॥ (१) छ झ ट त, रूपशौर्याभ्यां । (२) झ हृतामा-। ठ -नाग्राह्याऽ-। ततः सा प्रस्थिताऽनन्तवोर्येणैवमथोदितम् । सर्वे टणुत भो लोकाः ! दमितारिश भूपतिः ॥ ३३ ॥ अनन्तवीर्यनामाऽहं निजवाहसमन्वितः। सहसा हरामि कनकत्रियं स्नेहवतीमिमाम् ॥ ३४ ॥ विद्याविनिर्मितविमानाऽधिरूढौ ततश्च तौ। नभसा गन्तुमारब्धौ तां ग्टहीत्वा पात्मजाम् ॥ ३५ ॥ दमितारिन्टपेणाऽथ प्रेषिताः सुभटा निजाः। तदोत्पन्नास्वरत्नाभ्यां सुभटास्ते पराजिताः ॥ ३६ ॥ दमितारिः स्वयं सोऽथ महाबलसमन्वितः । हन्तुमेतावधाविष्ट दुष्टो दृष्टाधरः क्रधा ॥ ३७॥ * ज ण द ताभ्यां सद्यः पराजिताः । Page #145 -------------------------------------------------------------------------- ________________ १४५ १४५ टतीयः प्रस्तावः । खेचरा हुं प्रकुर्वन्तः क्व गमिष्यसि दुर्मते ! । अन्वधावन् गृहीतास्त्रा मृगाररिव जम्बुकाः ॥ ३८ ॥ एतान् विद्रावयामास टण्यां वायुः क्षणादिव । विष्णुस्तांश्च तथा दृष्ट्वा दमितारिरथाचलत् ॥ ३८ ॥ कल्पान्त इव पाथोधिर्बलोमिकुलसङ्घलः । गनाखपत्तिग्राहाक्तस्तहिरावधनध्वनिः ॥ ४० ॥ तमायान्तमथालोक्य भोरं भयसमाकुलाम् । आखास्य रचयामास नाशकारि रिपोबलम् ॥ ४१ ॥ तयोर्नासीरवीराणां प्रतिकेशवशाङ्गिणोः । कलिः कलकलारावसङ्कुलः समभूत् तदा ॥ ४२ ॥ (१) छ झ, -पाहोय-। कृतान्तमिव संकुलं समायान्तं विलोक्य तम् । बिभाय कनकत्रीः सा ताभ्यां चाश्वासिता पुनः ॥ ३८ ॥ संग्रामे संमुखीनौ तावित्युक्तौ दमितारिणा । भो ! भोः ! समर्प्य मे पुत्री जीवन्तौ गच्छतं युवाम् ॥ ३९ ॥ लभेतां मा पतङ्गत्वं मम कोपड़ताशने । तावचतुश्च याहि त्वं मा म्रियख मुधैव रे ! ॥ ४० ॥ ततोऽपराजितानन्तवीर्ययोः समुपस्थितम् । चतरङ्गबलं ताभिर्विद्याभिर्विहितं क्षणात् ॥ ४ ॥ क्षणमेकमथो युद्धमुभयोः सैन्ययोरभूत् । विश्वस्य विस्मयोऽधायि विद्याजनितमायया ॥ ४२ ॥ १६ Page #146 -------------------------------------------------------------------------- ________________ १४६ श्रीशान्तिनाथचरित्रे प्रत्यनीक भटैर्भग्नं वीक्ष्य सैन्यं निजं हरिः । किञ्चिचिन्तावशो जज्ञे रत्नान्युत्पेदिरे तदा ॥ ४३ ॥ बनमाला गदा खड्गो मणिः शङ्खो धनुस्तथा । प्रत्यर्द्धचक्रिणश्चक्रं सप्तमं तद् भविष्यति ॥ ४४॥ पाञ्चजन्यमथादायानन्तवीर्यो महौजसा । दध्मौ ध्वानेन तस्याशु शत्रुसैन्यं मुमूर्च्छ च ॥ ४५ ॥ बलमुत्साहवत् जातं निजं विष्णोस्तदाऽखिलम् । सर्वाभिसारतस्तावद् डुढौके दमितार्यपि ॥ ४६ ॥ संवर्ग्य रथमारुह्य शस्त्राण्यादाय भूरिशः | उत्तस्थौ केशवचापि तथैब पराजितः ॥ ४७ ॥ उपशान्ते ततस्तस्मिन् दमितारिर्महाभुजः । युध्यते स्म समं ताभ्यां दिव्यास्त्रैस्तिमिरादिभिः ॥ ४३ ॥ तानि शस्त्राणि तस्याशु प्रतिशस्त्रैर्महाभुजौ । निर्भाग्यस्थेप्सितानीव विफलीचक्रतुस्तकौ ॥ ४४ ॥ जातसर्वास्त्रकैफल्यो दमितारिरमर्षणः । दध्यौ हा धिक् कथमहं शत्रुणाऽनेन निर्जितः ॥ ४५ ॥ विफलत्वं यथा जग्मुर्दिव्यास्त्राण्यखिलान्यपि । भविता चक्रमध्ये*वं प्रतिहन्तुं तथैव किम् ॥ ४६ ॥ किं वा प्रनष्टमेवेदं नायात्यद्यापि यत् करे । इति चिन्तापरस्यास्य हस्ते तच्छीघ्रमाययौ ॥ ४७ ॥ द चक्रमयेतं । Page #147 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । २४७ वहन्ति चासृजां नद्यो मौलिपङ्कजभीषणाः । नृत्यन्ति च कबन्धानि रणरङ्गावनौ तदा ॥ ४८ ॥ दमितारिप्रयुक्तानि शस्त्राण्यपि क्षणात् पुनः । सर्वाण्यनाशयत् शार्हो नवोदयवशात् तदा ॥ ४ ॥ दोपयन्तं दिशश्चक्रं स्मृतमानमुपागतम् । मुक्तमेतेन तुम्बेनाहत्य तस्थो करे हरेः ॥ ५० ॥ तदादाय जगौ विष्णुर्भुव राज्यं नियख मा । कनकीपितेति त्वं मया मुक्तः प्रयाहि भोः ! ॥ ५१ ॥ सोऽवोचन्मय का मुक्तं यथा मोघमभूदिदम् । तथा त्वया विनिर्मुक्तमपि भावौति मे मतिः ॥ ५२ ॥ अथवा मण्डलाग्रेण तच्चक्रं त्वां च घातकम् । अनेन खण्डयिष्यामीत्युक्त्वाऽधावत सोऽम्बरे ॥ ५३ ॥ खड्गखेटकभृत् स्वस्याभिमुखं च समापतन् । अनन्तवीर्यमुक्तेन चक्रेणाशु. निपातितः ॥ ५४ ॥ तत् तेन मुक्नमागत्यानन्तवीर्यस्य वक्षमि । विशाले लगति मोरुनामिना न तु धारया ॥ ४८ ॥ क्षणमेकमसौ भvीं लेभे घातेन तस्य च* । तस्थावस्यैव सविधे भेदिना ऽन्येन भेदितम् ॥ ४ ॥ ततोऽसौ तत् समादाय दमितारिमदोऽवदत् । अरे ! त्वं निजचक्रेण मन्मुक्तेन मरिष्यसि ॥ ५० ॥ * अ ण, तत् । * ज ण ह, भेदनीत्येव भेदितम् । Page #148 -------------------------------------------------------------------------- ________________ १४८ श्रीशान्तिनाथचरित्रे ततश्चानन्तवीर्यस्योपरि पुष्यभरोऽम्बरात् । विमुक्तो व्यन्तरैरेवं प्रजल्पद्भिः प्रमोदतः ॥ ५५ ॥ संजातो वासुदेवोऽयं विजयाईपतिबली। द्वितीयो बलदेवश्च तच्चिरं जयतामिमौ ॥ ५६ ॥ विद्याधरभटास्तेऽथानन्तवीर्यं समाश्रिताः । कृतप्रणामास्तेनापि सर्वे संमानिता इमे ॥ ५७ ॥ ततोऽपराजितानन्तवीर्यो विद्याधरान्वितो। रम्यं विमानमारूढी चेलतुः स्वपुरौं प्रति ॥ ५८ ॥ कनकाद्रावथ प्राप्तौ प्रोनौ विद्याधरैरिमौ। सन्त्यत्र जिनचैत्यानि युज्यन्ते तानि वन्दितुम् ॥ ५८ ॥ ततोऽवतीयं चैत्यानि वन्दित्वा तानि भक्तितः। तत्रावलोकितस्ताभ्यां मुनिः कीर्तिधराभिधः ॥ ६० ॥ वर्षोपवासतपसोत्पत्रकेवलचक्षुषः । तस्यर्षेश्चरणावती नेमतुः परया मुदा ॥ ६१ ॥ उपविश्य धरापीठे हर्षोदञ्चितविग्रहौ। इति शुश्रुवतु'श्चास्य विशुद्धां धर्मदेशनाम् ॥ ६२ ॥ तद्यथा मिथ्यात्वमविरतिश्च कषाया दुःखदायिनः । प्रमादा दुष्टयोगाश्च पञ्चैते बन्धकारणम् ॥ ६३ ॥ यद् देवत्वमदेवेषु गुरुत्वमगुरौ तथा । अतत्त्वे तत्त्वबुद्धिश्च तन्मिथ्यात्वं प्रकीर्तितम् ॥ ६४ ॥ (१) घ च ज ठ -श्चोभो। Page #149 -------------------------------------------------------------------------- ________________ तृतीय: प्रस्तावः । यत्त्र कर्मसु पापेषु न स्तोकमपि वर्जनम् । जानोथोऽविरतिं तां हि सर्वदुःखनिबन्धिनीम् ॥ ६५ ॥ कोपो मानश्च माया च लोभश्चेति निवेदिताः । मूलं संसारवासस्य कषाया जिनशासने ॥ ६६ ॥ चान्तेर्विपर्ययः कोपो मानोऽमार्दवसंज्ञितः । मायाऽऽर्जवस्य वैरूप्यं लोभो मुक्तेर्विपर्ययः ॥ ६७ ॥ मदिरा विषयाश्चैव निद्राश्च विकथास्तथा । प्रमादाः कथिताः पञ्च कषायसहिता इमे ॥ ६८ ॥ काष्ठपिष्टादिनिष्पन्ना कथिता मदिरा द्विधा । शब्दरूपरसगन्धस्पर्शाख्या विषयास्तथा ॥ ६८ ॥ निद्रा च निद्रानिद्रा च तृतीया प्रचलाऽभिधा । प्रचलाप्रचला तुर्या स्त्यानईिः पञ्चमो भवेत् ॥ ७० ॥ 'सुखबोधा भवेनिद्रा दुःखबोधाऽतिनिद्रिका । प्रचला संनिविष्टस्य चतुर्थी गच्छतो भवेत् ॥ ७१ ॥ दिनचिन्तितकार्यस्य साधनी पञ्चमो 'पुन: । सा तूदये भवेज्जन्तोरतिसंक्लिष्टकर्मणः ॥ ७२ ॥ स्त्रीकथा भक्तवार्ता च राजदेशकथा तथा । चतस्रो विकथा एता वर्जनीया विवेकिना ॥ ७३ ॥ (१) घ ङ च ज झा, सुखबोधो भवेन्निद्रा दुःखबोधोऽति- । (२) घ च ज झ भवेत् । १४८ Page #150 -------------------------------------------------------------------------- ________________ श्रौशान्तिनाथचरित्रे मनोवचनकायाख्यास्त्रयो योगा: प्रकीर्तिताः । अप्रशस्ता भवन्त्येते कर्मबन्धस्य हेतवः ॥ ७४ ॥ सर्वमेतत् परित्यज्य पापकर्मनिबन्धनम् । विदधीत मतिं धर्मे भव्यो मुक्तिसुखप्रदे ॥ ७५ ॥ अत्रान्तरे कनकधीः सा पप्रच्छेति तं मुनिम् । अभूइन्धुवियोगो मे पितुर्मृत्युश्च किं प्रभो ! ॥ ७६ ॥ ततः कीर्तिधरणोक्तं तद् भद्रे ! शृणु कारणम् । येन बन्धुवियोगादि तव दुःखमभूदितः ॥ ७७ ॥ अस्त्यत्र धातकीखण्डे होपे प्राग्भरते पुरम् । नाना शङ्खपुरं भूरिधनधान्यसमाकुलम् ॥ ७८ ॥ काचिदुच्छिन्नसन्ताना श्रीदत्ता नाम दुर्गता। तत्राभूदबला कर्मकरणावाप्तजीवना ॥ ७ ॥ पौडिता दुर्गतत्वेन निशम्य मुनिसबिधौ। चकार साऽन्यदा धर्मचक्रवालाभिधं तपः ॥ ८० ॥ विरात्रहितयं तत्र प्रथमं क्रियते तपः ।। सप्तत्रिंशञ्चतुर्थानि शत्याऽऽर्चा गुरुदेवयोः ॥ ८१ ॥ ददौ तस्यै जन: सर्व: संप्रीत: पारणाहनि। मनोज्ञभक्ष्यभोज्यादि तपो हि महितं जने ॥ ८२ ॥ (१) घ च म -नां त्रियोगाश्च । ज -नां त्रयो । (२) ख घ च ज झ -दिति । (३) ख घ च ज झ द -भोज्यानि । Page #151 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । तपोगुणरतेत्यस्यै कर्मणोऽन्ते महेभ्यकाः । 'हिगुणां त्रिगुणां वृत्तिं ददिरे वसनानि च ॥ ८३ ॥ जाता सकिञ्चना किञ्चिदन्येद्युर्निजवेश्मनः । कुडयैकदेशात् पतितात् साऽवाप धनसञ्चयम् ॥ ८४॥ उद्यापनं च तपसः प्रारंभे कर्तुमन्यदा । १५१ पूजां जिनेन्द्रबिम्बानां विधिनाऽ कारयत् ततः ॥ ८५ ॥ साधर्मिकगणे भक्त्या भोजितेऽस्या गृहाङ्गणे । मासोपवासी सत्साधुः सुव्रतः समुपाययौ ॥ ८६ ॥ परप्रमोदपूर्णाज्या तयाऽसौ प्रतिलाभितः । प्राशुकैर्भक्तपानाद्यैर्भावसारं च वन्दितः ॥ ८७ ॥ धर्मं दृष्टप्रभावा सा पप्रच्छाथ तदन्तिके । सोऽवदत् साम्प्रतं धर्मदेशना न हि साम्प्रतम् ॥ ८८ ॥ यदि ते धर्मशुश्रूषा ततः काल उपाश्रये । आगत्य विधिना भद्रे ! श्रव्यो धर्मः सविस्तरः ॥ ८८ ॥ इत्युक्त्वा स्वाऽऽश्रयं गत्वा रागादिरहितोऽथ सः । विधिना पारणं चक्रे स्वाध्यायं च ततः क्षणम् ॥ ८० ॥ पुरलोकस्तदा तत्र श्रीदत्ता च समाययौ । प्रणम्य मुनिवर्यं तं तत्पुरो निषसाद च ॥ ८१ ॥ (१) ख ग घ च ज झ द्विगुणप्राज्यभोज्यानि । (२) ख घ च ज झ कामितप्रदाम् । (३) ख ग घ झ दृष्टफलं हृष्टा । च ज दृष्ट्वा फलं हृष्टा सा पप्रच्छ । Page #152 -------------------------------------------------------------------------- ________________ १५२ श्रीशान्तिनाथचरित्रे धर्मलाभाऽऽशिषं दत्त्वा स मुनिधर्मदेशनाम् । विदध प्रतिबोधार्थ श्रीदत्ताया जनस्य च ॥ २ ॥ तद्यथा धर्मादर्थस्तथा कामो धर्मान्मोक्षोऽपि जायते । चतुवर्गे ततस्तस्य मुख्यता परिकीर्तिता ॥ १३ ॥ अयमर्थोऽपरोऽनर्थ इति निश्चयशालिना । भावनीया अस्थिमज्जा धर्मेणैव विवेकिना ॥ २४ ॥ श्रीदत्ता स्माह भगवनस्थिमज्जाऽधिवासना । अमूर्तेन हि धर्मेण कथशारं विधीयते ॥ १५ ॥ ततोऽसौ सुव्रतः साधुस्तस्याः पौरजनस्य च । दृष्टान्तं कथयामासेसितार्थस्य निवेदकम् ॥ ८६ ॥ आसीदुज्जयिनीपुयां जितशत्रुमहीपतिः। तप्रिया धारिणी नानी नरसिंहश्च तत्सुतः ॥ ७ ॥ कलाकलापसम्पूर्ण: सोऽथ संप्राप्तयौवनः । रम्या द्वात्रिंशतं कन्यास्तातेन परिणायितः ॥ १८ ॥ शरत्कालेऽन्यदा तत्र पुरेऽरण्यात् समाययो। करी कश्चित् मदोन्मत्तः शङ्खखेतो नगोबतः ॥ ८ ॥ कतान्तमिव तं क्रुई जनविप्लवकारिणम् । करिणं कथयामास पुमान् कोऽपि महीपतेः ॥ ६०० ॥ तेनाथ प्रेषितं सैन्यं दैन्यं भेज पुरोऽस्य तत् । स्वयमेव महीपालश्चचाल सबलस्ततः ॥ १ ॥ Page #153 -------------------------------------------------------------------------- ________________ aate: प्रस्तावः । नरसिंहकुमारोऽथ विनिवार्य्यं महीपतिम् । दमनार्थमिभस्यास्य प्राचलत्सेनया सह ॥ २ ॥ दीर्घो नव करान् सप्तोन्नतञ्च त्रींश्च विस्तृतः । दीर्घदन्तकरतुच्छपुच्छो मधुपिशङ्गदृक् ॥ ३ ॥ चत्वारिंशत्समधिकैर्लक्षणानां चतुःशतैः अलङ्कृतः करोन्द्रोऽयं कुमारेण निरीक्षितः ॥ ४ ॥ ( युग्मम् ) अभियानापसरणप्रपातोत्पतनादिभिः । 1 बहुधा खेदयित्वा तं वशमानयति स्म सः ॥ ५ ॥ तस्मिन्त्रैरावणाकारेऽधिरूढं मेनिरे जनाः । कुमारमद्भुत श्रीकं साचादिव शचीपतिम् ॥ ६ ॥ तं गजेन्द्रमथालाने नीत्वा कलयति स्म सः । समुत्तीर्य्य ततस्तस्य स्वयं नीराजनां व्यधात् ॥ ७ ॥ जनकस्य समीपेऽथ स ययौ विनयाञ्चितः । विदधे जनकोऽप्यस्य परिरम्भादिगौरवम् ॥ ८ ॥ दध्यौ च जगतीभारक्षमोऽयमभवत् सुतः । तदेनं भूपतिं कृत्वा युज्यते मेऽनगारता ॥ ८ ॥ ततस्तं मन्त्रिसामन्तपौरलोकस्य संमतम् । स्वपदे स्थापयामास सुमुहर्ते महीपतिः ॥ १० ॥ जयन्धरगुरोः पार्श्वे सोऽथ दीक्षामुपाददे । न्यायेन पालयामास नरसिंहनृपः 'क्षमाम् ॥ ११ ॥ (१) ख घ च ज झ चितिम् । १५.३ Page #154 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र अन्येचुर्दस्युनैकेनातिप्रचण्डेन मायिना। अग्रोणालक्षितेन मुष्थते स्म पुरी सका ॥ १२ ॥ महाजनेन विज्ञप्ते तस्मिन्नर्थे महीभुजा। आरक्षकः समादिष्टचौरनिग्रहहेतवे ॥ १३ ॥ पुनर्विज्ञापयामासान्येद्युभूपं महाजनः । मुषिता निखिला देव ! तस्करेण पुरी तव ॥ १४ ॥ सुरूपा यौवनस्था च या काचि'दबलाऽभवत् । साऽपि रात्रौ तस्करेण नीयते स्म बलादपि ॥ १५ ॥ बासस्थानं ततोऽस्माकं किञ्चिदन्यत् प्रदर्शय । निवसामी वयं तत्र नृनाथ ! निरुपद्रवाः ॥ १६ ॥ ततश्चारक्षको राज्ञा क्रुद्धेनैवं प्रजल्पितः । रे खं रहून् ! विना रक्षामधमर्णोऽसि 'किं मम ? ॥१७॥ महाजनेन भणितं दोषो नास्त्यस्य कश्चन । अमुना सबलेनापि चौरो धर्तुं न शक्यते ॥ १८ ॥ तथा मया विधातव्यं यथा भव्यं भविष्यति । इत्युदित्वा नरेन्द्रेण विसृष्टोऽथ महाजन: ॥ १८ ॥ वण्ठवेषो नृपो रात्री नित्य निजमन्दिरात् । शङ्कास्थानेषु बभ्राम कुवंश्चौरगवेषणम् ॥ २० ॥ रात्रौ भ्रान्तः पुरोमध्ये बहिष्णुर्या दिवा पुनः । तथाऽपि क्वापि नो दृष्टः स दुष्टस्तस्करोऽमुना ॥ २१ ॥ - (१) ख घ च ज झ -दबला भवेत् । (३) च ज किञ्चन। Page #155 -------------------------------------------------------------------------- ________________ द्वतीयः प्रस्तावः । १५५ सायं मार्गरजःकोर्णस्तरुमूलस्थितो नृपः। कषायवस्त्रमायान्तं ददर्शकं 'त्रिदण्डिकम् ॥ २२ ॥ खसमीपे समायान्तं ननाम स महीपतिः । कुत: स्थानादागतोऽसोत्याऽऽललाप स कोऽपि तम् ॥ २३ ॥ राजा प्रोवाच द्रव्यार्थी पथिको भगववहम् । भ्रान्तोऽस्मि बहुदेशेषु विभवं क्वापि नाऽऽनुवम् ॥ २४ ॥ तदा विदण्डिकस्तूचे ये देशा वीक्षितास्त्वया । तेषां खरूपमाख्याहि नामग्राहमहो मम ॥ २५ ॥ भूपतिः स्माऽऽह चतुरशीतिसङ्ख्या हि नोहतः । खरूपमपि केषाञ्चिच्छृणु त्वं कथयाम्यहम् ॥ २६ ॥ यत्रैकवसना नार्यः प्रायो लोकः प्रियंवदः । केशो नैवोचते बालो लाटदेशः स वीक्षितः ॥ २७ ॥ सुदीर्घचिहुरा मञ्जुरावाः कम्बलचीवराः । यत्र रामाः स सौराष्ट्रनामा राष्ट्रो मयेक्षितः ॥ २८ ॥ बालिकेरीकदलीनां फलं शालिश्च भोजने । नागवल्लीदलं यत्र स दृष्टः कुगुणो मया ॥ २८ ॥ शचिवेषाः प्रियाऽऽलापा यत्र लोका विवेकिनः । वैदग्धौरुचिरो देशो मया दृष्टः स पूर्जरः ॥ ३० ॥ यत्रकभक्तिकं वस्त्रमस्त्रं सर्वतॄणां करे। भाषाऽतिपरुषा दृष्टः स देशो मारुकाऽऽवयः ॥ ३१ ॥ (१) ऊठ बिदण्डिनम् । (२) ङ -रवाः । (३) घ च सौराष्ट्रो नाम । (४) ख घ वस्त्रं शवं। Page #156 -------------------------------------------------------------------------- ________________ १५६ श्रीशान्तिनाथचरित्रे यवेक्षवो वौहयश्च जायते च कृषित्रयम् । सर्वसाधारणो लोको मध्यदेश: स वीक्षितः ॥ ३२ ॥ गोधूमाः प्रचुरा यत्र दुष्पापं लवणं तथा। सजलः सकलोऽप्येष मालवोऽपि निरीक्षितः ॥ ३३ ॥ त्रिदण्डिवेषभृच्चौरः स श्रुत्वैवं व्यचिन्तयत् । अयं हि पथिकोऽवश्यं द्रव्यार्थी सदृशो मम ॥ ३४ ॥ बभाष च मम त्वं चेद भणितं भोः ! करिष्यसि । तन्मनोवाञ्छितं द्रव्यमचिरात् समवाप्सासि ॥ ३५ ॥ नृपः 'प्रोवाच यो द्रव्यं ददाति हृदयेप्सितम् । न केवलमहं तस्य सर्वोऽप्याज्ञाकरो जनः ॥ ३६ ॥ सोऽवदत् सांप्रतं तहिं वर्तते भोः ! तमखिनी। पारदारिकदस्चूनां दुष्टानां च प्रियङ्करी ॥ ३७॥ तदुत्तिष्ठ कपाणं त्वं करे कुरु, यथा पुरे। प्रविश्याऽऽनीयते द्रव्यं कुतोऽपोखरमन्दिरात् ॥ ३८ ॥ राजाऽपि चिन्तयामास नूनमेष स तस्करः । तदेनं हन्मि वा पश्याम्यथो यदिदधात्य सौ ॥ ३८ ॥ ततः खङ्ग चकर्षासौ दध्यौ संवीक्ष्य योग्यपि । ईदृशेनैव खड्नेन नगरीशो विभाव्यते ॥ ४० ॥ (१) घ च ज द प्रोचे च । (२) च -लम्। (३) ख घ च ज ठ तं वीच्य। Page #157 -------------------------------------------------------------------------- ________________ हतीयः प्रस्तावः । १५७ १५७ तन्मया मारणीयोऽयमुपायेन हि केनचित् । इति ध्यात्वाऽयतो गत्वा वलितोऽसौ झटित्यपि ॥ ४१ ॥ जागर्त्यद्यापि पूर्लोको विश्रामं कुर्वहे ततः । क्षणमकमिहाऽऽवां भोरित्यूचे च नृपं प्रति ॥ ४२ ॥ ततस्तदाऽऽजया राजा चक्रे पल्लवसंस्तरौ। तवैकन स विश्रान्तो द्वितीये पार्थिवः स्वयम् ॥ ४३ ॥ मयि जाग्रति नेषोऽपि शयिथते कथञ्चन । चिन्तयित्वेति सुष्वाप संस्तर सोऽथ तस्करः ॥ ४४ ॥ झटित्यथो समुत्थाय स्वस्थानेऽस्थापयबृपः । महल्काष्ठं, स्वयं चास्थात् सासिवृक्षस्य कोटरे ॥ ४५ ॥ त्रिदण्डो खगमावष्य तस्करोऽपि समुत्थितः । तत्काष्ठमसिघातेन नृपश्चान्त्या द्विधा व्यधात् ॥ ४६ ॥ अपसार्य पटौं स्पर्शादिना विज्ञाय दारु तत् । धूर्तेन वञ्चितोऽस्मीति पश्चात्तापं चकार च ॥ ४७॥ राज्ञा सोऽभाणि रे दुष्ट ! मया त्वं मार्यसेऽधुना। विद्यते पौरुषं चेत् ते ततो मेऽभिमुखो भव ॥ ४८ ॥ साधु साध्विति चौरोऽपि बलात् निखिंशपाणिकः । संग्रामाय समं राजाऽभ्यढौकिष्ट स दुष्टधीः ॥ ४ ॥ खनाखनि चिरं कृत्वा दोपता पृथिवीभुजा। मर्मप्रदेश पाहत्य पातितोऽसौ महीतले ॥ ५० ॥ विधुरस्तेन घातेन तस्करः माह भूपतिम् । सोऽहं दस्युरहो वीर ! येनेयं मुषिता पुरी ॥ ५१ ॥ Page #158 -------------------------------------------------------------------------- ________________ १५८ श्रीशान्तिनाथचरित्रे अहं तावन् मरिष्यामि शृणु वं मम भाषितम् ।। अस्ति देवकुलस्यास्य पृष्ठे पातालमन्दिरम् ॥ ५२ ॥ तवास्ति प्रचुरं द्रव्यं धनदेवी च मे वसा । अन्याश्च नायिकाः सन्ति नगर्या या मया हृताः ॥ ५३ ॥ अमुं'च खड्नमादाय गच्छ त्वं तत्र सत्वरम् ।। पाकारयेः स्वसारं मे शिलाया विवरण ताम् ॥ ५४ ॥ कथयेच मृति मेऽस्याः खड्गमेनं च दर्शयः । ततोऽसौ त्वत्प्रवेशाय हारमुद्घाटयिष्यति ॥ ५५ ॥ तत् सर्वं भवता ग्राघमथवा यद् यस्य तस्य तत् । अपयेस्त्वमिति प्रोच विपत्र: स मलिम्बुचः ॥ ५६ ॥ गत्वा तत्र नरेन्द्रोऽपि कृत्वा च तदुदीरितम् । पातालभवने तत्र प्रविष्टोऽथ ददर्श तत् ॥ ५७ ॥ विश्राम्यतु क्षणं तावत् पर्यझेऽत्र भवानिति । भणित्वा भूपतिं हारं पिदधे तस्करवसा ॥ ५८ ॥ दृष्ट्वाऽवलोकयन्तीं तां छन्नं छवं वसंमुखम् । साशङ्कः स्थापयामासोपधानं तत्र भूपतिः ॥ ५८ ॥ खयं तस्थौ च दीपस्य च्छायायां मतिमानथ । मुक्ता यन्त्रशिलां शय्यां बभञ्ज धनदेव्यसौ ॥ ६ ॥ ततः सा ददती ताला जजल्यैवमहो मया । भव्यं कृतं यतो भाटवधको विनिपातितः ॥ ६१ ॥ (१) ग घ च ठ मत्खङ्ग-। (२) झ त्वद्वशा सद्यो। Page #159 -------------------------------------------------------------------------- ________________ हतीयः प्रस्तावः। १५८ धृत्वा केशेषु तां राजा प्रोचे रण्डे ! भविष्यसि । त्वमेवं कुर्वती हन्त चातुर्मार्गानुयायिनो ॥ १२ ॥ जल्यन्ती दीनवाक्यानि ततोऽसौ प्रविमुच्य ताम् । हारमुहाव्य च क्षिप्रं निजं धाम समाययौ ॥ ६३ ॥ मेलयित्वा च पूर्लोकं वस्तु यद् यस्य तस्य तत् । 'सर्वं समर्पयामास भवनं तहभन्न च ॥ ६४ ॥ आनीताः स्वस्खगेहेषु ताः स्त्रियस्तेन दस्युना। मोहिता न रतिं तत्र लेभिरे चञ्चलाशयाः ॥ ६५ ॥ मुहुर्मुहुव्रजन्ति स्म दस्युस्थाने ततो जनः । कथितं पार्थिवस्यैतत् तेनापि भणितो भिषक् ॥ ६६ ॥ सोऽवदद दस्युचूर्णेन जाता एवं विधा इमाः । दत्त्वा स्वचूर्ण राजेन्द्र ! खभावस्थाः करोम्यहम् ॥ ६७ ॥ ततो राजाजया तेन ताः कता गतकार्मणाः। एका तु तदवस्थेवाऽऽचख्ये तदपि भूभुजा ॥ ६८ ॥ पृष्टोऽथ भिषगाचख्यौ देव ! चूर्णेन योगिनः । कासाच्चित् वासिता कृत्तिः कासाञ्चित् मांसशोणिते ॥६॥ सर्वास्ताः प्रतिचूर्णेन खभावस्थाः कता मया। अस्थास्तु वासितास्तेनास्थिमज्जा अपि भूपते ! ॥ ७० ॥ यद्यसौ घर्षयित्वाऽस्य दस्योरस्थीनि पाव्यते। ततः संजायते राजन् ! स्वभावस्थाऽन्यथा न हि ॥ ७१ ॥ (१) घ च झ, स सर्वमपयामास। Page #160 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे तत् तथा कारयित्वाऽऽशु निर्विकारा कताऽप्यसौ। नरसिंहनरेन्द्रेण सदा परहितैषिणा ॥ ७२ ॥ स श्रीजयन्धराचार्योऽन्यदा तत्र समाययौ। यस्य पार्खे पिता राज्ञो जितशत्रुरभूदु व्रती ॥ ७३ ॥ धर्म तदन्तिके श्रुत्वा नरसिंहपोऽपि सः । प्रतिबुद्धः सुतं राज्येऽस्थापयद् गुणसागरम् ॥ ७४ ॥ ततो दीक्षामुपादाय तपः क्त्वाऽतिदुष्करम् । निष्कर्मा नरसिंहर्षिरवाप शिवसम्पदम् ॥ ७५ ॥ ॥ इति नरसिंहऋषिकथानकम् ॥ अचेऽथ' सुव्रतो भद्रे ! यथा चूर्णेन योगिनः । तस्यास्तस्या नितम्बिन्या अस्थि मज्जाऽधिवासिता ॥ ७६ ॥ तथा त्वमपि कल्पद्रुचिन्तामण्यधिकचिया । धर्मेण भावयात्मानं श्रीदत्ते ! दृष्टप्रत्यये ! ॥ ७७ ॥ ततोऽसौ शुद्धसम्यबामूलं धर्ममगारिणाम् । प्रतिपदे मुनेस्तस्य समीपे सरलाऽऽशया ॥ ७८ ॥ व्यहार्पोन्मुनिरन्यत्र श्रीदत्ताऽपि गता गृहम् । प्रतिपनं निजं धर्म विधिवत् पर्यपालयत् ॥ ७ ॥ चकार साऽन्यदा कर्मपरिणामवशादिमाम् । धर्मस्य विषये थाही विचिकित्सां मनोगताम् ॥ ८० ॥ (१) च झ, च। (२) च क द -मज्जा हि वासिताः। Page #161 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । जैनं धर्मममुं रम्यं यत्नतः प्रकरोम्यहम् । परमस्य फलं भावि न वेति ज्ञायते न हि ॥ ८१ ॥ विचिकित्सामिमां कृत्वा मृत्वा चायुःक्षये सका । सञ्जाता यत्र तदितः स्थानं सङ्कीर्तयाम्यहम् ॥ ८२ ॥ विजयेऽत्रैव वैताये नगरे सुरमन्दिरे । राजा कनकपूज्योऽभूद् वायुवेगा च तप्रिया ॥ ८३ ॥ तस्य कीर्तिमतो राज्ञः पुत्रः कीर्तिधरोऽस्माहम् । ममाप्यनिलवेगाख्या बभूव सहचारिणी ।। ८४ गजकुम्भबलीवर्दस्वप्नत्रितयमूचितः । प्रतिविष्णुर्नृपो जज्ञे दमितारिर्ममाऽऽत्मजः ॥ ८५ ॥ उदयौवनो मया बह्वीः स कन्याः परिणायितः ! स्थापितश्च निजे राज्ये मया चाऽऽत्ताऽनगारंता ॥ ८६ ॥ दमितारेर्नृपस्थास्य मदिरा नाम वल्लभा । तत्कुचिसम्भवा पुत्री कनकश्रीर्भवत्यभूत् ॥ ८७ ॥ यत् त्वया विहिता धर्मविचिकित्सा पुरा भवे । तत् ते बन्धुवियोगादि भद्रे ! दुःखमभूदिदम् ॥ ८८ ॥ निजं पूर्वभवं श्रुत्वा पितामहमुनेर्मुखात् । जातसंसारवैराग्या दमितारिनृपात्मजा ॥ ८ ॥ ऊचेऽपराजितानन्तवीर्यावेवं कृताञ्जलिः । चेद युवामनुजानीथ' स्तदद्य प्रव्रजाम्यहम् ॥ ८० ॥ (१) ख घ च ज झ - स्तदाऽऽर्थो ! | २१ १६१ Page #162 -------------------------------------------------------------------------- ________________ १६२ श्रीशान्तिनाथचरित्रे ताभ्यां सा भणिता चैवं 'संप्राप्य सुभगापुरीम् । स्वयंप्रभजिनोपान्ते भूयास्त्वं वतिनी शुभे ! ॥ ८१ ॥ तं तपोधनमानम्य विमानमधिरुह्य च । तो तया सहितौ शीघ्रं संप्राप्ती नगरौं निजाम् ॥ २ ॥ स्वयंप्रभजिनोऽन्येद्युः सुरासुरनरार्चितः । आगत्य समवासार्षीत् सुभगायां पुरि प्रभुः ॥ १३ ॥ गत्वा भक्त्या ववन्दाते तमिमौ बलकेशवौ। धर्म शुशुवतुः साई तया च कनकश्रिया ॥ १४ ॥ अग्रेऽपि कनकधीः सा विषयेभ्यो विरक्तधीः । जैनौं वाचं समाकर्ण्य विशेषेणाभवत् तदा ॥ १५ ॥ ततश्च हरिसीरिभ्यां कतनिष्क्रमणोत्सवा । सा प्रवव्राज तेपे चैकावल्यादि तपो महत् ॥ १६ ॥ शुक्लध्यानानलप्लुष्टघातिकर्मचतुष्टया। उत्पाद्य केवलज्ञानं संप्राप्ता परमं पदम् ॥ १७ ॥ इतोऽपराजितस्याऽऽसीद् विरता नाम गहिनी। तदङ्गसंभवा पुत्रो जाता सुमतिसंजिका ॥ १८ ॥ जीवाजीवाऽऽदितत्त्वज्ञा तपःकर्मसमुद्यता । आबाल्यादपि सा जन्ने कुशला जिनशासने ॥ ८ ॥ चतुर्थपारणेऽन्येास्तस्या गेहे समाययौ। शान्तो दान्तः क्षमायुक्तो वरदत्तो महामुनिः ॥ ७०० ॥ (१) ख घ च संभाव्य। (२) घ च ज झ जने। Page #163 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । 'परिवेषितया स्थाले स्वस्थ पारणहेतवे । प्रत्यलाभि तया साधू रसवत्या मनोज्ञया ॥ १ ॥ मुनेः प्रभावतस्तस्य तत्र तद्भक्तिरञ्जितैः । विहितानि सुरैरासन् पञ्च दिव्यानि तत्क्षणात् ॥ २ ॥ स स्वस्थानमगात् साधुस्तद् दृष्ट्वा बलकेशवौ । चिन्तयामासतुः कन्या धन्येयं कृतपुण्यका ॥ ३ ॥ आलोच्य मन्त्रिणा सार्द्धं महानन्देन तौ ततः । कारयामासतुश्चास्याः कृते रम्यं स्वयंवरम् ॥ ४ ॥ एत्य दूतसमाहूताः सर्वेऽपि पृथिवीभुजः । आसीना आसनेषुच्चैः स्वयंवरणमण्डपे || ५ ॥ कन्याऽपि कृतशृङ्गारा सखीवृन्दसमन्विता । वरमालाऽङ्कितकरा यावत् तत्र समागता ॥ ६ ॥ तावद् देवतया पूर्वभवस्वस्रा प्रबोधिता । कृतसङ्केतया तत्राऽऽगतया व्रतहेतवे ॥ ७ ॥ अनुज्ञाप्य नृपान् सर्वान् स्वयम्वरसमागतान् । मुरारिबलभद्राभ्यामनुज्ञाता विशेषतः ॥ ८ ॥ पञ्चकन्याशतैः सार्द्धं प्रतिपद्यानगारताम् । समीपे सुव्रताऽऽर्यायाः सा चचार तपोऽमलम् ॥2॥ (युम्मम्) क्षपकश्रेणिमारूढा क्रमात् संप्राप्तकेवला । प्रतिबोधितभव्यौघा ययौ साऽपि शिवं सती ॥ १० ॥ (१) ग परिवेष्य- । (२) खघ झड, कन्या पञ्चशतैः 1 (३) ञ चकार | १६३ Page #164 -------------------------------------------------------------------------- ________________ १६४ श्रीशान्तिनाथचरित्रे अशीतिपूर्वलक्षाणि चतुर्भिरधिकान्यथ । आयुः प्रपू सोऽनन्तवीर्यो विष्णुर्व्यपद्यत ॥ ११ ॥ संवत्सरद्विचत्वारिंशत्सहस्रायुरादिमे । श्वभ्त्रे नारकिको जज्ञे 'स निकाचितकर्मभिः ॥ १२ ॥ afsalisपरः शोकमस्तोकं विदधे ततः । नीतिधर्मविदग्धेन मन्त्रिणैवमभाणि सः ॥ १३ ॥ यदि मोहपिशाचेन च्छल्यन्ते त्वादृशा अपि । तदा किमपरं धीर ! धीरता संश्रयत्वियम् ॥ १४ ॥ इति तद्दचसा किञ्चिद् गतशोको बभूव सः । अन्यदा गणभृत् तत्राऽऽययौ नाम्ना यशोधरः ॥ १५ ॥ विज्ञायाऽऽगमनं तस्य वन्दनार्थमगा दसौ । भक्त्या षोडशभिर्भूपसहस्रेः परिवारितः ॥ १६ ॥ नत्वा गणधरेन्द्रं तं निषस्मोऽसौ यथास्थिति । कृताञ्जलिपुटो धर्मदेशनामशृणोदिति ॥ १७॥ शोकोऽभीष्टवियोगेन जायते दारुणो जने । स सद्भिः परिहर्तव्यस्तत्स्वरूपमिदं यतः ॥ १८ ॥ नामान्तरः पिशाचोऽयं पाप्मा रूपान्तरस्तथा । तारुण्यं तमसो ह्येष विषस्यैष विशेषतः ॥ १८ ॥ (१) क ण द स्वनिका । ङ ऽसौ । ङ तदा कमपरं विश्वे धीरा यं संश्रयन्ति हि । (2) (३) च ज विषयस्य । Page #165 -------------------------------------------------------------------------- ________________ द्वतीयः प्रस्तावः । १६५ तस्मादिष्टवियोगाऽऽख्यमहद्रोगनिपीडितैः । सुश्रुतोतक्रियायुक्तः कार्य धौषधं महत् ॥ २० ॥ 'सम्पदोऽत्र करिकर्णचञ्चलाः सङ्गमाः प्रियवियोगनिष्फलाः । जीवितं मरणदुःखनौरस मोक्षमक्षयमतोऽर्जयेद् बुधः ॥ २१ ॥ तां धर्मदेशनां श्रुत्वा गतशोकोऽपराजितः । जातव्रतपरीणामो नत्वा तं गणनायकम् ॥ २२ ॥ गृहमागत्य राज्ये च स्थापयित्वा खनन्दनम् ।। समाददे परिव्रज्यां नृपमण्डलसंयुतः ॥ २३ ॥ (युग्मम् ) बहुकालं तपस्तम्बा कत्वाऽन्तेऽनशनं तथा । विपद्याच्युतकल्पेऽसौ संजने त्रिदशेखरः ॥ २४ ॥ इतोऽस्य जम्बूद्वीपस्य क्षेत्रे भरतनामनि। वैताब्यदक्षिणश्रेण्यां पुरे गगनवल्लभे ॥ २५ ॥ मेघवाहनविद्याभृद्भपतेर्मेघमालिनी। बभूव गुणसंयुक्ता गेहिनी रूपशालिनी ॥ २६ ॥ (युग्मम्) अनन्तवीर्यो नरकादुद्दृत्य समभूत् तयोः । मेघनादाभिधः पुत्रो यौवनं समवाप सः ॥ २७ ॥ कन्या विवाह्य बह्वीस्तं स्वराज्ये विनिवेश्य च । प्रतिपदेऽनगारत्वं मेघवाहनभूपतिः ॥ २८ ॥ (१) अयं लोकः ग ङट ढ पुस्तके वेव दृश्यते। Page #166 -------------------------------------------------------------------------- ________________ १६६ श्रीशान्तिनाथचरित्रे सोऽथ श्रेणियस्वामी मेघनादो 'महामतिः । दशोत्तरशतं देशान् स्वसुतेभ्यो ददौ क्रमात् ॥ २८ ॥ गत्वा सुराचलेऽन्येद्युः प्रतिमाः शाखतार्हताम् । पूजयामास विद्यां च प्रज्ञप्तिं भक्तिपूर्वकम् ॥ ३० ॥ तदा तत्राऽऽययुः सर्वदेवाः कल्पनिवासिनः । अच्युतेन्द्रेण दृष्टोऽसौ सेहात् सम्भाषितस्तथा ॥ ३१ ॥ स आख्याय पूर्वभवस्वरूपं धर्मसंयुतम् । निजं स्थानं ययौ मेघनादोऽपि खचरेश्वरः ॥ ३२ ॥ भक्त्याऽमरगुरोः पार्श्वे मुनीन्द्रस्यानगारताम् । प्रतिपद्य तपस्तेपे गत्वा नन्दनपर्वते ॥ ३३ ॥ अश्वग्रीवसुतजीवासुरेणास्य विनिर्मिताः । महोपसर्गास्तत्रैकरात्रिकौप्रतिमाजुषः ॥ ३४ ॥ प्रतिमां पारयित्वा तां विहृत्य जगतीतले । मृत्वा समाधिना चान्ते सोऽप्यभूदच्युतेश्वरः ॥ ३५ ॥ षष्ठो भवः सप्तमसंयुतोऽयं कषायविच्छेदकथा विचित्रः । प्रोक्तो मया शान्तिजिनेश्वरस्य करोतु कल्याणततिं स सङ्के ॥ ७३६ ॥ इत्याचार्य श्री अजितप्रभसूरिविरचितं श्रोशान्तिनाथचरिते षष्ठसप्तमभववर्णनो नाम तृतीयः प्रस्तावः ॥ ३ ॥ (१) ख घ च ज महीपतिः । (२) घ च ज झ ययौ स्थानं निजं । (३) ङ च। Page #167 -------------------------------------------------------------------------- ________________ चतुर्थ: प्रस्तावः । इतः पूर्वविदेहेऽत्र जम्बूद्दीपस्य मध्यमे । विजये मङ्गलावत्यभिधे सीतानदीतटे ॥ १ ॥ तौर्थङ्करादिपुंरत्नसञ्चया रत्नसच्चया । अस्ति सिद्दान्तविख्याता शाश्खता नगरी वरा ॥ २ ॥ ( युग्मम्) दुर्नीतिवारकत्वेन प्रजायाः चेमकारकः । तत्र क्षेमङ्करो जज्ञे राजा तीर्थङ्करच सः ॥ ३ ॥ सतीत्वपादपाssवाला सुविधाला गुणश्रिया । बभूव भूपतेस्तस्य रत्नमालाऽभिधा प्रिया ॥ ४ ॥ अपराजितजीवोऽसौ द्वाविंश' त्यर्णवस्थितेः । अच्युतेन्द्रपदाच्चुत्वा तस्याः कुचाववातरत् ॥ ५ ॥ चतुर्दश महास्वप्ना वञ्चस्वप्नसमन्विताः ॥ 'दृष्टा देव्या तया रात्रौ चक्रभृज्जन्मसूचकाः ॥ ६ ॥ कथितास्ते महोभर्तुः प्रभातोत्थितया तया । सुपुत्रजन्मकथनात् तेनाप्याऽऽह्नादिता सका ॥ ७ ॥ ग ज ट प -त्यतरस्थितेः । (१) (२) ज द हट्दा | (३) ज सुपुत्रकथनातेन राज्ञाऽप्याह्नादिता सका । म ठ -खकाः । Page #168 -------------------------------------------------------------------------- ________________ १६८ श्रीशान्तिनाथचरित्रे अजीजनत् सुतं राजी सम्पूर्णसमयेऽथ सा । प्रतिश्च भूपालश्चेटीभिः सुतजन्मना ॥ ८ ॥ आसप्तकुलवृत्त्या ताः सुतजन्मनिवेदिकाः । तोषयित्वा महीपालो वर्दापनमकारयत् ॥ ८ ॥ दृष्टं पञ्चदशस्वप्ने देव्या वजायुधं ततः । वज्जायुधाभिधानं तत्पित्रा पुत्रस्य निर्ममे ॥ १० ॥ अष्टवर्षप्रमाणोऽसौ कलाचार्यस्य सन्निधौ । कारितस्तु कलाभ्यासमावासं गुणसंपदः ॥ ११ ॥ संप्राप्तयौवनो राजकन्यां लक्ष्मीवतों वराम्। सोऽथोत्सवेन गुरुणा गुरुणा परिणायितः ॥ १२ ॥ अनन्तवीर्यजीवोऽथ प्रच्युत्याच्युतकल्पतः । ववायुधकुमारस्य लक्ष्मीवत्याः सुतोऽभवत् ॥ १३ ॥ सहस्रायुधनामाऽसावपि संप्राप्तयौवनः । उपयेमे नृपसुतां सुरूपां कनकश्रियम् ॥ १४ ॥ भुञ्जानस्य तया साई भोगांस्तस्याऽपि बन्धुरान् । कालक्रमेण संजज्ञे पुत्रः शतबलाभिधः ॥ १५ ॥ क्षेमकरनृपोऽन्येयुः पुत्रपौत्रसमन्वितः । सिंहासनोपविष्टोऽसौ यावदासीत् सभान्तरे ॥ १६ ॥ (१) ख घ च ड -तः स कलाभ्यास । (२) ग ज झ ठ ड लक्ष्मीवत्या । (३) ङ ऽति-। (४) ङ छ पुत्रपौत्रप्रपौत्रयुक् । र पुत्रपौत्वप्रपौलकः । Page #169 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । १६८ तवागात्तावदीशानकल्पवास्यमृताशनः । चित्रचूलोऽभिधानेन कश्चिद् मिथ्यात्वमोहितः ॥१७॥(झुम्मम्) नास्ति देवी गुरुर्नास्ति नास्ति पुण्यं न पातकम् । न जीवपरलोको चेत्यादिनास्तिकवाद्यसौ ॥ १८ ॥ वज्वायुधकुमारण भणितो भोः ! न युज्यते । तव नास्तिकवादोऽयमन हेतुर्भवानपि ॥ १८ ॥ चेत् त्वया मुक्कतं किञ्चित् नाभविथत् पुरा कृतम् । नालप्साथाः सुरत्वं हि ततस्त्वं शर्मण: पदम् ॥ २० ॥ पासीत्वं मनुजः पूर्वमिह जातोऽसि निर्जरः । घटते कथमप्येतद् यदि जौवो न विद्यते ॥ २१ ॥ इत्यादिहेतुभिः सोऽथ निर्जरः प्रतिबोधितः । ववायुधकुमारेण ततस्तुष्टी जगाद सः ॥ २२ ॥ भोः ! कुमार ! त्वया साधु विदधे यद्भवार्णवे । पतन् संज्ञानहस्तावलम्बनेनोइतोऽस्माहम् ॥ २३ ॥ पाददे सोऽथ सम्यक्त्रं कुमारस्यैव सविधौ। प्रियं किं ते करोमोति कुमारं तं जजल्प च ॥ २४ ॥ निःसहाय ततस्तस्मै दत्त्वाऽऽभरणमुत्तमम् । स देव: प्रययो वर्गमीशानेन्द्रस्य सविधौ ॥ २५ ॥ वज्वायुधकुमारोऽसावीशानेन्द्रेण पूजितः । अयं जिनेन्द्रो भावीति भक्तिरञ्जितचेतसा ॥ २६ ॥ वसन्तसमयेऽन्येद्युः कुमारं तं स्मरोपमम् । क्षुद्रा सुदर्शना पुष्पाण्यपयित्वा व्यजिज्ञपत् ॥ २७ ॥ Page #170 -------------------------------------------------------------------------- ________________ १०० श्रीशान्तिनाथचरित्र देव ! लक्ष्मीवती देवी युभाभिः सह वाञ्छति । कतुं सूरनिपाताख्योद्याने सुरभिखेलनम् ॥ २८ ॥ वज्जायुधकुमारोऽथ सप्तराज्ञीशतापाया। लक्ष्मीवत्या समं देव्या तदुद्यानमगादरम् ॥ २८ ॥ तत्र नानाविधक्रीडाः कर्तुं प्रववृते जनः । कुमारश्च ययौ वापों सप्रियः प्रियदर्शनः ॥ ३० ॥ तत्र प्रविश्य पत्नीभिः सानुरागाभिरञ्चितः । निरासबोकतव्रीडां जलक्रीडां चकार सः ॥ ३१ ॥ दमितारेरथो जीवो भवं भ्रान्त्वा पुरा भवे । कत्वा किञ्चिदनुष्ठानं विद्युइष्टः सुरोऽभवत् ॥ ३२ ॥ जलक्रीडापरं वीक्ष्य कुमारं पूर्वमत्सरात् । तधार्थ महाशैलं वाप्या उपरि सोऽमुचत् ॥ ३३ ॥ अधस्ताबागपाशैश्च तं बबन्ध दुराशयः । बजायुधोऽपि चक्रौति महाबलसमन्वितः ॥ ३४ ॥ अधिष्ठितश्च यक्षाणां सहस्रहितयेन सः । बिभेद तं नगं नागपाशान् त्रोटयति स्म च ॥३५॥ (युग्मम्) ततो वाप्या विनिर्गत्य सर्वराजीगणाऽऽवृतः । अक्षताङ्गः कुमारोऽसौ चिरं चिकोड कानने ॥ २६ ॥ अत्रान्तरे सहस्राक्षो जिनं नत्वा विदेहतः । वलितः शाश्वतवात्राकृते नन्दीश्वरं प्रति ॥ ३७ ॥ वापीमध्यावगं भित्त्वा छित्त्वा पाशांश्च सप्रियम् । निर्मच्छन्तं कुमारं तं पश्यति स्म सविस्मयः ॥ ३८ ॥ Page #171 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । जात्वा ज्ञानोपयोगेन भाविनं तं च तीर्थपम् । ननाम परया भत्त्या तुष्टुवे च कृताञ्जलिः ॥ ३८॥ " धन्योऽसि त्वं कुमारेन्द्र ! यो भविष्यसि भारते । षोडश: तीर्थक्वत् शान्तिनामा शान्तिकरो जने ॥ ४० ॥ इति स्तुत्वा सुनासौर: प्रययौ स्थानमौसितम् । कुमारोऽपि यह प्राप्तः क्रीडिवोपक्ने चिरम् ॥ ४१ ॥ सोऽपि क्षेमङ्करमापोऽभ्येत्य लोकान्तिकामरैः । लोथ प्रवर्तयेत्युच्चैर्बोधित: स्थितिवेदिभिः ॥ ४२ ॥ ततो वायुधं राज्ये निवेश्य जगतीप्रियम् । दत्त्वा च वार्षिकं दानं स चारित्रमुपाददे ॥ ४३५ विहत्य जिनलिनेन किञ्चित् कालं विकेवलः । अवाप केवलज्ञानं घातिकर्मक्षये ततः ॥ ४४ ॥ देवैरागत्य समवसरणे रचिते सति । तत्रीपविश्य विधिना चक्रेऽसौ धर्मदेशनाम् ॥ ४५ ॥ कल्पद्रुमचिन्तामणिकामधेन्वधिकप्रभः । कर्तव्यः सर्वदा धर्मो भो भव्याः ! प्रतियत्नतः ॥ ४६ ॥ किन्तु सम्यक् परीक्ष्योऽयं श्रुतशीलकपादिभिः । आयुर्वेदविनिर्दिष्टवीरपाणवचो यथा ॥ ४७ ॥ अविचार्य प्रवृत्तः सन् क्षीरमर्कादिसम्भवम् । पिबेद 'येनान्वशातादिदोषः संजायते महान् ॥ ४८ ॥ (१) कम पिबेद् यो नाऽत्र पित्तादि-। Page #172 -------------------------------------------------------------------------- ________________ १७२ श्री शान्तिनाथचरित्रे , बुद्ध्या विचारयेद्यस्तु वैद्यवाक्यं पिबत्यसौ । बलपुष्टिकरं चोरं गवादीनां मनोहरम् ॥ ४८ ॥ धर्मे प्रवृत्तिः कर्तव्येति वाक्येऽप्यविचारिते । करोत्यज्ञानतो जीवः प्रवृत्तिं धनुरादिषु ॥ ५० ॥ धर्मे तस्मादहिंसादिलक्षणे जिनभाषिते । विदधीत प्रवृत्तिं भोः ! शिवं सौख्यं यदीच्छथ ॥ ५१ ॥ विचार्य धिया कार्यं कुर्वतामिह देहिनाम् । 'दोषा भवन्त्यमृताम्त्रनिपात्यादिनरेन्द्रवत् ॥ ५२ ॥ पप्रच्छेवमथ सर्वा पत् कौतूहलाकुला । अमृताम्म्रनिपात्यादिनृपाः के भगवन्निमे ॥ ५३ ॥ दोषो जने कथं तेषामविचारितकर्मणाम् । इति सर्वसदःप्रोक्तः क्षेमङ्गरजिनोऽवदत् ॥ ५४ ॥ अस्त्यवन्तिजनपदे प्रसिद्धोज्जयिनी पुरी । नगरी धनदस्येवावतीर्णेह कुतूहलात् ॥ ५५ ॥ जितशत्रुर्महीपालः पालयामास तां पुरीम् । यो वैरिवारनारीणां वैधव्यव्रतदो गुरुः ॥ ५६ ॥ तस्याग्रमहिषी जज्ञे विजयश्रीः सुलोचना । भुञ्जानस्तामिलां चैव राजा राज्यमपालयत् ॥ ५७ ॥ आस्थानमण्डपाssसोनमन्यदा तं महीपतिम् । सुविज्ञातेङ्गिताकारः प्रतीहारो व्यजिज्ञपत् ॥ ५८ ॥ (१) खघ छ झ दोषो भवत्यम् । Page #173 -------------------------------------------------------------------------- ________________ चतुर्थ: प्रस्ताव:। १७३ राजन् ! त्वमन्दिरहार त्वदर्शनसमुत्सुकाः । चत्वारः पुरुषाः सन्ति मूर्त्या राजसुता इव ॥ ५८ ॥ ततः किं क्रियतां तेषामित्युक्ते स्माऽऽह भूपतिः । शीघ्रमानय तानत्रेत्यानिनाय च सोऽपि तान् ॥ ६ ॥ दत्ताऽऽसनोपविष्टांस्तान् निरौक्ष्य विहितानतीन् । दयौ राजाऽनयाऽऽकत्या नूनमेते सुवंशजाः ॥ ६१ ॥ ताम्बूलादिप्रदानेन संमान्याभाषितास्ततः । कुतो यूयमिहाऽऽयाता: केनार्थेनेति भूभुजा ॥ ६२ ॥ प्रथोवाचानुजस्तेषामस्ति देवोत्तरापथे । सुवर्णतिलकं नाम विख्यातमवनौ पुरम् ॥ ६३ ॥ तद वैरिमर्दनो राजा न्यायेन प्रत्यपालयत् । तस्य रूपवती नाना चारुरूपवती प्रिया ॥ ६४ ॥. तयोः क्रमेण सञाताश्चत्वारस्तनया वराः । तेषां नामानि चामूनि प्रदत्तानि क्रमेण हि ॥ ६५ ॥ प्रथमो देवराजाख्यो वत्सराजो द्वितीयकः। . हतीयो दुर्लभराजः कीर्तिराजश्चतुर्थकः ॥ ६६ ॥ सर्वे शुभकलाऽभ्यासं कारिता जनकेन ते । प्राप्ताश्च यौवनं खानुरूपकन्याविवाहिताः ॥ ६७ ॥ अन्येद्युः स महीपालो निवर्तकरुजाऽर्दितः । राज्ये संस्थापयामास देवराज सुताग्रिमम् ॥ ६८ ॥ दत्त्वा शिक्षामथो तसो परलोकमियाय सः । खं राज्यं देवराजोऽपि कियकालमपालयत् ॥ ६८ ॥ Page #174 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे दायादैरन्यदा तच्च संभूय बलवत्तरैः । प्रसह्य स्वीकृतं देशात् निरासे स च सानुजः ॥ ७० ॥ देवराजः स देवाऽयमाययौ युष्मदन्तिके । सेवाविधित्मयाऽस्माभिरनुजैः परिवारितः ॥ ७१ ॥ गुणदूतसमाहूता भवतामन्तिके वयम् । धृत्वा सम्भावनां चित्ते समायाता महीपते ! ॥ ७२ ॥ हृष्टो राजाऽवदद् ययं मम पाखें यदागताः । तत्साधु विहितं सन्तः सतां शरणमेव यत् ॥ ७३ ॥ प्रतीहारं समादिश्य राज्ञा वृत्तिसमन्वितः । निवासाय ततस्तेषामावासः प्रवरोऽर्पितः ॥ ७४ ॥ दृढभक्तिपराः प्रौढाः सेवकास्ते महीभुजा । प्रसादपूर्वकं खाङ्गरक्षकत्वे नियोजिताः ॥ ७५ ॥ रात्रेश्चतुर्षु यामेषु चत्वारोऽपि क्रमेण ते । चक्रिरे नृपते रक्षां शयितस्य धृताऽऽयुधाः ॥ ७६ ॥ ग्रीष्मकालेऽन्यदा देवराजोऽनुज्ञाप्य भूपतिम् । ग्राम क्वापि समासने ययौ कार्येण केनचित् ॥ ७७ ॥ कार्य कृत्वा स मध्याह्ने वलितो यावदन्तरे । भोषणा तावदुत्तस्थौ प्रबला वातमण्डली ॥ ७८ ॥ धूलिरुच्छलति स्मोच्चैः प्रचण्डपवनोहता । निपेतुः कर्कराः पत्रटणानि भ्रमुरम्बरे ॥ ७ ॥ पपात विरलं चाम्बु गुरुगर्जारवोत्कटम् । विललास तथा विद्युद् दृष्टि सन्तापकारिणी ॥ ८० ॥ Page #175 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । तहूलिजलभीतोऽसावाश्रित्य वटपादपम् । यावत् तस्थौ क्षणं तावदश्रौषोदुपरि खरम् ॥ ८१ ॥ किमेतदिति दत्तावधानो भाषाविशारदः । वचः पिशाचयोः सोऽथ शवावेति सुदुः श्रवम् ॥ ८२ ॥ 'फो फो! जागसि किंची सो पभणदि णो कहेहि मह किं तं । जंपर इमोवि अज्जं मलिहोए सो नलिन्दोति ॥ ८३ ॥ बीएण तो *पुट्ठो केण निमित्तेस कोड वेलाए । सो जंप सप्पा पढमे पहलंमि लत्तीए ॥ ८४ ॥ तपिशाचवचः श्रुत्वा पीडितो हृदयेऽधिकम् । स दध्यौ हा कथं कार्यं देवेनैतद्दिनिर्मितम् ॥ ८५ ॥ तथा कथचिदत्रार्थे यतिष्येऽहं यथा विभोः । नैतद्भविष्यतीत्येवं ध्यायन् सोऽगाद् नृपान्तिकम् ॥ ८६ ॥ प्रदोषसमये जाते विसृज्याऽऽस्थानगं जनम् | प्रविश्य वासभवने सुप्तो देव्या समं नृपः ॥ ८० ॥ देवराजोऽपि तद्दासग्टहं सर्वत्र शङ्कितः । उपरिष्टादधस्ताच्च शोधयामास यत्नतः ॥ ८८ ॥ तत् 1 (१) भो भोः ! जानासि किञ्चित् स प्रमणति नो कथय मम किं कथयत्ययमपि वद्य मरिष्यति स नरेन्द्र इति ॥ (२) द्वितोयेन ततः पृष्टः केन निमित्तेन कस्यां वेलायाम् । स कथयति सर्पात् प्रथमे महरे रात्रेः ॥ द पुणोवि । * १७५ Page #176 -------------------------------------------------------------------------- ________________ १७६ श्रीशान्तिनाथचरित्रे ततः खङ्गं समाकृष्य दोपच्छायान्तरस्थितः । उपर्यधो वोच्क्ष्यमाणो यावदस्थादसौ तदा ८८ ॥ चन्द्रोदयस्य विवरेणाहिं दृष्ट्वा प्रलम्बितम् । अभोतो जग्गृहे शीघ्रं करेणैकेन तन्मुखम् ॥ ८० ॥ (युग्मम् ) द्विखण्डं विदधे चास्य देहमन्येन सोऽसिना । एकत्र गोपयामास तत् खण्डद्दयमप्यसौ ॥ ८१ ॥ दृष्ट्वाऽथ पतितान् रक्तबिन्दून् देव्या उरःस्थले । सोsur स्वहस्तेन विषसंक्रान्तिभीरुकः ॥ ८२ ॥ अत्रान्तरे पश्यति स्म जातनिद्राक्षयो नृपः । करं व्यापारयन्तं तं देव्या वचोरुहोपरि ॥ ८३ ॥ ततः कोपपरीताङ्गो दध्यौ किं मारयाम्यमुम् । अथवा सबलो नैष शक्यो मारयितुं मया ॥ ८४ ॥ मुं केनाप्युपायेन मारयिष्यामि निश्चितम् । इति सञ्चित्य तस्थौ स सनिद्राऽवस्थया 'तया ॥ ६५ ॥ वादितोऽथाऽऽदिमो यामो रजन्याः घटिकाग्टहे । वत्सराजं विमुच्याऽऽत्मस्थाने सोऽगाब्रिजाऽऽलयम् ॥ ८६ ॥ जजल्प भूपतिः कोऽत्र स्थाने प्राहारिकोऽस्ति भोः ! | सोऽवदद् वत्सराजोऽहं तिष्ठामि तव सेवकः ॥ ८७ ॥ (१) ख च ठ तथा । (२) द वादितेऽथादिमे यामे । छ झ वादिते प्रथमे यामे 1 ख घ च ड वादितः प्रथमो यामो । Page #177 -------------------------------------------------------------------------- ________________ यतः चतुर्थः प्रस्तावः । उवाच भूपतिर्भूयः किमेकं प्रेषणं मम । करिष्यसीति सोऽवोचदादेशं देहि सत्वरम् ॥ ८८ ॥ राजा प्रोवाच यद्येवं भद्राऽऽदेशस्तवैष भोः ! । यद् भ्रातुर्देवराजस्य शीर्षं छित्त्वा समानय ॥ ८८ ॥ तथेत्वान्नां गृहीत्वाऽसौ निर्ययौ वासमन्दिरात् । दध्यौ च देवराजस्याऽतीव क्रुद्धो महीपतिः ॥ १०० ॥ तमुदारधनद्रोहैः कोपो ह्येवंविधो भवेत् । एकोऽपि सम्भवत्येषां मध्याद् बन्धोर्न मे तनौ ॥ १ ॥ ये भवन्त्युत्तमा लोके स्वप्रकृत्यैव ते ध्रुवम् । अप्यङ्गीकुर्वते मृत्युं प्रपद्यन्ते न चोत्पथम् ॥ २ ॥ भीता जनापवादस्य ये भवन्ति जितेन्द्रियाः । कार्यं नैव कुर्वन्ति ते महामुनयो यथा ॥ ३ ॥ कुविज्ञातं कुदृष्टं षा कुश्रुतं कुपरीक्षितम् । नूनमेतद् भावि कार्यं तत्कर्तव्यं मया कथम् ॥ ४ ॥ हुं ज्ञातमथवा कालविलम्बं प्रकरोम्यहम् । अशुभस्य निरासाय स एव कथितो बुधैः ॥ ५ ॥ चिन्तयित्वेति भूपस्य समागत्य च सन्निधौ । स ऊचेऽद्यापि जागर्ति देवराजो महोपते ! ॥ ६ ॥ जाग्रन शक्यते हन्तुं केनाप्येष महाभुजः । तमहं मारयिष्यामि जातनिद्राभरं पुनः ॥ ७ ॥ २३ १७७ Page #178 -------------------------------------------------------------------------- ________________ १७८ श्रीशान्तिनाथचरित्रे एवं भवतु राज्ञेति प्रपन्ने सोऽवदत् पुनः । यूयं विनिद्रा मे काञ्चित् कथां कथयत प्रभो ! ॥ ८ ॥ अथवा कथ्यमानां तां यूयं शृणुत सोद्यमाः । इयं हि निर्विनोदानां क्षयं याति न यामिनी ॥ ८ ॥ त्वमेवाऽऽख्याहि भोः ! भद्रेत्यादिष्टः पृथिवीभुजा | ततश्चाऽऽख्यातुमारेभे वत्सराजः कथामिमाम् ॥ १० ॥ बहुलोकसमायुक्तं मुक्तमीतिभयादिभिः । अस्तोह पाटलीपुत्रं युक्तं भूपशतैः पुरम् ॥ ११ ॥ तत्राभूत् पृथिवोराजो राजा शत्रुविनाशकृत् । भूमिमण्डलविख्यातो धार्मिको विनयो नयो ॥ १२ ॥ विनयादिगुणाऽऽधारा सुविचारा मनोहरा । आसोद् रत्या समाकारा 'सुतारा तस्य वल्लभा ॥ १२ ॥ उदारो निर्मलाऽऽचार: सुविचारो दयापरः । रत्नसारोऽभिधानेन तत्त्र श्रेष्ठवरोऽभवत् ॥ १४ ॥ अनवद्यक्रियाऽऽसक्ता भक्ता देवगुरुष्वलम् । सलज्जा रज्जुकानाम्नी तस्याभूदु गृहिणी वरा ॥ १५ ॥ धनदत्तस्तयोः पुत्रः पवित्रः शुभकर्मणा । कलाकलाप संयुक्तो विमुक्तो व्यसनाऽऽदिभिः ॥ १६ ॥ सोऽन्यदा कृतशृङ्गारो मित्रबान्धवसंयुतः । निर्गत्य मन्दिराद् गन्तुं प्रवृत्तोऽर्थेन केनचित् ॥ १७ ॥ (१) घ ज ड द सुभगा । Page #179 -------------------------------------------------------------------------- ________________ चतुर्थ: प्रस्तावः । १७८ सं दृष्ट्वा कश्चिदित्यूचे धन्योऽसौ श्रेष्ठिनन्दनः।। व एवंविधसामग्रमा खेच्छया विलसत्यहो ॥ १८ ॥ सोऽन्येन भणितो मुन्ध ! किमस्य त्वं प्रशंससि । यः पित्रोपार्जितां लक्ष्मों भुङ्क्ते कापुरुषक्रियः ॥ १८ ॥ प्रशंसायाः स योग्योऽत्र यो द्रव्योपार्जने रतः । त्यागभोगपरो यश्च लोकमध्ये विजभते ॥२०॥ तच्छ्रुत्वा वेष्ठिपुत्रोऽसौ चिन्तयामास चेतसि । अमुनापरेणापि जल्पितं मे हितं वच: ॥ २१ ॥ ततो देशान्तरे गत्वा समुषायं धनं धनम् । तत् सर्व साधयिष्यामि यदनेन विभाषितम् ॥ २२ ॥ खवितर्कोऽथ मित्राणामने तेन निवेदितः । प्रशंसितश्च तैस्तस्याभिप्रायः प्रियवादिभिः ॥ २३ ॥ लगित्वा पादयोः सोऽथ जगाद जनकं मया । अर्थार्जनकृते गम्यं परदेशे त्वदाजया ॥ २४ ॥ वनाऽऽहत इव श्रेष्ठी दुःखितस्तमभाषत । अर्थस्ते विद्यते वत्स ! त्यागभोगक्षमो बहुः ॥ २५ ॥ तेनैव साधनीयानि सर्वकार्याणि निश्चितम् । प्राणसन्देहकरण गम्यं देशान्तरे न हि ॥ २६ ॥ पुनरप्यवदत् पुत्रस्तात ! लक्ष्मीस्त्वयाऽर्जिता । जननीव न मे भोक्तुं युज्यते शैशवाहते ॥ २७ ॥ अत्याग्रहपरं ज्ञात्वा विससर्ज पिताऽपि तम् । खतोऽसौ यानसामग्रीमखिला प्रगुणां व्यधात् ॥ २८॥ Page #180 -------------------------------------------------------------------------- ________________ १८० श्रीशान्तिनाथचरित्रे ससहायः सपाथेयः समादाय क्रयाणकम् । विदधे सार्थसंयुक्तः स शुभेऽह्नि प्रयाणकम् ॥ २८ ॥ कृत्वाऽनुगमनं तस्य किञ्चिदध्वानमज्जसा । श्रेष्ठ निवर्तमानोऽथ शिक्षामेवंविधामदात् ॥ २० ॥ त्यागिना कृपणेनैव निर्घृणेन दयालुना । विदेशगेन भवता भाव्यं शूरतरेण च ॥ ३१ ॥ सर्वथाऽलब्धमध्यस्त्वं भूया वत्स ! ममाऽऽज्ञया । शिक्षां दत्त्वेति वलितः श्रेष्ठो स प्रचचाल च ॥ ३२ ॥ आगच्छाऽऽगच्छ भोः ! अत्र तिष्ठोत्तिष्ठ व्रज द्रुतम् । इत्यादिवाक्यतुमुलः सार्थमध्ये तदाऽभवत् ॥ २३ ॥ 'श्रीपुरं नगरं प्राप्तस्तत्र चोपसरोवरम् । सार्थोऽस्थात् सार्थनाथस्तु रम्ये पटकुटीतटे ॥ ३४ ॥ तदैकः कम्पमानाङ्गो भयात् चञ्चललोचनः । पुरुषः शरणं कश्चिदु धनदत्तमुपाश्रितः ॥ ३५ ॥ तेनैवं भणितः सोऽथ मा भैषोस्त्वं कुतोऽपि भोः ! । महत्यापराधेऽपि मत्समीपमुपागतः ॥ ३६ ॥ अत्रान्तरे हत हतेतिवदन्त उदायुधाः । आरक्षकनरा एत्य सार्थवाहमदोऽवदन् ॥ ३७ ॥ दासोऽयं नरनाथस्य तस्याऽऽभरणमुत्तमम् । गृहीत्वा हारयामास द्यूतकारस्य सन्निधौ ॥ ३८ ॥ (१) ख घ झ श्रीपुरे नगरे प्राप्ते त- । (५) ङ ज द ग्टहे । Page #181 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । १८१ सद विलोक्य महीभर्तुरस्माभिः प्रतिपादितम् । तेनापि वध्य प्रादिष्टो द्रोहकारीति रोषतः ॥ ३८ ॥ ततो दयाप्रपवेन मन्त्रिणेत्युदितो नृपः । गुप्तौ तिष्ठत्वसौ तावद् याववाऽऽभरणागमः ॥ ४० ॥ ततः कारागृह क्षिप्तो रजन्याः प्रहरेऽन्तिमे । भता तदारक्षकं च हत्वाऽप्येष विनिर्ययौ ॥ ४१ ॥ विज्ञाय वयमप्यस्य पृष्ठे शीघ्रं प्रधाविताः । एषोऽस्य सरसः प्रत्यासवे गूढवनेऽविशत् ॥ ४२ ॥ सतोऽधुना विनिर्गत्य प्रविष्टः शरणे तव । सदयं मुच्यतां राजापथ्यकारी महामते ! ॥ ४३ ॥ उवाच सार्थवाहोऽपि यद्यप्येवं तथाऽपि भोः । सतां नार्पयितुं युक्तः कदाऽपि शरणाऽऽगतः ॥ ४४ ॥ पारक्षका वदन्ति स्म राजादेशकरा वयम् । सोऽवदत् तर्हि राजानं गत्वा विज्ञापयाम्यहम् ॥ ४५ ॥ एवमस्त्विति तैरते सोऽगात् नृपतिसविधौ। तस्य रवाऽऽवली चैकां महामूल्यामढौकयत् ॥ ४६ ॥ राज्ञा सोऽभाणि सार्थेश ! कुत आगमनं तव । तेनापि कथितस्तस्य वृत्तान्तश्च सविस्तरः ॥ ४७ ॥ इति चोक्तं महाराज ! लब्धमाभरणं यदि । तदसौ मुच्यतां मेऽद्य तस्करः शरणागत: ॥ ४८ ॥ राजा प्रोवाच लब्धेऽपि भूषण वधमहति। । यद्यप्येष तथाऽप्यद्य मुक्तः प्रार्थनया तव ॥ ४८ ॥ Page #182 -------------------------------------------------------------------------- ________________ १८२ श्रौशान्तिनाथचरित्रे महाप्रसाद इत्युक्त्वा निजस्थानमगादसौ । पारक्षकनरास्ते च राजदूतन वारिताः ॥ ५ ॥ भोजनं कारयित्वाऽथ तस्करोऽम्यात्मना सह । इत्युक्तो धनदत्तेन मैवं कार्षीद भवान् पुनः ॥ ५१ ॥ सोऽवदद् विनिवृत्तोऽस्मि चौर्यात् सार्थेश ! संप्रति । करिष्यामि व्रतं किञ्चिद् हितं स्वस्य प्रियाय ते ॥ ५२ ॥ अन्यश्च साधुना दत्तो भूतनिग्रहकारकः । मन्त्रः सप्रत्ययो मेऽस्ति ग्राह्योऽवश्यमसौ त्वया ॥ ५३ ॥ जग्टहे प्रार्थनाभङ्गभौरुणा सार्थपेन सः। तस्करोऽपि तमापृच्च्य ययौ खेप्सितहेतवे ॥ ५४॥ दत्तं प्रयाणकं शीघ्रं धनदत्तेन चाग्रतः । गच्छन् क्रमेण संप्राप्तोऽटवीं कादम्बरीमसौ ॥ ५५ ॥ एकस्याश्च महानद्या रोधस्यावासितोऽथ सः । तत्र प्रकर्तमारब्धा सामग्री भोजनादिका ॥ ५ ॥ अत्रान्तरे च सार्थेशो व्याधमेकं ददर्श सः । कष्णरक्तक्षणं चापबाणव्यापृतपाणिकम् ॥ ५७ ॥ सारमेयसमायुक्तं रुदन्तं च सुदुःखितम् । किमेतदिति तं दृष्ट्वा पप्रच्छ च कृताग्रहः ॥ ५८ ॥ सोऽवोचत् शृणु भो भद्र ! मम दुःखस्य कारणम् । इहास्ति पर्वते भिल्लपल्लौगिरिकुडङ्गिका ॥ ५८ ॥ तत्र पल्लीपतिः शूरो विख्यातः सर्वभूभुजाम् । सिंहचण्डोऽभिधानेन प्रचण्डो रणकर्मणि ॥ ६ ॥ Page #183 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । १८३ तस्य सिंहवतो भार्या जीवितादपि वनमा । वर्तते प्राणसन्देहे सा भूतग्रहपीडया ॥ ६१ ॥ पल्लिनाथोऽपि न: स्वामी वियोगऽस्था मरिष्यति । एतेन कारणेनाहं दुःखितो भद्र ! रोदिमि ॥ ६२ ॥ सार्थवाहस्ततोऽवादीदेकवारमह दृशा। पश्यामि तां यतो मेऽस्ति मन्त्रो भूतग्रहापहः ॥ ६३ ॥ तेनाथ पग्लिनाथस्याऽऽचख्ये तोऽपि सत्वरम् । प्रेयसौं तां समादाय तत्समीपमुपाययौ ॥ ६४ ॥ विलोक्य सार्थवाहोऽपि कृत्वा च चकलाकतिम् । मन्त्रजापविधानेन निर्दोषां विचकार ताम् ॥ १५ ॥ जीवदानोपकारं तं कृत्वा पल्लीपतिः स तु। विसृष्टः सार्थवाहेन स्वपल्लों पुनरप्यगात् ॥ ६६ ॥ वलितो धनदत्तोऽपि ततः स्थानात् शनैः शनैः । वेलाकूलगतं प्राप गम्भीराख्यं पुरं वरम् ॥ ६ ॥ कत्वा निवेशं सार्थस्य तस्थुषस्तत्र पत्तने । न मनोवान्छितो लाभो बभूवास्य कथञ्चन ॥ ६८ ॥ ततोऽसौ चिन्तयामास पाश्चात्यप्रहरे निशः । अर्जयिथाम्यहं वित्तमागाह्य सरितां पतिम् ॥ ६८ ॥ इति चिन्तापरस्यास्य विगता सा विभावरी। ततश्चोत्याय शय्याया वेलाकूलमियाय स: ॥ ७० ॥ रङ्गत्तरङ्गमालाभिरभ्युत्थान इवोस्थितम् । विधिन्नः पूजयामास सार्थवाहः सरित्पतिम् ॥ ७१ ॥ Page #184 -------------------------------------------------------------------------- ________________ १८४ श्रीशान्तिनाथचरित्र महगुणगणाऽऽधारं धीवराऽध्यासितं तथा। । साथ सितपटीस्फीतं संसाराम्बुधितारकम् ॥ ७२ ॥ देवताऽधिष्ठितं जैनवाक्यवनैगमान्वितम् । तत्रकं स्वीकृतं तेन यानं द्रव्येण सुन्दरम् ॥ ७३ ॥ (युग्मम्) तत्र संक्रामितं भाण्डं योग्यं देशान्तरस्य यत् । प्रारूढश्च स्वयं श्रेष्ठिसुतो वेलासमागमे ॥ ७४ ॥ 'ततोऽनुकूलपवनप्रेरितं गुरुरंहसा । ययौ महासमुद्रे तदतीत्य बहुयोजनीम् ॥ ७५ ॥ गृहीतामफलं वक्त्रे समायान्तं विहायसा । ददर्शकमथान्येद्युः राजकोरमसौ पुरः ॥ ७६ ॥ परिश्रमवशादेनं पतन्तं वारिधर्जले । धारयित्वाऽऽत्मनः पाखें धीवरैरानिनाय च ॥ ७७ ॥ जलवाताऽऽदिदानेन खस्थीभूत: क्षणेन सः । मुक्ता चञ्चुपटादामफलं कौरवरोऽवदत् ॥ ७८ ॥ सार्थाधिनाथ ! ते नैवोपकर्तुं शक्यते मया । जीवितव्यप्रदानं यत् त्वया चक्रे ममाधुना ॥ ७ ॥ जीवितं ददता मेऽद्य साधो ! जौवापितो त्वया। महत्तजीवनावन्धौ वृद्धौ मत्पितरावपि ॥ ८० ॥ तत: किमुपकुर्वेऽहं तवातुल्योपकारिणः । तथाऽप्येतत् मयाऽऽनीतं फलं चूतस्य गृह्यताम् ॥ ८१ ॥ (१) स ध क लानुकूल-। Page #185 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । १८५ सार्थवाहोऽब्रवीद भट्र ! किमेतेन करोम्यहम् । भक्ष त्वमेव यच्छामि भक्ष्यमप्यन्यदात्मनः ॥ २ ॥ शुकः प्रोवाच सार्थेश ! सुदुष्पापमिदं फलम् । ... अनेकगुणकारि स्यात् श्रूयतामत्र कारणम् ॥ ८३ ॥ अस्त्यत्र भारत वर्षे विन्ध्यो नाम महीधरः । गजेन्द्रभग्नदेवगुगन्धव्याप्तदिगन्तरः ॥ ८४ ॥ प्रसिद्धा विद्यते विन्ध्याऽटवी तस्य समीपगा। तत्रैकस्मिन् द्रुमे कोरमिथुनं मञ्जुभाषकम् ॥ ८५ ॥ तयोः सूनुरहं तौ चानेडमूको बभूवतुः । वृहत्वाञ्च तयोर्भक्ष्यमानीय प्रददाम्यहम् ॥ ८६ ॥ अन्येधुरटवी'प्रान्तवने चूतद्रुमे वरे। यावदस्मि समारूढस्तावत् तत्र समाययौ ॥ ८७ ॥ सुसाधुयुगलं तच्च कला दिगवलोकनम् । निःश विजनत्वेन वार्तामवंविधां व्यधात् ॥८८॥ (युग्मम्) पस्ति मध्ये समुद्रस्य पादे शैलस्य कस्यचित् । प्ररूढः सहकाराख्यः सहक्ष: सफलः सदा ॥ ८ ॥ तस्यैकमपि योऽनाति फलं तस्य शरीरतः । नश्यन्ति व्याधयः सर्वेऽपमृत्युश्च जरा तथा ॥ ४० ॥ सौभाग्यमतुलं रूपं दीप्तिः कान्तिश्च जायते । सत्फले भक्षिते तस्मिन्नेकवारमपि स्फुटम् ॥ ८१ ॥ (२) द -ऽल्पमृत्युश्च । १) ग च ज ठ प्राप्न-। छ -प्राप्तो। २४ Page #186 -------------------------------------------------------------------------- ________________ १८६ श्रीशान्तिनाथचरित्रे तदाकर्ण्य मयाऽचिन्ति सत्यमेतन्न संशयः । 'यद् जायते मुनीन्द्राणां प्रलयेऽप्यन्यथा न गौः ॥ ८२ ॥ ततस्तत्फलमानीय पितृभ्यां प्रददाम्यहम् । येनैतौ तरुणावस्थौ जायेते 'च सुचक्षुषौ ॥ ८३ ॥ चिन्तयित्वेति सार्थेश ! गत्वा तत्र मया द्रुतम् । फलमेतत् समानीतं तदिदं भद्र ! गृह्यताम् ॥ ८४ ॥ अहमन्यत् समानीय पित्रोर्दास्यामि तत्फलम् | भवता ग्राह्यमेवेदं ममानुग्रहहेतवे ॥ ८५ ॥ ततश्च सार्थवाहेन विस्मयोत्फुल्लचतुषा । जग्टहे तत्फलं कोरोऽप्युत्पपात नभस्तले ॥ ८६ ॥ बहूनामुपकाराय देयं कस्यापि भूपतेः । फलमेतदिति ध्यात्वा गोपितं सार्थपेन तत् ॥ ८७ ॥ परकूलमथान्येद्युः प्राप्तं प्रवहणं ततः । दत्त्वाऽऽवासं गृहीत्वा चोपायनं श्रेष्ठिनन्दनः ॥ ८ ॥ ययौ भूमिपतेः पार्श्वे ढोकयित्वाऽथ प्राभृतम् । तत्फलं चार्पयामास परमार्थं निवेद्य तम् ॥८॥ ( युग्मम् ) परितुष्टो मुमोचाथ शुल्कमस्याखिलं नृपः । महाप्रसाद इत्युक्वा निजाssवासमगादसौ ॥ २०० ॥ (१) घ च ज झा, संजायते । (२) खघ झ, दिव्यचक्षुषौ । (३) घ च छ -ऽद्भुतम् । Page #187 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । १८७ विक्रीयाधिकलाभेन भाण्डमादाय चापरम् । वलित्वा च स संप्राप्तो गम्भीराख्यं पुरं 'ततः ॥ १॥ ततश्च प्रस्थितः प्राप्तोऽटवीं कादम्बरों क्रमात् । दत्त्वाऽऽवासं च तत्रास्थात् सलोक: सार्थवाहकः ॥ २ ॥ सुप्तेषु सार्थलोकेषु रात्रौ भाण्डोत्कराट् बहिः । यामिकेषु च जाग्रत्सु यद् जातं तद् निगद्यते ॥ ३ ॥ परिगलितायां रात्रौ लोकैः शुश्रुविर स्वराः । खरा हतहतेत्युच्चैस्तुमुलेन विमिश्रिताः ॥ ४ ॥ उत्तालकाहलारावहक्कानादभयङ्करी। कुतोऽप्यतर्किता तत्र भिल्लघाटी समाययौ ॥ ५ ॥ सब्रह्य सार्थवाहोऽपि सुभटैः परिवारितः । योद्धं सह तया वोरो डुढौके भिल्लसेनया ॥ ६ ॥ पपाठात्रान्तरे बन्दी गुरुदेवार्चने रतः । निर्भयः स्थिरचित्तश्च धनदत्तो जयत्वयम् ॥ ७ ॥ निशम्य धनदत्तस्याभिधां पूर्वोपकारिणः । साशङ्कः पल्लिनाथोऽथ रणात् पत्तीन् न्यवारयत् ॥ ८ ॥ ज्ञात्वा नरप्रयोगेण तदुदन्तं यथातथम् । विशस्त्रो मिलनायास्य सम्मुखश्च ययावसौ ॥ ८ ॥ धनदत्तोऽपि विज्ञाय तमुवाच ससंभ्रमः। अहो कृतज्ञतासार ! स्वागतं स्वागतं तव ॥ १० ॥ (३) क ख ट -थ। (१) ख घ च पुनः। (२) ख ग घ च सार्थनायकः। Page #188 -------------------------------------------------------------------------- ________________ १८८ श्रीशान्तिनाथचरित्रे तावन्योऽन्यं समाश्लिष्य निविष्टावुचितासने । ताम्बूलाद्यौचितीं तस्य सार्थनाथचकार सः ॥ ११ ॥ क्षेमवातां च पप्रच्छ प्रत्यूचे सोऽपि किं मम । पृच्यते येन विदधे प्रतिपत्तिस्तवेशी ॥ १२ ॥ इत्याद्यात्मानमानिन्द्याऽभ्यर्थयित्वाऽथ सार्थपम् । श्रनिनाय निजां पल्लौं पल्लिनाथोऽप्युदारधीः ॥ १३ ॥ स्नानभोजनवस्त्राऽऽद्यैस्तं संमान्य गृहाऽऽगतम् । मुक्ताफलेभदन्ताद्यैः यः पूजयामास चाऽऽदरात् ॥ १४ ॥ ततस्तं समनुज्ञाप्य ग्टहीत्वा वस्तु किञ्चन । स सार्थसहितोऽचालीत् प्राप्तख नगरं निजम् ॥ १५ ॥ प्रविश्य धनदत्तोऽथ महाभूत्या निजे पुरे । स्वभुजोपात्तवित्तेन विदधे स्वविचिन्तितम् ॥ १६ ॥ ददौ दानानि पात्रेषु सञ्चक्रे च सुवासिनीः । गुरूंश्च पूजयामासाकारयत् कीर्तनानि च ॥ १७ ॥ चकार चान्यदप्यात्मचिन्तितं विभवेन सः । तत्र सूरिवरोऽन्येद्युर्विहरन् कश्चिदाययौ ॥ १८ ॥ तत्पार्श्वे धर्ममाकर्ण्य स भूत्वा च महाव्रतो । प्राप्तः क्रमेण निष्कर्मा निर्वाणपद 'मव्ययम् ॥ १८ ॥ इतो नरवरेन्द्रोऽसौ गृहीत्वाऽऽम्रफलं करे | * दध्यौ स्वयं प्राशितेन किमेतेन भवेद्गुणः ॥ २० ॥ (१) ख ग घ ज -मुत्तमम् । Page #189 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । बहुश: कारयित्वाऽहम मून्याम्म्रफलानि चेत् । करोमि बहु लोकस्योपकारं तद् महान् गुणः ॥ २१ ॥ ध्यात्वेत्याज्ञापयामास भूपतिः पुरुषाम् निजान् । वष्यमेतत् शुभस्थाने सहकारो भवेद् यथा ॥ २२ ॥ 'ततस्तैर्विदधे पुभिर्गत्वाऽऽरामे मनोहरे । पाय्यते स्म जलं कृत्वाऽऽलवालं परितोऽस्य हि ॥ २३ ॥ तैव संप्रोषितो राजा पूर्वं तस्याडुरोगमे । प्रत्यहं नवनवर्द्धिकथ कथनाच्च ततः परम् ॥ २४ ॥ क्रमाच्चतवरे तस्मिन् पुष्पिते फलिते सति । यत्नतो रक्षणीयोऽयमिति राजोदिता नराः ॥ २५ ॥ एवं तेषु प्रकुर्वत्सु प्रसुप्तेष्वन्यदा निशि । तस्य दैववशेनैकं पतति स्म फलं भुवि ॥ २६ ॥ तत् प्रभाते महोभर्तुः प्रहृष्टैस्तैः समर्पितम् । देयं पात्त्राय कस्मैचिदिदं चिन्तयति स्म सः ॥ २७ ॥ आकार्य देवशर्माणं चतुर्वेदधरं द्विजम् । अमृताम्म्रफलं तस्मै भक्तिपूर्वं ददौ नृपः ॥ २८ ॥ सोऽप्यात्ममन्दिरे गत्वा पूजयित्वा च देवताम् । तत्फलं भक्षयामास पञ्चत्वं समवाप च ॥ २८ ॥ केनचित् कथितं राज्ञो देवशर्माऽद्य स हिजः । अमृताम्म्रफले तस्मिन् भक्षिते संस्थितः प्रभो ! ॥ ३० ॥ (१) क ख ङट, तैस्तथा । १८ Page #190 -------------------------------------------------------------------------- ________________ १८० श्रीशान्तिनाथचरित्रे सखेदोऽथ नृपः स्माहाहो अकार्यं कृतं मया । पातकं ब्रह्महत्याया धर्मभ्रान्त्या यदर्जितम् ॥ ३१ ॥ नूनमेष विषस्थानः प्रपञ्चं प्रविधाय तम् । मम प्राणविनाशाय केनचित् प्रेषितोऽरिणा ॥ ३२ ॥ ततोऽयं स्वयमुप्तोऽपि पालितोऽपि प्रयत्नतः । बहुप्राणिक्षयङ्कारो छिद्यतां विषपादपः ॥ ३३ ॥ राजादिष्टनराः तीक्ष्ण कुठारैस्तरुपुङ्गवम् । मूलादपि तमाच्छिद्य पातयन्ति स्म भूतले ॥ ३४ ॥ निर्विया जीवितस्याथ कुष्टरोगादिता जनाः । धावितास्तत् समाकण्य विषाऽऽमतरुच्छेदनम् ॥ ३५ ॥ कश्चित् पक्कमपक्कं वाऽईपक्कं चाऽपरस्तथा । तत्फलं भक्षयामास सुखमृत्युविधित्सया ॥ ३६ ॥ तस्मिन् चूतफले चाऽऽत्ते गतरोगव्यथाः क्षणात् । अभूवंस्ते जनाः सर्वेऽप्यमृताशनसन्निभाः ॥ ३७ ॥ दृष्ट्वा तान् विस्मयाऽऽपत्रः चिन्तयामास भूपतिः । अहो असदृशफलं फलमस्य तरोः कथम् ॥ ३८ ॥ 'गतरोगाः कामतुल्या: संजाता यद्यमी जनाः । यजनादिक्रियाऽऽसक्तः तहिप्रोऽयं कथं मृतः ॥ ३८ ॥ व्याहार्याऽऽरक्षकान् तस्यापृच्छत् तचूतजं फलम् । नोटितं किं नु युभाभिगृहीतं वा धरागतम् ॥ ४० ॥ (१। ङट द गतकल्पाः । (२) ठ आकार्य । Page #191 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । १८१ तैश्च सत्ये समाख्याते राजोचेऽहिविषेण तत् । लिप्तं भावि बहिस्तेन विपन्नोऽयं हिजोत्तमः ॥ ४१ ॥ भकार्यमविचार्येदं धिगहो विहितं मया । यदसौ छेदितो रोषात् तरुराजः सुधामयः ॥ ४२ ॥ अकारि सहसा कार्य यथा तेनापरीक्षितम् । तथाऽन्येन न कर्तव्यं महीनाथ ! सुखैषिणा ॥ ४३ ॥ हितीयनहरेऽतीते निशाया वासमन्दिरात् । निर्ययौ वत्सराजोऽत्र प्रविष्टस्तस्य चानुजः ॥ ४४ ॥ राजा दध्यावहो रम्यं कथयित्वा कथानकम् । मम कार्यमहत्वैव वत्सराजो ग्रहं ययौ ॥ ४५ ॥ अथ दुर्लभराजोऽपि तथैव भणितोऽमुना। प्रत्युत्पन्नमति: सोऽपि गत्वाऽऽगत्याऽवदद् नृपम् ॥ ४६ ॥ ढनाथ ! जाग्रतोऽद्यापि तौ हावपि ममाग्रजौ । तत् प्रतीक्ष्य क्षणं कार्य साधयिष्यामि तावकम् ॥ ४७ ॥ राजन् ! कथानकं किञ्चित् कथ्यतां शृणुताथवा । इत्यक्ते तेन सोऽवादीत् त्वमप्याख्याहि तन्मम ॥ ४८ ॥ उवाच दुर्लभोऽत्रैव भरते पर्वतोपरि । अस्ति राजपुरं नाम पुरमद्भुतसङ्गुलम् ॥ ४८ ॥ तत्राऽभूद भूपतिः शत्रदमनोऽन्वर्थसंजितः । रत्नमालाऽभिधा तस्य महिषी प्रेमसंयुता ॥ ५० ॥ अन्यदा तस्य भूपस्याऽऽस्थानाऽऽसौनस्य सन्निधौ । पाजगाम बटुः कश्चित् प्रतीहारनिवेदितः ॥ ५१ ॥ Page #192 -------------------------------------------------------------------------- ________________ १८२ श्रीशान्तिनाथचरित्रे व्यग्रत्वाद् भूपतेः सोऽथोपविश्यास्थाद नृपस्तथा । विसृज्याऽऽस्थानमभ्यङ्गस्नाने चक्रे श्रमापहे ॥ ५२ ॥ देवपूजनवेलायामथ तस्य महीपतेः । सपुष्पबटुरागत्य प्रसूनानि समार्पयत् ॥ ५३ ॥ कस्त्वं भद्रेति राज्ञोक्तः सोऽवोचद् यज्ञदत्तस्रः । अहं शुभङ्करो नाम्ना विप्रोऽरिष्टपुरस्थितिः ॥ ५४ ॥ निजगेहाद विनिर्गत्य देशदर्शन कौतुकी । भ्रमन्त्रिह समायातः समीपे ते महोपते ! ॥ ५५ ॥ प्रक्कत्या विनयौ सोऽथ स्वसमीपे महीभुजा । स्थापितस्तत्र निश्चिन्तस्तस्थौ चापि शभङ्करः ॥ ५६ ॥ शूरस्त्यागौ प्रियाभाषी कृतज्ञो दृढसौहृदः । विज्ञानी स्वामिभक्तश्च स सर्वगुणमन्दिरम् ॥ ५७ ॥ अतिगौरवतो राज्ञा शुद्धान्तादिष्ववारितः । सर्वत्राऽवलितो जज्ञे गुणवान् स शुभङ्करः ॥ ५८ ॥ अन्यदा नगरस्याऽस्य समीपे हरिराययौ | व्याध एकः समागत्य तमाचख्यौ महीपतिम् ॥ ५८ ॥ सेनया चतुरङ्गिण्या संयुक्तः सशुभङ्गरः । वधार्थं मृगराजस्य निर्ययौ नगराद नृपः ॥ ६ H ज्ञात्वाऽथ व्याधवचनात् तं सिंहं वनमध्यगम् । वनार्वाक् स्थापयामास सैनिकानखिलानृपः ॥ ६१ ॥ (१) ख ङ ट ढपस्तदा । (३) (२) घ च भूभुजा | खघ तो गौरवितो । ज ट प्रतिगौरवितो । ✩ * Page #193 -------------------------------------------------------------------------- ________________ चतुर्थ: प्रस्तावः । स्वयं तु स्वयशःकाङ्क्षी समारूढः स कुञ्जरम् । ययौ केशरिणः पार्श्वे शुभङ्करपुरस्मरः ॥ ६२ ॥ विदारिताssस्यः सिंहोऽपि रक्ताचः सज्जितक्रमः । उत्पपाताम्बरतले प्रपित्सुः पार्थिवोपरि ॥ ६३ ॥ मा भूद मत्स्वामिनः पोडेति ध्यायन् स शुभङ्करः । निपतन्तं जघानैनं मुखे चिट्ठाऽङ्कुशं शितम् ॥ ६४ ॥ राजोचे न त्वया साधु विदधे भो: शुभङ्कर ! | मया जिवांसितः सिंहो यत् चापल्याद् हतोऽन्तरा ॥६५॥ न केवलं मृगारातिस्त्वयाऽयं निहतोऽद्य रे ! । मध्ये सर्वनरेन्द्राणां मद्यशोऽपि हतं खलु ॥ ६६ ॥ सोऽवदद् भवतां देव ! देहापायाभिशङ्कया । मया व्यापादितोऽयं हि न तु खोत्कर्षकाम्यया ॥ ६७ ॥ अन्यच्च निहतः स्वामि' प्रभावेणैव केशरी । अन्यथा शृणिमात्रेण कथमस्य निकृन्तनम् १ ॥ ६८ ॥ कथयिष्यामि सैन्यानामग्रे यत् स्वामिना स्वयम् । हर्यक्षो निहतस्तत् त्वं माऽप्रसादं व्यधा मयि ॥ ६८ ॥ इदं कार्यं तु प्रत्यक्षमावयोरेव तत् प्रभो ! | चतुष्कर्णस्य मन्त्रस्य नास्य भेदो भविष्यति ॥ ७० ॥ राजा प्रोवाच यद्येष मन्त्रो भावी स्फुटः सखे !! तदा मे भविता लोकेऽलोकवादिकलङ्कृता ॥ ७१ ॥ ( १ ) २५ ङ ञ ट ण प्रसादेनैव | १८३ Page #194 -------------------------------------------------------------------------- ________________ १८४ श्रीशान्तिनाथचरित्रे शुभङ्करोऽब्रवीत् किं न श्रुतमेतत् त्वया प्रभो ! | साधोः समर्पितं गुह्यं सह तेनैव दह्यते ॥ ७२ ॥ ततस्तौ सिंहमादाय सैन्यमध्ये समागतौ । इति व्यावर्णयामास तदग्रे च बटुः प्रभुम् ॥ ७३ ॥ त्यजन्ति यस्य नादेन मदं मत्तदिपा अपि । लीलया निहतः सोऽद्य स्वामिना नखरायुधः ॥ ७४ ॥ तत पत्तिसामन्ताः संजातामितसंमदाः । शिरांसि धूनयन्तस्ते प्राशंसन् पौरुषं 'प्रभोः ॥ ७५ ॥ भर्तुर्जयमहे तेऽथ संप्राप्ता नगरान्तरे । सुवपनकं चक्रुस्तूर्यनादपुरस्परम् ॥ ७६ ॥ महोत्सवमये तस्मिन्नतोते लघुवासरे । विसृज्याऽऽस्थानलोकं राट् ययौ देव्या निकेतनम् ॥ ७७ ॥ पप्रच्छ देवी नाथाय पुरे किं कश्चिदुत्सवः ? | वर्तते तूर्यनिर्घोषो यदयं श्रूयते महान् ॥ ७८ ॥ राजा प्रोवाच हे देवि ! यन्मया निहतो हरिः 1 ततोऽयं विहितो भूपैर्वर्द्धापनमहोत्सवः ॥ ७८ ॥ प्रत्यूचे सा पुनर्नाथोत्तमवंशोद्भवस्य ते । किमिदं युज्यते कर्तुं स्वस्याऽलोकप्रशंसनम् ? || ८० ॥ शुभङ्करेण बटुना सिंहो व्यापादितो यतः । संवर्द्धनमहोऽकारि यशोलुब्धेन तु त्वया ॥ ८१ ॥ (१) ज सोऽपि । (२) ङ ज विभोः । Page #195 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । १८५ तच्छ्रुत्वा भूपतिः क्रुद्धो दध्यौ तस्य दुरात्मनः । पश्य दुश्चरितं कीदृक् स्फुटं मिथ्याऽभिभाषिणः ॥ ८२ ॥ गुह्यं कस्यापि नाख्येयमित्युदित्वा पुरो मम । . तदैव कथयामास देव्याः खोत्कर्षलम्पटः ॥ ८३ ॥ प्रच्छन्नं मारणीयोऽयं तन्मया मर्मभाषकः । इति ध्यावाऽऽरक्षकस्य शिक्षा तां प्रददौ नृपः ॥ ८४ ॥ तेन व्यापादितः सोऽथ निजगेहमुपागतः । सिद्धं तद् देव ! ते कार्य भर्तुश्चेति निवेदितम् ॥ ८५ ॥ अन्यस्मिंश्च दिने देवी पप्रच्छ जगतीपतिम् । शुभकरबटुर्नाथ ! दृश्यते नाधुना कथम् ? ॥ ८६ ॥ बभाण भूपतिस्तस्य ग्राह्यं नामापि न प्रिये !। सोचेऽपराइं किं तेन तव देव ! महात्मना ? ॥ ८७ ॥ ततस्त द्विषये राज्ञा स्वाभिप्राये निवेदिते । 'तयोक्तं न ममाऽऽख्यातं तेनेदं सिंहमारणम् ॥ ८८ ॥ किं तु दृष्टं मयैवेदं प्रासादे सप्तभूमिके । प्रारूढया कौतुकेन नास्य दोषोऽत्र कश्चन ॥ ८८ ॥ देव ! सत्यं समाख्याहि किं जीवति मृतोऽथ सः १ । इति पृष्टे तया भूपो भूयः सानुशयोऽवदत् ॥ १० ॥ अकार्य हा ! मया देवि ! कतमद्य महत्तरम् । यदसौ घातितः सर्वगुण रत्ननिधिर्बटुः ॥ ८१ ॥ (१) ङ त द देव्योकम् । (२) ङ ममाख्या-1 Page #196 -------------------------------------------------------------------------- ________________ १८६ श्रीशान्तिनाथचरित्रे नास्ति मत्सदृशः कश्विदविमर्शितकारकः । कृतोपकारं निघ्नंस्तं कृतघ्नोऽप्यहमेव हि ॥ ८२ ॥ अभाणि देव्या रभसकृतानामिह कर्मणाम् । विपाको हृदये दाही स्यादाजन्मापि शल्यवत् ॥ ८३ ॥ राजन् ! रात्रेविनोदाय कथितेयं कथा मया । कथायाः परमार्थस्तु श्लोकयुग्मेन कथ्यते ॥ ८४॥ तद्यथा भक्तः सर्वगुणैर्युक्तो हतो येन शुभङ्गरः । कृतघ्नो भूतले शत्रुदमनात् कोऽपि नापरः ॥ ८५ ॥ अकारणोत्पन्नरोषे हिंसा निर्दोषमानुषे । कार्या नरेण नो शत्रुदमनेन कृता यथा ॥ ८६ ॥ आख्याय सत्कथामेतां गते यामे तृतीयके । रात्रेर्दुर्लभराजोऽपि समुत्थाय ययौ गृहम् ॥ ८७ ॥ assसोनमथो कीर्तिराजं भूपतिरब्रवीत् । [T कार्यमेकं मामकीनं त्वया सेत्स्यति किं न वा ? ॥ ६८ ॥ सोऽप्यवोचत् न चेत् कार्यं साधयिष्यामि ते विभो ! | तत् त्वामाराधयिष्यामि चलते हमहं कथम् ? ॥ ६६ ॥ भ्रातुः शीर्षमानयैति भणितः सोऽथ भूभुजा । गतप्रत्यागतं कृत्वा किञ्चिदूचे सुधीरिदम् ॥ ३०० ॥ शर्वर्याः प्रान्तकालत्वात् सर्वे जाग्रति यामिकाः । पुनः प्रस्तावे देवायं तवाऽऽदेशो विधास्यतं ॥ १ ॥ Page #197 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । १९७ सोऽपि प्रस्तावनां कृत्वाऽनुज्ञात: पृथिवीभुजा। कथा कथयति स्मैनां तस्य मन्यविनाशिनीम् ॥ २ ॥ इहाभूद् भरतक्षेत्रे महापुरपुर नृपः । शत्रुञ्जयाभिधस्तस्य प्रियङ्गुरिति वल्लभा ॥ ३ ॥ अन्यदा नैगम: कमिद जात्यमेकं तुरङ्गमम् । . भूपतेर्होकयामास तस्य देशान्तरागतः ॥ ४ ॥ पृष्ठे पर्याणमाधाय तनाऽऽरुह्य महीपतिः । वाहयामास वाहं तं गतिविज्ञानहेतवे ॥ ५ ॥ वेगात् प्रधाविते तस्मिन् तस्य शिक्षाविपर्ययम् । सामन्तानां समाचख्यौ स वणिग् पूर्व विस्मृतम् ॥ ६ ॥ ततोऽवषु समारुह्याऽऽदाय भक्ष्य जलाऽऽदिकम् । गच्छन्तं तं महीपालमनुजग्मुः पदातयः ॥ ७ ॥ अथ वेगं निरुन्धाने पार्थिवे स तुरङ्गमः । तं जग्राह विशेषेण वैपरीत्येन शिक्षितः ॥ ८ ॥ आकुञ्चनेन वलायाः पाणिभ्यां रक्तमक्षरत् । भूपति: सोऽथ निविस्मो मुमोच शिथिलामिमाम् ॥ ८ ॥ अश्खोऽप्यस्यां विमुक्तायां पदमा चचाल न । ततो दुःशिक्षित इति तं विवेद महीपतिः ॥ १० ॥ तस्मादुत्तीर्य पर्याणमथापनयति स्म सः । जातनोटस्तुरङ्गोऽपि पतित्वा भूतले मृतः ॥ ११ ॥ भीमाटव्यामथो तस्यां दवदग्धवनान्तरे । तृष्णाक्षुधापीडिताङ्गो बभ्राम पृथिवीपतिः ॥ १२ ॥ Page #198 -------------------------------------------------------------------------- ________________ १९८ श्रीशान्तिनाथचरित्रे वटमेकमथाऽद्राक्षीद् दीर्घशाखं सुविस्तृतम् । श्रान्तो गत्वा शनैस्तस्य च्छायायां निषसाद सः ॥ १३ ॥ पार्श्वावलोकनं तेन कुर्वाणेन निरीक्षिताः । तरोस्तस्यैव शाखायाः पतन्तो जलबिन्दवः ॥ १४ ॥ ततः सोऽचिन्तयदिदं वर्षाकालोद्भवं जलम् । शाखारन्ध्रे स्थितमियत्कालं पतति संप्रति ॥ १५ ॥ पलाशभाजनं सोऽथ कृत्वा तत्र न्यवेशयत् । क्रमेण पूरितं तत् चेषन्नौलकलुषाम्बुना ॥ १६ ॥ तद् ग्टहीत्वा नृपः पातुं यावदभ्युद्यतोऽभवत् । तावत् तत्राऽऽययौ पक्षी कश्चिदुत्तीर्य पादपात् ॥ १७ ॥ नीरभाजनं तेन पातितं नृपतेः करात् । तद् तथैव तरुशाखायां गत्वा तस्थौ च 'स स्वयम् ॥ १८ ॥ विलक्षो भूपतिर्भूयः कृत्वा पूर्णं जलस्य तत् । यावत् पास्यति तेनैवापाति तावद् विहायसा ॥ १८ ॥ ततः प्रकुपितो भूपो दध्यौ भूयः समेष्यति । यद्येष पक्षी दुष्टात्मा मारणौयस्तदा मया ॥ २० ॥ चिन्तयित्वेति जग्गृहे कशामेकेन पाणिना । जलार्थं स्थापयामास द्वितीयेन पुनः पुटोम् ॥ २१ ॥ दध्यौ च विहगः सोऽथ कुपितोऽयं महीपतिः । चेत् पुटं पातयिष्यामि तद् मामेष हनिष्यति ॥ २२ ॥ (१) द सत्वरम् । (२) ज ह पुत्रम् | Page #199 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । नो चेद् विषे निपीतेऽस्मिन् मरिष्यत्येष निश्चितम् । ततो वरं विपन्नोऽहं न त्वसौ लोकपालकः ॥ २३ ॥ एवं विचिन्त्य भूयोऽपि पातितं तेन तत्करात् । कशाऽऽघातेन राज्ञा च पक्षीन्द्रोऽपि निपातितः ॥ २४ ॥ पुनः प्रहृष्ट चित्तेनास्थापि राज्ञा पुटोऽम्भसे । क्रमेण नौरकं तत् तु पतति स्माग्रतोऽग्रतः ॥ २५ ॥ ततश्चोत्थाय भूपाल: किमेतदिति शङ्कितः । यावद् व्यलोकयत् तावद् ददर्शाजगरं तरौ ॥ २६॥ सोऽथ दध्यौ मुखादस्य सुप्तस्य गरलं किल । पतदेतदपास्यं चेदमरिष्यं तदा ध्रुवम् ॥ २७ ॥ पश्याहो ! पक्षिणाऽनेन चेष्टामाबिभ्रता सताम् । मम प्राणकृते प्राणास्तृणवत्कल्पिता निजाः ॥ २८॥ हा ! वृथा कोपयुक्तेन परमार्थमजानता । मया निष्ठुरचित्तेन हतः पक्षिवरोऽसता ॥ २८ ॥ इति खेदपरस्यास्य समेयुस्तत्र सैनिका: । दृष्ट्वा स्वस्वामिनं ते च सद्यो मुमुदिरेतराम् ॥ ३० ॥ नौराऽऽहाराऽऽदिभिः स्वस्थोभूतोऽथ जगतीपतिः । पक्षिणं तं समादाय निजं पुरमथाऽऽययौ ॥ ३१ ॥ विधाय पचिदेहस्य दाहं चन्दनदारुभिः । दत्त्वा जलाञ्जलिं तस्य स आगाद् निजमन्दिरम् ॥ ३२ ॥ पृष्टो दुःखाऽऽसनस्थोऽसौ तत्र सामन्तमन्त्रिभिः । प्रेतकार्यं पक्षिणोऽपि कृतं स्वस्येव किं विभो ! ॥ ३३ ॥ १९६ Page #200 -------------------------------------------------------------------------- ________________ २०० श्रीशान्तिनाथचरित्रे ततो राजा निजां वाती यथावृत्तां न्यवेदयत् । पक्षिघातानुशयं च विसस्मार कदापि न ॥ ३४ ॥ यदेवमनुतापः स्यादविचारितकारिणाम् । ततो विचार्य कर्तव्यं कार्यं सुन्दरबुद्धिभिः ॥ ३५ ॥ कथयित्वा कथामेतां कीर्तिराजे स्थिते सति । प्रातस्तूर्यरवो जज्ञे पेठुर्मङ्गलपाठकाः ॥ ३६ ॥ अयोत्थाय ययौ कीर्तिराजो राजाऽभ्यचिन्तयत् । हन्तैकचित्ताः सर्वेऽमी तद् न जातं ममेप्सितम् ॥ ३७ ॥ दास्यानीतजलेनाथ प्रक्षाल्य वदनं नृपः । कृत्वा सुवेषमास्थानमण्डपे निषसाद सः ॥ ३८ ॥ अत्रान्तरेऽलकन्यस्तक रद्दन्दः प्रसन्नवाक् 1 एत्य विज्ञापयामास देवराजो महीपतिम् ॥ ३८ ॥ यदि देवोऽनुजानाति किञ्चिद विज्ञापयामि तत् । क्रुद्धेनाप्यमुना सोऽथानुज्ञातः संज्ञया भ्रुवोः ॥ ४० ॥ ततः पिशाचवचनश्रवणाऽऽदिकथाऽखिला । राज्ञोऽग्रे कथिता तेन भयविस्मयकारिणी ॥ ४१ ॥ आक्कष्य वासभवनाद दिखण्डं तदहेर्वपुः । अदर्शि चास्य विद्वेषविषनाशनभेषजम् ॥ ४२ ॥ राजाऽथ चिन्तयामास हा ! अनेन महात्मना । मम जीवितरक्षाऽर्थं विहितं पश्य कोदृशम् ? ॥ ४३ ॥ असमोचितकारित्वात् परोपक्कृतिकार्यपि । विघातयितुमारब्धो मयाऽसावपि पाप्मना ॥ ४४ ॥ Page #201 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । एतैश्च वत्सराजाद्यैः कथाऽऽख्यान विचक्षणैः । तत् साधु विदधे यद् न निहतोऽयं नरोत्तमः ॥ ४५ ॥ ऊचे च खपरीवारमेते सर्वगुणाऽऽस्पदम् । कुलदेवतया दत्ता अपुत्रस्य सुता मम ॥ ४६ ॥ ततोऽहं स्थापयिष्यामि देवराजं महोपतिम् । कुमारं वत्सराजं च ग्रहीष्यामि व्रतं स्वयम् ॥ ४७ ॥ एवमाकर्ण्य 'लोकेन प्रोक्तं देव ! प्रतीक्ष्यताम् । कालं 'कञ्चित् ततश्चान्त्यकाले कुर्या इदं खलु ॥ ४८ ॥ राजा प्रोवाच मदुवंश्या अदृष्टपलिता नृपाः । प्रतिपद्य व्रतं कृत्वा तपश्च सुगतिं गताः ॥ ४८ ॥ अहं पुनरियत्कालं स्थितो राज्यधरं विना । इदानीं तु करिष्यामि निश्चयेन समोहितम् ॥ ५० ॥ ततो दैवज्ञनिर्दिष्टे सुमुहर्ते महीपतिः । देवराजं नृपं चक्रे कुमारं चापरं तथा ॥ ५१ ॥ अन्येद्युर्नन्दनवनोद्याने तत्र समाययौ । बहुशिष्यपरीवारः श्रोदत्त इति साधुराट् ॥ ५२ ॥ उद्यानपालकेनास्य समाख्याते समागमे । ववन्दे परया भक्त्या गत्वा तं जगतीपतिः ॥ ५३ ॥ उपविश्य यथास्थानं श्रुत्वा सद्धर्मदेशनाम् । संप्राप्यावसरं सोऽथ पप्रच्छेवं कृताञ्जलिः ॥ ५४ ॥ (१) द लोकैश्च । २०१ २६ (२) ख घ ङ द किञ्चित् । Page #202 -------------------------------------------------------------------------- ________________ २०२ श्रीशान्तिनाथचरित्रे प्रभो ! प्रोक्तः पिशाचाभ्यां यदि नाम ममात्ययः । देवयोन्युदितस्यापि तस्याभूदत्ययः कथम् ॥ ५५ ॥ सूरिराख्यदहो राजन् ! गौरी नाम गृहास्तव । बभूव रूपसम्पन्ना वैश्यवंशसमुद्भवा ॥ ५६ ॥ कर्मदोषेण केनापि जाता दौर्भाग्य दूषिता । सातवानिष्टा दृष्टा दृट्याऽप्यसौख्यदा ॥ ५७ ॥ ततः सा जातवैराग्या गत्वा पिटग्टहे निजे । अज्ञानतपसाऽऽत्मानं शोषयित्वा व्यपद्यत ॥ ५८ ॥ संप्राप्तव्यन्तरोभावा स्मृत्वा तं पूर्वमत्सरम् । अधिष्ठायौरगं कायं प्रविष्टा सा तवाऽऽलये ॥ ५८ ॥ कृत्वा पिशाचयो रूपं कुलदेवतया तव । ज्ञापितो देवराजोऽर्थममुं त्वत्क्षेमहेतवे ॥ ६० ॥ अचिन्त्या मानुषैर्देवी शक्तिर्यद्यपि वर्त्तते ॥ तथापि पौरुषं तेजः चमं तल्लङ्घने यतः ॥ ६१ ॥ महाविषधरः क्रूरो व्यन्तर्याऽधिष्ठितोऽपि सः । बलिना देवराजेन लीलयैव हतस्ततः ॥ ६२ ॥ ( युग्मम् ) सूरिं विज्ञपयामास पुनर्नत्वाऽथ भूपतिः । भाग्योदयेन मुक्तोऽहममुष्माद् व्यसनात् प्रभो ! ॥ ६३ ॥ भाग्यमेव ततः कर्तुं युज्यतेऽतः परं मम । तद् देहि दत्त ! सुव्रज्यां प्रव्रज्यां शुभदेहिनाम् ॥ ६४ ॥ ततश्च सूरिणा सूत्रविधानेनैष दीक्षितः । महाव्रतानि चारोप्य शिक्षितः सङ्घसाक्षिकम् ॥ ६५ ॥ Page #203 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । स चास्य कथयामास प्रतिबोधविधायकम् । ज्ञाताधर्मकथाऽऽदिष्टं रम्यं भावि कथानकम् ॥ ६६ प्रसिद्धे मगधे देशे पुरे राजगृहाभिधे । श्रेष्ठी लक्ष्मना वैश्रवणोपमः ॥ ६७ ॥ २०३ धनो नामाभवत् धारिणी गृहिणी तस्य सुतास्तत्कुक्षिसम्भवाः । पुरुषार्था इवाभूवन् चत्वारस्तस्य विश्रुताः ॥ ६८ ॥ प्रथमो धनपालाख्यो धनदेवो द्वितीयकः । धनगोपस्तृतीयश्च चतुर्थो धनरक्षितः ॥ ६८ ॥ उका भागिका चैव धनिका रोहिणी तथा । तेषां भार्याः क्रमेणैताः चतस्रो जज्ञिरे शुभाः ॥ ७० ॥ सुप्तजागरितोऽन्येद्युः स श्रेष्ठो धनसंज्ञकः । यामिन्याः पश्चिमे यामे चिन्तां चक्रे निजौकसः ॥ ७१ ॥ यथा सर्वगुणाऽऽधारैः पुरुषैर्वर्तते ग्टहम् । गृहिण्याऽपि तथैवेदं विदुः शास्त्रविदो यतः ॥ ७२ ॥ भुङ्क्ते गृहजने भुक्ते सुप्ते स्वपिति तत्र या । जागतिं प्रथमं चास्मात् सा गृहश्रोर्न गेहिनी ॥ ७३ ॥ ततः परीक्ष्य जानामि स्वामिनो का भविष्यति ? | मध्याद् वधूनामेत्तासां ग्टहस्याधिगुणा मम ॥ ७४ ॥ विचिन्त्येनि समादेशं 'स्नुषाणां प्रददौ प्रगे । सारा रसवती सर्वा प्रगुखीक्रियतामिति ॥ ७५ ॥ (१) ख घ ङ सूहानां । Page #204 -------------------------------------------------------------------------- ________________ २०४ श्री शान्तिनाथचरित्रे तासां वधूनां स्वजनवर्गं सर्वं निमन्त्रा तम् । पौरं चान्यजनं श्रेष्ठौ भोजयामास गौरवात् ॥ ७६ ॥ संमान्य वस्त्रताम्बूलाऽऽदिभिः सर्वमथो जनम् । दत्त्वा शालिकग्णान् पञ्च प्रोचे ज्येष्ठवधूमिति ॥ ७७ ॥ प्रत्यक्षं सर्वलोकानां मया होते तवापिताः । मार्गयामि यदैवाहमर्पणीया' स्तदा सुषे ! ॥ ७८ ॥ विसृष्टा तेन गत्वाऽथ विजने सेत्यचिन्तयत् । नूनं बद्धस्वभावेन जातो मे श्वशुरो विधीः ॥ ७८ ॥ एवं मेलापकं कृत्वा दत्ता येन कणा इमे । अन्यान् तस्यार्पयिष्यामीति ध्यात्वा त्यजति स्म तान् ॥ ८० ॥ एवं दत्ता द्वितीयस्याः साऽपि दध्यौ तथैव हि । परं सा वितुषान् कृत्वा कणान् भक्षयति स्म तान् ॥ ८१ ॥ तृतीयया तु संचिन्त्य कार्यमेतद् गुरोरिति । रक्षितास्ते सुवस्त्रेण बड्वा भूषणमध्यगाः ॥ ८२ ॥ *ते कणास्तुर्यवद्धा च स्वबन्धूनां समर्पिताः । उप्ता वर्षासु संरूढा जाताश्चातिफलान्विताः ॥ ८३ ॥ प्रथमे वत्सरे तेषामभूत् प्रस्थोऽपरेषु च । संजाता बहवः कुम्भास्ततः कुम्भशतान्यपि ॥ ८४ ॥ ( १ ) ङ - स्त्वया । (२) ङ चतुर्था मनसि ध्यात्वा लात्वा पञ्च कणानि च । गत्वा च पैट के गेहे दापयति म निश्चला ॥ ८३ ॥ Page #205 -------------------------------------------------------------------------- ________________ ( १ ) चतुर्थ: : प्रस्तावः । २०५ अभूवन् पञ्चमे वर्षे शालिपल्यशतान्यथ । पुनर्निमन्त्य लोकं तं श्रेष्ठी भोजयति स्म च ॥ ८५ ॥ मार्गयामास तान् पञ्च कणान् ज्येष्ठवधूं ततः । पल्यान्तरात् समानीयाऽर्पयामास सकाऽपि तान् ॥ ८६ ॥ देवगुर्वादिशपथपूर्वं भणितया तया । : तस्य सत्यं समाख्यातं रुष्टः श्रेष्ठी ततोऽवदत् ॥ ८७ ॥ मया समर्पिताः शालिकणा यद्यनयोज्झिताः । रजोभस्मगोमयाऽऽदि त्याज्यं तदनया गृहात् ॥ ८८ ॥ 'पृष्ट्वा शालिकगोदन्तं द्वितीयाऽपि स्नुषाऽमुना । कृता रसवतोमुख्यग्टहव्यापारकारिणौ ॥ ८६ ॥ चक्रे वधू तृतीया च शालिरक्षाविधायिनी । मणिमौक्तिक हेमादिभाण्डागाराधिकारिणी ॥ ८० ॥ शालि free साथ चतुर्थी रोहिणी वधूः । गृहस्य स्वामिनी चक्रे श्रेष्ठिना दीर्घदर्शिना ॥ ८१ ॥ यथायुक्तविधानेन कृत्वैवं सुस्थितं गृहम् । निश्चितं स व्यधात् श्रेष्ठी धर्मव्यापारमन्वहम् ॥ ८२ ॥ श्रेष्ठतुल्यो गुरुर्ज्ञेयः स्रुषातुल्याश्च दीक्षिताः । योज्या महाव्रतानां च पञ्चशालिकणोपमाः ॥ ८३ ॥ सङ्घश्चतुर्विधोऽप्यत्र कुलमेलनसन्निभः । महाव्रतप्रदानं च तत्समक्षं विधीयते ॥ ८४ ॥ ङ द्वितीयां भक्षितां ज्ञात्वा पाकस्थाने नियोजिता । तयां रचितां ज्ञात्वा भाण्डागाराऽधिकारिणीम् ॥ ८६ ॥ Page #206 -------------------------------------------------------------------------- ________________ श्रौशान्तिनाथचरित्र उझिकातुल्य आख्यात: शिष्यः त्यक्तव्रतो हि यः । इह लोके परलोके स भवेद् दुःखभाजनम् ॥ ४५ ॥ लिङ्गमानोपजीवी यः स द्वितीयस्नुषासमः । व्रतपालनसंप्रीतो भाण्डागारवधूपम: ॥ ८६ ॥ धर्मदेशनयाऽन्येषामप्यारोप्य व्रतानि यः । सूरिस्तदृद्धि कारौ स्यात् स रोहिण्या समो मतः ॥ ८७ ॥ श्रीवीरजिनकालेऽदो भविष्यति कथानकम् । ततो व्रतानि पञ्चानाऽधुना चत्वारि तानि तु ॥ ८८ ॥ एवं शिक्षाकथां श्रुत्वा जितशत्रु'महीपतिः । प्रव्रज्यां पालयामास श्रीदत्तगुरुसन्निधौ ॥ ६ ॥ तट् भो भव्याः ! अहिंसाऽऽदिलक्षणं धर्ममुत्तमम् । परीक्ष्य विदधीतति क्षेमङ्गरजिनोऽब्रवीत् ॥ ४०० ॥ दुःखपर्वतदम्भोलिर्भाजनं सुखसन्ततः । अहिंसा व्रतमुख्या सा वर्गमोक्षविधायिनी ॥ १ ॥ सत्येन लभ्यते कीर्तिः सत्यं विश्वासकारणम् । सत्यं जयति लोकेऽस्मिन् द्वितीयं धर्मलक्षणम् ॥ २ ॥ अदत्तत्यागतो नृणां राजदण्डो न जायते । विशिष्टजनसंयोगो निर्भयत्वं च जायते ॥ ३ ॥ ब्रह्मव्रतेन तेजस्वी सुभगश्च भवेद् नरः । नपुंसकत्वं तिर्यक्त्वं कदापि न लभेत च ॥ ४ ॥ (१) ज महामुनिः। Page #207 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । अभिग्रहेण वि तस्य चित्तं सन्तोषपूरितम् ।। मुक्तिश्च क्रमयोगेन जायते भव्यदेहिनः ॥ ५ ॥ एतेषु नियतं धर्मलक्षणेष्वपि पञ्चसु । यूयं महानुभावा भोः ! प्रयत्नं कुरुतान्वहम् ॥ ६ ॥ श्रुत्वेमा देशनां जीवाः प्रतिबुद्धा अनेकशः । प्रावति च जिनेन्द्रेण तीर्थं गणधराऽऽदिकम् ॥ ७ ॥ वज्रायुधोऽपि धर्मस्य प्रतिपत्तिं विधाय ताम् । प्रणम्य भगवन्तं च प्रविवेश पुरौं निजाम् ॥ ८ ॥ अन्यदाऽऽयुधशालायां चक्ररत्नं सुनिर्मलम् । समुत्पन्नं तस्य यक्षसहस्राऽधिष्ठितं वरम् ॥ ८ ॥ विधायाष्टदिनान्यस्य पूजां तदनुगाम्यसौ।। षट्खण्डं साधयामास विजयं मङ्गलावतीम् ॥ १० ॥ ततो निजपुरी प्राप्तः चक्रवर्तिश्रियाऽञ्चितः । सहस्रायुधपुत्रं स यौवराज्ये न्यवेशयत् ॥ ११ ॥ अन्यदाऽऽस्थानमासीन: स वज्रायुधचक्रभृत् । अभूद यावद् नृपामात्यपदातिपरिवारितः ॥ १२ ॥ तावद् नभस्तलात् कश्चिदेत्य विद्याधरो युवा । भयात् प्रकम्पमानाङ्गः शरणं तं समाश्रितः ॥ १३ ॥ तस्य पृष्ठे वरा काचित् खड्गखेटकधारिणी। आगाद विद्याधरी विद्याधरश्चैको 'गदाधरः ॥ १४ ॥ (१) ङ युवा पुनः । Page #208 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे खेचरेणाऽमुना चक्री भणितः सपरिच्छदः । पापकर्म कतेरस्यापराधः श्रूयतामिति ॥ १५ ॥ . अहं सुकच्छविजये वैताये शुक्लपू:स्थितः । पुत्रः पवनवेगाख्यः शुक्लदत्तस्य भूपतेः ॥ १६ ॥ सुकान्ता नाम मे कान्ता तस्याः कुक्षिसमुद्भवा । एषा शान्तिमती नाम्ना मम पुत्री शुभाकृतिः ॥ १७ ॥ अथान्येद्युमया दत्तामिमां प्रज्ञप्तिसंजिकाम् । ययौ साधयितुं विद्या मणिसागरपर्वते ॥ १८ ॥ विद्या प्रसाधयन्तीयं हृताऽनेन दुरात्मना। अत्रान्तरे च विद्या सा सिद्धाऽस्या भक्तिरजिता ॥ १८ ॥ तस्या बिभ्यट् विवेशायं युष्माकं शरणे प्रभो ! । तत्रापश्यन् नगे पुत्रीमत्रागामहमप्यरम् ॥ २० ॥ तदेनं मत्सुताशील विध्वंसनरुचिं बलात् । मुञ्च राजन् ! यथै केन गदाऽऽघातेन हन्म्यहम् ॥ २१ ॥' : अवधिज्ञानतो ज्ञात्वा तत्पूर्वभवचेष्टितम् । • प्रतिबोधक्कते तेषां चक्री वजायुधोऽब्रवीत् ॥ २२ ॥ . कारणेन हृता येन पुत्री पवनवेग ! ते। खेचरणाऽमुना तत् त्वं शृण्वहं कथयामि भोः ! ॥ २३ ॥ विज्ञाय ज्ञानमाहात्मा सर्वे सभ्या निजप्रभोः । श्रोतुमभ्यु यता जाताः स चाऽऽचख्याविदं स्फुटम् ॥ २४ ॥ (१) द -रते Page #209 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २०६ होपस्यास्यैव विशदैरवतक्षेत्रमध्यगे । पुरे विष्यपुरे राजा विध्यदत्ताभिधोऽभवत् ॥ २५ ॥ पत्नी सुदक्षिणा तस्य जज्ञे तत्कुक्षिसम्भवः । तनयो नलिनकेतुरिति ख्यातो महीतले ॥ २६ ॥ तत्रैव नगरे धर्ममित्रसार्थयतेः सुतः । श्रीदत्ताकुक्षिसम्भूतो दत्तो नामाभवद् धनी ॥ २७ ॥ रूपेण रतिसङ्काशा कान्त्या चन्द्रप्रियासमा। जज्ञे प्रभङ्करानाम्नी दत्तस्य ग्रहिणी वरा ॥ २८ ॥ सुशृङ्गाररसमये वसन्तसमयेऽन्यदा। गत्वोद्यानवने दत्तः क्रीडति स्म तया सह ॥ २८ ॥ नृनाथतनयः सोऽथ दृष्ट्वा तां सुन्दराऽऽक्वतिम् । बाणैविषमबाणस्य पञ्चभिस्ताडितो हृदि ॥ ३० ॥ स्वामित्वयौवनैश्वर्यगर्वितः सोऽथ तां ततः । अपजड़ेगणयित्वा कलङ्गं कुलशीलयोः ॥ ३१ ॥ भुङ्क्ते स्म विषयसुखं कुमारः स तया सह । दत्तश्च तहियोगार्तो ययावुद्यानमन्यदा ॥ ३२ ॥ . सुसाधुः सुमनास्तत्र तत्कालोत्पन्नकेवलः । दृष्टोऽमुना वन्द्यमानो देवदानवमानवैः ॥ ३३ ॥ तेनापि वन्दितो भावसारं मुनिवरश्च सः । बोधयामास दत्तं तं धर्मदेशनयाऽग्राया ॥ ३४ ॥ कत्वा दानाऽऽदिकं धर्म मृत्वा चाऽऽयुःक्षयेऽथ सः । सुकच्छविजये वैताब्याद्रौ विद्याधरेशितुः ॥ ३५ ॥ २७ Page #210 -------------------------------------------------------------------------- ________________ २१० श्रीशान्तिनायचरित्र महेन्द्रविक्रमस्याऽभूत् तमयोऽजितसेनकः । तस्यापि कमलानाम्नी बभूव सहचारिणी ॥३६॥ (युग्मम् इतः स नलिनकेतू राज्यं संप्राप्य पैटकम् । प्रभङ्गराऽऽख्यया साई ग्रहवासमपालयत् ॥ ३७ ॥ अधिरूढोऽन्यदा भूमिं स्वप्रासादस्य सप्तमीम् । स ददर्शाञ्चितं मेधैः पञ्चवर्णेनभस्तलम् ॥ ३८ ॥ तस्य पश्यत एवेदं मेघवन्दं सकौतुकम् । प्रचण्डपवनक्षिप्तं 'खण्डखण्डं ययौ क्षणात् ॥ ३८ ॥ तदृष्ट्वा जातसंवेगः स दध्यौ द्रविणाऽऽदिकम् । सांसारिकमहो ! वस्तु सर्वमेतदिवाध्रुवम् ॥ ४० ॥ मयाऽज्ञानविमूढेन हरता हा ! परस्त्रियम् । क्षणिकस्य सुखस्यार्थे बहुपापमुपार्जितम् ॥ ४१ ॥ तत् प्रपद्य परिव्रज्यां तपोनियमवारिणा । पापकर्मविलिप्तं स्वं निर्मलं प्रकरोम्यहम् ॥ ४२ ॥ . निवेश्य तनयं राज्ये सोऽथ त्यक्त्वा नृपश्रियम् । उपाददे परिव्रज्या क्षेमङ्करजिनान्तिके ॥ ४३ ॥ विशुद्धा पालयित्वा तां समासाद्य च केवलम् । धौतकर्ममल: सिद्धिमासमाद स शुद्धधीः ॥ ४४ ॥ साऽपि प्रभङ्करानाम्रो सपः चान्द्रायणाभिधम् । गणिन्याः सुव्रताख्यायाः समीपे विदधेऽमलम् ॥ ४५ ॥ (१) स ध ङ ञ खण्डखमः । Page #211 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २११ सेयं मृत्वा समुत्पना पुत्री शान्तिमती तव । अस्याः प्राग्भवभर्ताऽयं खेचरोऽजितसेनकः ॥ ४६ ॥ 'दृष्ट्वा विद्यां साधयन्ती समुचिप्ता विहायसा । इयं पूर्वभवस्नेहमोहितेनाऽमुना ध्रुवम् ॥ ४७ ॥ तत: पवनवेग ! त्वं त्वं च शान्तिमति ! स्फुटम् । मुञ्च कोपं धृताटोपमस्योपरि निरर्थकम् ॥ ४८ ॥ इति वज्रायुधवाक्यं श्रुत्वा तौ सा च बालिका। अन्योन्यं क्षमयन्ति स्मापराधं प्रोतचेतसः ॥ ४ ॥ पुनथको समाचख्यौ समुद्दिश्य सभाजनम् । अतीतमुक्तमतेषां भविष्यत् कथयामि भोः ! ॥ ५० ॥ अमूभ्यां सहिता शान्तिमती दीक्षा ग्रहीष्यति । रत्नावलीतपः कवाऽनशनेन विपल्यते ॥ ५१ ॥ साधिकसागरहन्द स्थितिवृषभवाहनः । स्वामी समस्तदेवानामीशानन्द्रो भविष्यति ॥ ५२ ॥ वायुगत्यजितसेननाम्नो: साध्वोस्तदा पुनः । घातिकर्मेन्धने दग्धे भावि केवलमुत्तमम् ॥ ५३ ॥ केवलज्ञानमहिमां तयोः कृत्वाऽर्चनं तथा । स्वस्याङ्गस्य निजं स्थानमीशानेन्द्रो गमिष्यति ॥ ५४ ॥ इन्द्रोऽपि हि ततश्चात्वा कुले लब्धा मनुष्यताम् । दीक्षां चाऽऽदाय निष्कर्मा निर्वाणं समवाप्स्यति ॥ ५५ ॥ (१) द दृष्टा विद्या साधयन्ती। Page #212 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे तच्छ्रुत्वा विस्मिताः सर्वेऽप्येवमूचुः सभासदः । अहो अस्मत्प्रभोर्ज्ञानं कालत्रितयदीपकम् ॥ ५६ ॥ साऽथ शान्तिमती वायुवेगश्चाऽजितमेनकः । वयोऽपि चक्रिणं नत्वा जग्मुस्ते स्थानमात्मन: ॥ ५७ ॥ कुमारस्य सहस्रायुधस्याथ तनयोऽभवत्। जवनाकुक्षिसञ्जातो नाना कनकशक्तिकः ॥ ५८॥ आद्या कनकमाला वसन्तसेना तथाऽपरा। उभे बभूवतुस्तस्य प्रिये तुल्यकुलोद्भवे ॥ ५८ ॥ क्रीडां कर्तुमथाऽन्येद्युः स गतो गहनं वनम् । ददर्शकं प्रकुर्वन्तं पतनोत्पतने नरम् ॥ ६० ॥ पृष्टोऽत्र कारणं तेन सोऽवदद् खेचरोऽस्माहम् । वैताब्यवासी सर्वत्रास्वलितो विचरामि भोः ! ॥ ६१ ॥ इहागत्य चिरं स्थित्वा गच्छत: पुनरेव मे । पदमेकं खगामिन्या विद्याया भद्र ! विस्मृतम् ॥ ३२ ॥ ततो गन्तुमनीशोऽहं करोम्येवंविधक्रियाम् । कुमार: स्माऽऽह भोः ! तावत् पठ विद्यां ममाग्रतः । ६३॥ विद्याधरोऽप्यपाठीत् तां सत्पुमानिति तत्पुरः । पदानुसारिलब्धया कुमार: पूरयति स्म तत् ॥ ६४ ॥ खेचरोऽथ कुमाराय स्वविद्यां प्रददौ मुदा। तेन प्रणोतविधिना साधयामास सोऽपि ताम् ॥ ६५ ॥ (१) ङ समगाद् । (२) घ ङ पतनोत्पतनम । Page #213 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः। २१३ स्वस्थानमगमत् खेटः कुमारोऽपि यदृच्छया । विद्याबलेन बभ्राम प्रियाययुतो भुवि ॥ ६६ ॥ हिमवन्तमथान्येद्युः शिलोच्चयमगादसौ। ददर्श चात्र विपुलमतिं विद्याधरं मुनिम् ॥ ६७ ॥ प्रणम्य चरणौ तस्य कुमार: प्रेयसीयुतः । निषसाद यथास्थानं मुनिश्चक्रे च देशनाम् ॥ ६८ ॥ कुलं रूपं कलाऽभ्यासो विद्या लक्ष्मीर्वराङ्गना। एखयं सुप्रभुत्वं च धर्मेणैव प्रजायते ॥ ६८ ॥ धर्मश्चतुर्विधो येन भवेत् पूर्वभवे कृतः । स मनोवाञ्छितं सर्वं लभते पुण्यसारवत् ॥ ७० ॥ पुण्यसारः प्रभो ! कोऽसाविति पृष्टोऽमुना मुनिः । तत्कथां कथयामास 'प्रतिबोधविधायिनीम् ॥ ७१ ॥ अस्त्यत्र भरतक्षेत्रे जीवाजीवाऽऽदितत्त्ववत् । नानाऽमृतमनोहारि पुरं गोपालयाऽऽह्वयम् ॥ ७२ ॥ पुरन्दरसमयीको धर्मार्थी राजमानितः ।। महाजनस्य मुख्योऽभूत् तत्र श्रेष्ठी पुरन्दरः ॥ ७३ ॥ भक्त्या पत्यौ तथा देवे गुरौ गुणगणाऽन्विता । बभूव गहिनी तस्य पुण्य श्रोरिति विश्रुता ॥ ७४ ॥ पतिवाल्लभ्यसौभाग्यभाग्यवत्याः शुभाऽऽकृतः । अप्येकं दूषणं, लस्याः शरीर निरपत्यता ॥ ७५ ॥ (१) जर प्रतिबोधकरीमिमाम् । (२) ञ ट द -खोकवत् । Page #214 -------------------------------------------------------------------------- ________________ २१४ श्रीशान्तिनाथचरित्रे वाञ्छबपि सुतं श्रेष्ठी भणितः स्वजनैरपि । तस्याः स्नेहपरो नारौं नान्यां परिणिनाय सः ॥ ७६ ॥ यक्ष भट्टारिकां वा नो काञ्चिदर्थयति स्म सः । नैवोपयाचितं चक्रे तयोः स्थिरसुदर्शनः ॥ ७७ ॥ सन्तानार्थी स चाऽन्येारभ्यर्य कुलदेवताम् । उवाच सप्रियोऽप्येवं प्रणिपातमसंस्पृशन् ॥ ७८ ॥ अस्माकं पूर्वजैः सर्वैः पूजिता त्वं मयाऽपि च । इहलोकसुखस्याऽर्थे सर्वदा कुलदेवते ! ॥ ७८ ॥ अविद्यमानसन्ताने परलोकं गते मयि । पूजां बन्धुजनस्येव करिष्यति तवापि कः ? ॥ ८ ॥ तत्त्वं ज्ञात्वाऽवधिज्ञानेनाऽऽख्याहि मम सन्ततिम् । भविष्यत्यथवा नेति नान्यत्त्वामर्थयाम्यहम् ॥ ८१ ॥ देवतोवाच श्रेष्ठिन् ! ते भविष्यति सुतः खलु । धर्मे प्रवर्तमानस्य गते काले कियत्यपि ॥ २ ॥ ततः प्रहृष्टचित्तोऽसौ ग्रहवासमपालयत् । कुलक्रमाऽऽगतं धर्म विशेषण चकार 'च ॥ ८३ ॥ कश्चित् पुण्याधिको जीवः सुतत्वेन समागमत् । कुक्षौ पुण्यश्रियोऽन्येद्युश्चन्द्रस्वप्नोपनूचितः ॥ ८४ ॥ तत्स्वप्नदर्शनं प्रात: स्वभर्ता ज्ञापितस्तया । तेनाऽप्याबादिता पुत्र जन्मना सा सुचेतसा ॥ ८५ ॥ (१) घज सः। Page #215 -------------------------------------------------------------------------- ________________ चतर्थः प्रस्तावः। २१५ जशेऽथ समये तस्यास्तनयः शुभलक्षणः । तस्य जन्मनि तत्यित्रा विदधे च महाक्षणः ॥ ८६ ॥ पुण्यं कृत्वाऽयमायातः प्राप्तः पुण्येन वा मया । पुण्यसार इति नाम चक्रे तस्येति तत्यिता ॥ ८७ ॥ बालरक्षाविधात्रीभिर्धात्रीभिः परिपालितः । स पित्रोवल्लभतमो बभूवाऽध्ययनक्षमः ॥ ८८ ॥ उपाध्यायस्य वर्यस्य कलाग्रहणहेतवे । जनकेनार्पितो लेखशालाक्त्युत्मवेन सः ॥ ८ ॥ तत्रैव नगरे रत्नसारस्य वणिजः सुता। बभूव बालिका रवसुन्दरी सुन्दराङ्गका ॥ ८ ॥ अधीयानाऽथ तस्यैव कलाचार्यस्य सन्निधौ । जज्ञे सहाध्यायिनी सा पुण्यसारस्य धीमती ॥१॥ सा चापलेन महिला सुलभेन कलाविधौ। विवादं पुण्यसारेण सह चक्रे मनौषिणी ॥ २ ॥ अन्यस्मिन् दिवसे तेन रुष्टेनैवमभाणि सा। . बालिके ! पण्डितंमन्या यद्यप्यसि कलावती ॥ ३ ॥ तथापि हि मया साई विवादस्तव नोचितः । भविष्यसि यतो दासी पुरुषस्य रहे खलु ॥ १४ ॥ (युग्मम्) साऽवदद् यदि रे ! दासी महाभाग्यस्य कस्यचित् । भविष्यामि नरस्याहं तद् मूढ ! भवतोऽत्र किम् ? ॥६५॥ शशंस पुण्यसारोऽपि परिणीय बलादपि । करोमि किङ्गरौं चेत् त्वां तदाऽहं नियतं नरः ॥ ६ ॥ Page #216 -------------------------------------------------------------------------- ________________ २१६ श्रीशान्तिनाथचरित्रे. भूयोऽपि साऽब्रवीद मूर्ख ! बलात्कारेण जायते । स्नेहो नाऽन्यस्य कस्यापि दम्पत्योस्तु विशेषतः ॥ ८७ ॥ ततोऽसौ लेखशालायाः पुण्यसारो गतो गृहम् । सुष्वाप मन्युशय्यायां भूत्वा म्लानमुखोऽसुखी ॥ ८ ॥ श्रेष्ठो पुरन्दरो वेश्म भोजनार्थमुपागतः । ज्ञात्वा तच्चेष्टितं तस्यान्तिकमेत्यैवमूचिवान् ॥ ८८ ॥ अयि वत्स ! कुतो हेतोरद्य श्याममुखो भवान् ? | अकाले शयनं किं ते कारणं मे निवेदय ? ॥ ५०० ॥ निर्बन्धपृष्टः सोऽवोचत् तात ! मां रत्नसुन्दरोम् । परिणाययसि त्वं चेत् तदा स्वस्थो भवाम्यहम् ॥ १ ॥ भूयोऽभाषिष्ट तं श्रेष्ठी बालोऽस्यद्यापि वत्सक ! | कुरु तावत् कलाऽभ्यासं काले परिणयेः स्नुषाम् ॥ २ ॥ पुत्रेण भणितं तात ! यदि तां याचसेऽधुना । मदर्थं तत्पितुः पार्खात् तदा भोच्ये न चान्यथा ॥ ३ ॥ संबोध्य भोजयित्वा तं स्वयं भुक्त्वा च श्रेष्ठासौ । बन्धुभिः सहितो रत्नसारश्रेष्ठिग्टहं ययौ ॥ ४ ॥ अभ्युत्थानासनदानखागतप्रश्नपूर्वकम् । सोऽवदत् कारणं ऊचे पुरन्दरस्त्वत्तः कन्यकां रत्नसुन्दरोम् | याचितुं स्वसुतस्यार्थे श्रेष्ठिन् ! वयमुपागताः ॥ ६ ॥ अभ्यधाद् रत्नसारोऽपि कृत्यं यद् मम सर्वथा । युष्माभिर्विहितं तत् तद् देयाऽवश्यं सुता मया ॥ ७ ॥ ब्रूत येन यूयमिहागताः ॥ ५ ॥ Page #217 -------------------------------------------------------------------------- ________________ २१७ चतुर्थः प्रस्तावः । यूयमत्र पुरे मुख्या याचितारः सुतां मम । महिता बन्धुभिश्चैभिस्तद् वाच्यं किमतः परम् ? ॥ ८ ॥ पितुः पाखें स्थिता साऽथ कन्यका 'सहसाऽवदत् । ताताहं पुण्यसारस्य भविष्यामि न गेहिनी ॥ ८ ॥ तस्यास्तद् वचनं श्रुत्वा दध्यावेवं पुरन्दरः । अहो ! मे तनयस्यास्यां व्यर्थः पाणिग्रहाग्रहः ॥ १० ॥ यस्या एवंविधा वाणी कर्कशा शैशवेऽप्यहो ! । भाविनी यौवनोमत्ता सा भर्तुः सुखदा कथम् ? ॥ ११ ॥ उवाच रत्नसारस्तु मुग्धेयं तनया मम । वायावाच्यं न जानाति तदस्या: फल्गु जल्पितम् ॥ १२ ॥ तथाऽहं बोधयिष्यामि श्रेष्ठिन् ! ते तनयो यथा । परिणष्थत्यमुं चैव मया दत्ता त्वसौ ध्रुवम् ॥ १३ ॥ ततः पुरन्दरः श्रेष्ठी गृहमागत्य तत्कथाम् । कथयित्वाऽवदत् पुत्रं वत्स ! सा तव नोचिता ॥ १४ ॥ यतः कुदेहां विगतस्नेहां लज्जाशीलकुलोज्झिताम् । अतिप्रचण्डां दुस्तुण्डां ग्रहिणों परिवर्जयेत् ॥ १५ ॥ प्रत्यूचे पुण्यसारस्तु अमुं परिणयामि चेत् । भवामि तदहं सत्यप्रतिज्ञस्तात ! नान्यथा ॥ १६ ॥ (१) ङ चाबबीदिदम् । नाहं परिणयिष्यामि त्वेनं च श्रेष्ठिनः सुतम् । श्रुत्वा त्वेवंविधा वाणी कर्कशा शैशवेऽम्यहो। Page #218 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र अपश्यन्नपरोपायं तल्लाभे सोऽथ बुद्धिमान् । 'पृष्ट्वा तातं स्वदात्रौं तां विवेद कुलदेवताम् ॥ १७ ॥ तत: कुसुमनैवेद्यगन्धधपविलेपनैः । अभ्यर्च सुविनीतामा प्रार्थयामास तामिति ॥ १८ ॥ दत्तोऽहं तुष्टया देवि ! श्रेष्ठिनस्तनयो यथा । सा त्वं वाञ्छां कलत्रस्य सकले ! पूरयाद्य मे ॥ १८ ॥ न चेत् पूरयसि स्वेच्छां मम त्वं कुलदेवते ! । अमत्रमपमानस्य ततोऽहं निर्मित: कथम् ? ॥ २० ॥ उत्थास्यामि तदैवाहमित: स्थानाद् यदीप्सितम् । पूरयिष्यसि देवि ! त्वं भोक्ष्ये चाहं तदैव हि ॥ २१ ॥ इत्थं कृतप्रतिजेऽस्मिन् दिनमेकमुपोषिते । तुष्टा सोचे शनैर्वत्स ! सर्वे भव्यं भविष्यति ॥ २२ ॥ हृष्टचित्तस्तत: पुण्यसारो विहितभोजनः । अवशिष्टकलाऽभ्यासं विदधे जनकाऽऽज्ञया ॥ २३ ॥ समधीतकलः सोऽथोद्यौवन: श्रेष्ठिनन्दनः । केनचित् कर्मदोषेण दुरोदररतोऽभवत् ॥ २४ ॥ अतीववल्लभत्वेन पिढभ्यामनिवारितः । स द्यूतव्यसनी जने निषिड्वो न न्यवर्तत ॥ २५ ॥ लक्षमूल्यमथान्येद्युः राज्ञोऽलङ्करणं गृहात् । हृत्वा दत्तं सभिकस्य स्खलक्षे हारितेऽमुना ॥ २६ ॥ (१) ङ दृष्ट्वा तां तत्प्राप्ति हेतोर्विवेद कुलदेवताम । Page #219 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २१८ याचमाने नृप श्रेष्ठी स्थानं यावद् व्यलोकयत् । तत्र तावददृष्ट्वा तद् मनस्येवमचिन्तयत् ॥ २७ ॥ गृहीतं पुण्यसारण नूनमेतद् भविष्यति । अन्य स्य गूढमहस्तूपादाने योग्यता न हि ॥ २८॥ यदथं खिद्यते लोकः यत्नश्व क्रियते महान् । तेऽपि सन्तापदा एवं दुष्यत्रा हा ! भवन्त्यहो ! ॥ २८ ॥ हारितं क्वापि तेनेदं चेद् भविष्यति तद् मया । रहाद निर्वासनीयोऽयं पुत्ररूपेण वैरिकः ॥ ३० ॥ एवं विचिन्त्य हहऽगात् श्रेष्ठो तत्रागतं सुतम् । पप्रच्छालङ्कतेः शुद्धिं सोऽप्याचख्यौ यथातथम् ॥ ३१ ॥ ततः प्रकुपितः श्रेष्ठो तमूचे दुष्ट ! रे ! त्वया । तद्भूषणमुपादाय समागम्यं गृहे मम ॥ ३२ ॥ वचसा तर्जयित्वैवं धृत्वा च गलकन्दले । निरस्तस्तनयस्तेन गाढरोषवर्शन सः ॥ ३३ ॥ तदा दिनावसानत्वात् अन्यतो गन्तुमक्षमः । पुराविस्मृत्य न्यग्रोधकोटरं प्रविवेश सः ॥ ३४ ॥ चेष्ठिन्या भणित: सोऽथ गृहं प्राप्तः पुरन्दरः । कथमद्य पुण्यसारो नायात्यद्यापि मन्दिरे ? ॥ ३५ ॥ राजभूषण वृचान्तमाख्यायैवमुवाच सः । मया निर्वासितः सोऽद्य प्रिये ! शिक्षापनाकते ॥ ३६ ॥ सोचे निस्सारितो येन तनयो रजनीमुखे । स त्वं मे मुखमात्मीयं कथं दर्शयसि स्फुटम् ? ॥ ३७ ॥ Page #220 -------------------------------------------------------------------------- ________________ २२० श्रौशान्तिनाथचरित्र बालं नेत्रविशालं तमकतोकं त्वमात्मनः । अस्यां विकालवेलायां निरस्यन् लज्जसे न किम् ? ॥३८॥ तहच्छ वत्सके तस्मिन् समानीते रहे मम। अागन्तव्यं त्वयाऽपीति स तया निरवास्यत ॥ ३८ ॥ 'गेहिनीभर्मित: पुत्र स्मृत्वा सोऽपि सुदुःखितः । सर्वत्राऽन्वेषयामास नगरे निजनन्दनम् ॥ ४० ॥ गृहं निर्मानुषं वीक्ष्य श्रेष्ठिनी सा व्यचिन्तयत् । निरासे हा ! मया गेहाद पतिः कोपपरीतया ॥ ४१ ॥ पुत्रापायकता पूर्व मूर्खता श्रेष्ठिना कता। निरस्यन्त्या स्वभर्तारं पश्चात् चक्रे मयाऽपि सा ॥ ४२ ॥ एवं चिन्ताऽऽतुरा साना तयोर्मार्गावलोकनम् । कुर्वागोड़तनुः साऽस्थाद् द्वारदेशे स्ववेशमान: ॥ ४३ ॥ ददर्श पुण्यसारोऽथ तत्रोभे देवतै निशि । खरोचिषा तमोहन्त्री शुश्रावेति च तड्रिम् ॥ ४४ ॥ एका स्माह स्वसः ! किं न खेच्छया भ्राम्यते भुवि ? । वर्तते यदियं रात्रिरस्मत्यक्षकतोदया ॥ ४५ ॥ हितीयोवाच किं व्यर्थ भ्रान्त्याऽऽत्मा खेद्यते हले ।। दृश्यते कौतुकं क्वाऽपि यदि तत्रैव गम्यते ॥ ४६ ॥ साऽवदत् कौतुकं तर्हि गच्छामो वलभीपुरे । १) ज द गेहिन्या भर्मितः। (२) वलभीपुरस्य यत्र यत्र प्रसङ्ग स्तत्र तत्र वल्लभीतिल कारयविशिष्टोऽपि पाठो दृश्यते कचित् । Page #221 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २२१ श्रेष्ठी वसति यत् तत्र धनप्रवरनामकः ॥ ४७ ॥ जाता धनवतीकुक्षिसम्भवाः तस्य कन्यकाः । सप्तैताः सन्ति चाङ्ग्यिस्तताऽऽद्या धर्मसुन्दरी ॥ ४८ ॥ धनसुन्दर्य थो कामसुन्दरी मुक्तिसुन्दरी। भाग्यसौभाग्यसुन्दा सप्तमी गुणसुन्दरी ॥ ४८ ॥ वरप्राप्तिकते तासां श्रेष्ठिना भक्तिपूर्वकम् । आराध्य सोषितो लम्बोदरो मोदकदानतः ॥ ५० ॥ प्रत्यक्षीभूय सोऽवोचदितः सप्तमवासरे । रात्री सुलग्नवेलायां संयोगे प्रगुणीकृते ॥ ५१ ॥ सुवेषयोषायुगलपृष्ठे यः कश्चिदेष्यति । श्रेष्ठिन् ! तव सुतानां स भविष्यत्युचितो वरः ॥ ५२ ॥ मेयं सप्तमघस्रस्य रात्रिस्तत् तत्र गम्यते । निवासपादपश्चायं नीयते च सहाऽऽत्मना ॥ ५३ ॥ दध्यौ म पुण्यसारोऽथ तदाकर्ण्य मनस्यदः । अहो ! प्रासङ्गिक मेऽपि भावि कौतूहलेक्षणम् ॥ ५४ ॥ कीदृशी वलभी सा पूः कीदृग् लम्बोदरः स च ? । कीदृक्षाः कन्यकाश्चेति सर्व द्रष्टास्मि कौतुकम् ॥ ५५ ॥ विधाय हुंक्वति ताभ्यामुत्क्षिप्तो वटपादपः । उद्याने वलभीपुर्या: गत्वा तस्थी क्षणेन सः ॥ ५६ ॥ विधाय नायिकारूपं चेलतु'दैवते ततः । तयोरनुपदं पुण्यसारोऽपि चलति स्म सः ॥ ५७ ॥ (१) ड ततो-। (२) ङ - कुलदेवते। Page #222 -------------------------------------------------------------------------- ________________ २२२ श्रीशान्तिनाथचरित्रे लम्बोदरग्टहद्दारे वेदिकामण्डपे कृते । मेलितखजनः श्रेष्ठो यावदासीत् सुताऽन्वितः ॥ ५८ ॥ तावत् ते देवते तस्य समीपेन प्रजग्मतुः । श्रेष्ठप्रावासे रसवत्या रसग्रहणहेतवे ॥ ५८ ॥ ( युग्मम् ) एते अनुव्रजन् पुण्यसारः श्रेष्ठिवरेण सः । ददृशे भणितश्चैवं निवेश्य प्रवराऽऽसने ॥ ६० ॥ लम्बोदरेण भद्र ! त्वं जामाता परिकल्पितः । एता मम सुताः सप्त तत्त्वं परिण्यानघ ! ॥ ६१ ॥ इत्युदित्वा सुवसने नवीने परिधापितः । लक्षमूल्य भूषणेनालङ्कृतः श्रेष्ठिना च सः ॥ ६२ ॥ ततो भवत्सु धवलमङ्गलेष्वग्निसाचिकम् । परिणीताः चारु कन्याः पुरन्दरसुतेन ताः ॥ ६३ ॥ सोऽथ दध्यावदो युक्तं पित्रा निर्वासितोऽस्मि यत् । अन्यथैवं कथं पुण्यसारनाम स्फुटोभवेत् ? ॥ ६४ ॥ इति ध्यायन् कृतोद्दाहः स वधूभिः समन्वितः । श्रेष्ठिना स्वग्टहं निन्ये महोत्सवपुरस्परम् ॥ ६५ ॥ प्रासादस्योपरितनभूमौ नोत्वा निवेशितः । वल्लभाभिः स पर्यङ्के निविष्टास्ताश्च विष्ट || ६६ ॥ पृच्छन्ति स्म कलाऽभ्यासस्तव नाथ ! कियानिति ? | सोऽब्रवीत् सकला मुग्धाः ! मम नेष्टतरा यतः ॥ ६७॥ अत्यन्तं विदुषां नैव सुखं मूर्खनृणां न च | उपार्जयत तद् यूयं सर्वथा मध्यमां कलाम् ॥ ६८ ॥ Page #223 -------------------------------------------------------------------------- ________________ २२३ चतुर्थः प्रस्तावः । यावत् ता न विदन्ति स्म श्लोकस्यार्थमपि स्फुटम् । तावत् स दध्यो वृक्षोऽसौ गमिष्यति सदैवतः ॥ ६८ ॥ इति गन्तुमनाः सोऽथ दिशाऽऽलो'कादिचेष्टया। विज्ञातो गुणसुन्दर्या तया दारक निष्ठया ॥ ७० ॥ किमङ्ग ! चिन्तां कतु ते शशाऽस्तौति तयोदित: ? । सोऽब्रवीदेवमेवेति दत्तहस्तस्तया ततः ॥ ७१ ॥ अधोभूमौ समागत्य स्वस्य ज्ञापनहेतवे। इति श्लोकं तुलायां स सुधीः खडिकयाऽलिखत् ॥ ७२ ॥ किहां गोवालो किहां वलहिपुरं किहां लम्बोदरदेव ? । लाडन आयो विहिवसिं गिो सत्तइ परिणवि ॥ ७३ ॥ गोपालयपुरादागां वलभ्यां नियतेर्वशात् । परिणीय वधूः सप्त पुनस्तत्र गतोऽस्माहम् ॥ ७४ ॥ साऽर्थमग्रेतनस्याऽपि श्लोकस्याविदुषो तदा । लज्जमानाऽनुष्टुभं तं प्रसन्नं नाऽप्यवाचयत् ॥ ७५ ॥ ग्रहहारगतः सोऽथ तामूवे गुणसुन्दरीम् । सुखेन तनुचिन्ता स्यादतिनिर्विजने मम ॥ ७६ ॥ ततस्त्वयाऽत्र स्थातव्यमहं त्वनिकटे गतः । निराबाधो भविष्यामोत्युक्त्वा तत्र वटे ययौ ॥ ७७ ॥ (१) ड -लोकनचे। (२) गूर्जरभाषानिबधेयं प्रतिभासते तथा केषु च पुस्तकेषु नोपलभ्यते । Page #224 -------------------------------------------------------------------------- ________________ २२४ श्रौशान्तिनाथचरित्रे तल्कोटरप्रविष्टेऽस्मिन् निन्यतुर्देवते अपि । तच्छयोत्याटित: सोऽथ वटः स्वस्थानमागमत् ॥ ७८ ॥ इत: पुरन्दरः श्रेष्ठो भ्रामं भ्रामं पुरेऽखिले । निशान्तेऽतीवनिर्विमो यावत् तत्र समाययौ ॥ ७ ॥ तावत् सा विगता रात्रि: प्रगाष्टं वापि तत् तमः । ततो विभातं न्यग्रोधे गतस्येत्युच्यते जनैः ॥ ८० ॥ निर्ययौ पुण्यसारोऽथ तदानीं वटकोटरात्।। वस्त्रालङ्कारसाराङ्गः पिटवक्ताम्बुजार्यमा ॥ ८१ ॥ पुत्रमत्यद्भुतश्रीकं दृष्ट्वा श्रेष्ठी सविस्मयः । वत्स ! वत्सेति जल्पन्तमालिलिङ्ग ससंभ्रमम् ॥ ८२ ॥ ततः स्वर्गहमायातः सह तेन विलोक्य तौ। बभूव वेष्ठिनी हृष्टा स्पृष्टा रुच्येव शीतगीः ॥ ८३ ॥ गाढमालिय सस्नेहं तमुत्सङ्गे निवेश्य च । पप्रच्छ वत्स ! शोभयं संजाता क तवेदृशौ ? ॥ ८४ ॥ जचे च जनकोऽप्येवं ततोऽसौ सकलां कथाम् । तदने कथयामास महहिस्मयकारिणीम् ॥ ८५ ॥ तावेवमूचतुर्भाग्यमहो ! वत्सस्य कीदृशम् ? । ऋद्धिर्येनेदृशी लब्धा रात्रिमध्येऽप्यचिन्तिता ॥ ८६ ॥ बभाण जनको भूयः क्षन्तव्यं वत्स ! तत् त्वया । मया विरूपं यत् किञ्चिदुक्तं शिक्षापनाकृते ॥ ८७ ॥ (१) ङ -ऽस्मिन्नीयतः। (२) ङ सहसैव। Page #225 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २२५ पुण्यसारोऽवदत् तात ! युभशिक्षापनैव हि । संजाता हेतुरीदृश्याः' सम्मदो नियतं मम ॥ ८८ ॥ दत्त्वाऽथ द्यूतकारस्य तदानीतं विभूषणम् । नृपसत्कं नृपस्यैवार्पयामास पुरन्दरः ॥ ८८ ॥ विदधे पुण्यसारोऽथ हव्यापारमुत्तमम् । दूरं विहाय तद् द्यूतव्यसनं गुणनाशनम् ॥ १० ॥ इतस्तस्मिन्ननायात वलित्वा गुण सुन्दरी । सोदरीणां समाचख्यौ सर्वासामपि तहतिम् ॥ ८१ ॥ ततस्ता नवगेहान्त—मांसक इवोत्कटे । आकस्मिकेऽसुखे तस्मिन् पतिते रुरुदुर्भृशम् ॥ ८२ ॥ आकर्ण्य रुदितं पित्रा पृष्टास्तस्य च कारणम् । कथयन्ति स्म तास्तस्य तत्पत्युरपवारणम् ॥ ८३ H सोऽब्रवीदपरिज्ञातपारम्पर्यो निजः पतिः । किं न सम्भूय युष्माभिधृतो ज्ञात्वा तदाशयम् ? ॥ २४ ॥ रूपलावण्ययुक्ताभिः स्त्रीभिः सर्वोऽपि लुभ्यते । तद् भवत्यः प्रियास्तेन प्राप्ताः परिहृताः कथम् ? ॥ ८५ ॥ यदङ्गलग्नमादाय भूषणं गतवानसौ । तद् मन्ये व्यसनी कोऽपि व्यंसको वा भविष्यति ? ॥ १६ ॥ दत्तो लम्बोदरेणाऽपि यदेवमकरोदसी। तट् नूनं दुष्कृतं किञ्चित् पुरा चौर्णमिदं हि वः ॥८७ ॥ सा। (१) थ -रीक्ष-। (२) ख ङ दत्त्वाऽर्थे । (३) ८ तदानीं तहिभूषणम् । (४) घ च ट द -नायाति । Page #226 -------------------------------------------------------------------------- ________________ २२६ श्रीशान्तिनाथचरित्र विज्ञातं किं न युष्माभिः कुर्वतीभिः कथामिमाम् । तस्याभिधानं स्थानं वा खरूपमपरं तथा ? ॥ १८ ॥ गुणसुन्दर्यथोवाच दीपोद्योते तदाऽमुना। अत्यत्र लिखितं किञ्चिद् वाचितं तद् मया न तु ॥ ८ ॥ अथ प्रभाते संजाते श्लोके तस्मिंश्च वाचिते। सोचे गोपालयपुर गतस्तात ! पति: स नः ॥ ६०० ॥ केनचिद् दैवयोगेन रानान्ते स इहाऽऽगतः । बहत्ताः परिणीयास्मान् तत्रैव हि पुनर्गतः ॥ १ ॥ ततस्त्वं निजहस्तेन नरवषं ममापय । मेलयित्वा महासाथं यतस्तत्र व्रजाम्यहम् ॥ २ ॥ जास्यामि तं निजं कान्तं तनाऽन्विष्य कथञ्चन । षण्मासाभ्यन्तरे वह्निरन्यथा शरणं मम ॥ ३ ॥ पित्राऽर्पितवेषा सा महासार्थसमन्विता। ययौ गोपालयपुरे कियद्भिर्दिवसैस्ततः ॥ ४ ॥ गुणसुन्दराभिधानः कश्चित् सार्थपतेः सुतः । इत्यसो नगरे तस्मिन् मानितः पृथिवीभुजा ॥ ५ ॥ 'क्रयविक्रयादि चक्रे व्यवहारं वणि ग्घितम् । समं च पुण्यसारेण मैत्रीत्वं वचनाऽऽटिभिः ॥ ६ ॥ (युग्मम्) अथोचे रत्नसारं स्ववप्तारं रत्नसुन्दरी। यद् मया परिणतव्यस्ताताऽयं गुणसुन्दरः ॥ ७ ॥ (१) स्व घ ङ ऽन्नेष्य । (२) घ ङ -विक्रयादि। Page #227 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २२७ विज्ञाय दुहितुर्भावं रत्नसारस्तदन्तिकम् । गत्वोवाच मम सुता भर्तारं त्वां समोहते ॥८॥ गुणसुन्दर्यथो दध्यावस्था वाञ्छा निरर्थिका। इयोमहिलयोर्यस्माद् रहवासः कथं भवेत् ? ॥ ८ ॥ यत् किञ्चिदुत्तरं कृत्वा तदेतां वारयाम्यहम् । अन्यथा या गतिमेऽस्ति साऽस्या अपि भविष्यति ॥ १० ॥ एवं विचिन्त्य मनसा साऽवदत् वेष्ठिपुङ्गवम् । अस्मिन्नर्थे कुलीनानां पित्रोरेव प्रधानता ॥ ११ ॥ वर्तेते ती च मे दूर तत् त्वया निजनन्दिनौ । प्रदेयाऽन्यस्य कस्यापि प्रत्यासन्ननिवासिनः ॥ १२ ॥ अभाणि रत्नसारण मत्पुत्रास्त्वं हि वल्लभः । सा देया कथमन्यस्मै पुरुषाय मया यत: ? ॥ १३ ॥ शत्रुभिबन्धुरूपैः सा प्रक्षिप्ता दुःखसागरे । या दत्ता हृदयानिष्टरमणस्य कुलाङ्गना ॥ १४ ॥ अनुमेनेऽथ तहाक्यं साग्रहं साऽमुनोदिता। तयोविवाहश्चक्रे च श्रेष्ठिना पुण्यवासरे ॥ १५ ॥ पुण्यसारस्तदाकर्ण्य कुलदेव्याः पुरो गतः । शिरः क्षुरिकया छेत्तुमारंभे मानिनां वरः ॥ १६ ॥ साहसं किं करोष्येतदिति देवतयोदितः ? । स स्माह पर्यणेषोद् यद् कन्यामन्यो मयेप्सिताम् ॥ १७ ॥ पुनरेष तयाऽभाणि या दत्ता वत्स ! ते मया । भाविनी सा तवैवैषा मा विधा मृत्यूसाहसम् ॥ १८ ॥ Page #228 -------------------------------------------------------------------------- ________________ २२८ श्रीशान्तिनाथचरित्रे सोऽवदद् युज्यते कर्तुं परस्त्रीसंग्रहो न मे । इयं च परिणीतैव किं कर्तव्यं मया ततः ? ॥ १८ ॥ देवतोवाच हे वत्स ! किं बहतेन संप्रति ? | एषा ते वल्लभाऽवश्यं न्यायेनैव भविष्यति ॥ २० ॥ तद्दाक्यमनुमेनेऽसौ सा पुनर्गुणसुन्दरी । षण्मासीमतिचक्राम पत्युर्विरहदुःखिता ॥ २१ ॥ अप्राप्नुवत्यसौ कान्तं रहस्यं चाविलखती । पूर्णेऽवधी प्रतिज्ञां वां संपूरयितुमुद्यता ॥ २२ ॥ सुकाष्ठैः कारयामास चितां तस्मात् पुराद् बहिः । 'चचाल वार्यमाणाऽपि प्रवेष्टुं ज्वलितानले ॥ २३ ॥ rets सार्थवाहोऽयं वैराग्येण हि केनचित् । मुमूर्षतोत्युदन्तोऽयं सकलेऽपि पुरेऽभवत् ॥ २४ ॥ तमाकर्ण्य ययौ राजा सपौरः सपुरन्दरः । रत्नसारपुण्यसारसहितश्च तदन्तिकम् ॥ २५॥ राज्ञा सोऽभाणि केनाऽऽज्ञा खण्डिताऽत्र पुरे तव ? | यदर्तिलक्षणं काष्ठभक्षणं कुरुते भवान् ॥ २६ ॥ ऊचे च रत्नसारेण सुविचारेण किं तु ते I अपराद्धमहो ! दारेरुदारैर्भद्र ! किञ्चन ॥ २७ ॥ सोऽवदद् नापराधं मे केनाप्याज्ञा न खण्डिता । अहं त्विष्टवियोगार्तिकृता दैवेन खण्डिता ॥ २८ ॥ ( १ ) घ चेले च । ङ लोकैश्च वार्यमाणोऽपि । (२) ज द साऽभाणि । Page #229 -------------------------------------------------------------------------- ________________ ( १ ) (२) चतुर्थः प्रस्तावः । इति' जल्पन्त्यसावन्तर्विरहाऽग्निशिखानिभान् । सुदीर्घतरनिःश्वासान् 'मुञ्चत्युपचितं ययौ ॥ २८ ॥ राज्ञोक्तमत्र यः कश्चिद् मित्रमस्य प्रवर्तते । संबोध्य रक्षणीयोऽयममुना मृत्युसाहसात् ॥ ३० ॥ नागरैः पुण्यसारोऽस्य तन्मित्रं परिकीर्तितः । राज्ञाऽऽदिष्टः स निकटे गत्वाऽथ तमभाषत ॥ ३१ ॥ तारुण्ये वर्तमानस्य संपदाऽलङ्कृतस्य च | ३३ ॥ दुःखहेतुमनाख्याय युक्ता नो मित्र ! ते मृतिः ॥ ३२ ॥ 'सोऽवदद् यस्य दुःखानि कथ्यन्ते स न दृश्यते । हृदयात् कण्ठमागत्य यान्ति तत्रैव तान्यहो ! अपरः प्राह मित्र ! 'त्वां तथाऽहं तर्कयामि यत् । करोष्येवंविधां चेष्टामुपहासकरों नृणाम् ॥ ३४ ॥ fat affखतलोकमुक्ता चैवमुवाच सा । किमयं भवता श्लोकोऽलेखि नो वेति कथ्यताम् ? ॥ ३५ ॥ आमेति भणिते तेन सोचे साऽहं तव प्रिया । या मुक्ता तोरणद्दारेऽभिधया गुणसुन्दरी ॥ ३६ ॥ प्रयासोऽयं मया चक्रे हे कान्त ! तव हेतवे । तत् प्रसौद स्त्रियो वेषं ममाऽऽशु त्वं समर्पय ॥ ३७ ॥ गृहादानाय्य तेनाऽपि दत्तः सोऽस्यै मनोहरः । प्रतिसीरान्तरात् साऽथ निर्ययौ परिधाय 'तम् ॥ ३८ ॥ ख घ जल्पन्नमौ। स्व घ मुञ्चन्रुप- । (३) घ ज गत्वा च । (४) ज द साऽवदत् । (५) (६) २२८ घ त्वं । ङ च । Page #230 -------------------------------------------------------------------------- ________________ २३० श्रीशान्तिनाथचरित्रे वधूर्वी 'वन्दत इति भर्वा निर्दिश्यमानया । नमश्चक्रेऽनया राजा श्वश्रूश्वशुरकौ तथा ॥ ३८ ॥ किमेतदिति पृष्टश्च पुण्यसारः कथां निजाम् । कथयामास भूपस्यातिविस्मयविधायिनीम् ॥ ४० ॥ विज्ञप्तो रत्नसारेण राजैवं येन मे सुता | उदूढा सोऽभवद् नारी तदस्या देव ! का गतिः ? ॥ ४१ ॥ सोऽवादीदल प्रष्टव्यं किमु भोः साऽपि गेहिनी ? | भवतात् पुण्यसारस्योदूढा तत्रियया यतः ॥ ४२ ॥ सा रत्नसुन्दरी ताश्च वल्लभा वलभीपुरात् । आययुः पुण्यसारस्य मन्दिरं पुण्ययोगतः ॥ ४३ ॥ एवमष्टौ कलत्राणि कृतचित्राणि शृखताम् । पूर्वं विहितपुण्यस्य पुण्यसारस्य जज्ञिरे ॥ ४४ ॥ धर्मदेशनया भव्यप्राणिनः प्रतिबोधयन् । ज्ञानसाराभिधाऽऽचार्यस्तत्त्रान्येद्युः समाययौ ॥ ४५ ॥ अथ तद्दन्दनाहेतोर्भक्तिभावितमानसः । ययौ पुरन्दरः श्रेष्ठौ पुण्यसारसमन्वितः ॥ ४६ ॥ " सोऽथ नत्वा तमाचार्यं पप्रच्छेति कृताञ्जलिः । प्रभो ! मत्सूनुना पूर्वभवे किं सुकृतं कृतम् १ ॥ ४७ ॥ शशंस सोऽवधिज्ञानी पुरे नीतिपुराभिधे । बभूव कश्चिदुच्छिन्नसन्तानः कुलपुत्रकः ॥ ४८ ॥ (१) द विन्दत इति । (२) घ जमत्सुता । (३) ङ कलत्राणां । असौ । (8) द Page #231 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । संसारवासनिर्विण्णः सुधर्ममुनिसन्निधौ । जग्राह स सुधीक्षां शिक्षां च द्विविधामपि ॥ ४८ ॥ स पञ्च समितीः सम्यक् पालयामास यत्नतः । गुप्ती चापालयत् कायगुप्तौ किं तु न निश्चलः ॥ ५० ॥ 'कायोत्सर्गे स्थितो दंशमशकोपद्रवे सति । पारयामास तं शीघ्रमसंपूर्णेऽवधावपि ॥ ५१ ॥ सुधर्मसाधुनाऽभाणि किमावश्यकखण्डनम् ? । 'प्रकरोषि यतो दोषो व्रतभङ्गे भवेद् महान् ॥ ५२ ॥ ततस्तद्भयभीतोऽसावसहिष्णु रिमामपि । गुप्तिं निर्वाहयामास वैयावृत्त्यं चकार च ॥ ५३ ॥ मृत्वा समाधिना सोऽन्ते' सौधर्मे त्रिदशोऽभवत् । जज्ञे तव सुत: श्रेष्ठिन् ! ततः च्युत्वाऽऽयुषः क्षये ॥ ५४ ॥ सप्त प्रवचनमातृर्यत् सुखेनैव पालिताः । तदनेन प्रियाः सप्त परिणीताः सुखेन हि ॥ ५५ ॥ कष्टेन पालितैका यत् प्रियाऽप्येवमभूत् ततः । श्रप्रमादो विधातव्यो धर्मकर्मणि सर्वथा ॥ ५६ ॥ तच्छ्रुत्वा जातसंवेगोऽग्रहीद दीक्षां 'पुरन्दरः । जग्राह श्रावकत्वं च पुण्यसारो विवेकवान् ॥ ५७ ॥ (१) घ ङ कायोत्सर्गस्थितो । (२) द भोः 1 २३१ (२) ङ सोऽपि । (8) ङ, व श्रेष्वपि । Page #232 -------------------------------------------------------------------------- ________________ २३२ श्रीशान्तिनाथचरित्र ततः पुत्रेषु जातेषु पुण्यसारोऽपि वाईके । प्रतिपद्य परिव्रज्यां मृत्वा सुगतिभागभूत् ॥ ५८ ॥ ॥ इति पुण्यसारकथानकं समाप्तम् ॥ श्रुत्वेमां पुण्यसारस्य सत्कथां 'विमलाऽऽशयः । जग्राह दीक्षां कनकशक्तिस्त्यत्वा नृपश्रियम् ॥ ५८ ॥ समीपे विमलमत्या आर्यायास्ते च तत्प्रिये । दीक्षां गृहीत्वा संजाते सुतपःसंयमोद्यते ॥ ६० ॥ विहरन् नगनगरे सिद्धिपर्वतनामके । गत्वा शिलोच्चये तस्थौ प्रतिमामेकरात्रिकीम् ॥ ६१ ॥ तत्पूर्वमत्सरी तत्र हिमचूलाभिधः सुरः । तस्योपसर्गान् विदधे निराचक्र स खेचरैः ॥ ६२ ॥ प्रभाते पारयित्वा तां स आगाद रत्नसञ्चयाम् ।। तत्र सूरि निपाताख्योद्याने तां प्रतिमां व्यधात् ॥ ६३ ॥ शुक्लध्यानजुषः तस्य घातिकर्मचतुष्टये । प्रक्षीण केवलज्ञानमुत्येदे विश्वदीपकम् ॥ ६४ ॥ विदधे महिमा तस्य देवविद्याधराऽसुरैः । वज्ञायुधचक्रिणा च मानवैरपरैरपि ॥ ६५ ॥ आगत्य समवासार्षीत् पुरि तस्यामथाऽन्यदा। पूर्वोत्तरदिग्विभाग क्षेमङ्गरजिनेश्वरः ॥ ६६ ॥ (१) ख ङ ज विगताऽऽशयः। छठ विरताशयः । (२) ठ नगनगरैः। द विहरवन गारोऽसौ सिद्धपर्वतमस्तके । (३) दुः -विमानाख्यो-। Page #233 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः। २३३ चक्री वापितः पुम्भिस्तदाऽऽगत्य नियोजितैः । ततश्च सपरीवारस्तं नन्तुं 'द्राग् ययावसौ ॥ ६७ ॥ प्रदक्षिणात्यपूर्व प्रणम्य परमेश्वरम् । निषसाद यथास्थानं शश्रूषुधर्मदेशनाम् ॥ ६८ ॥ अत्रान्तरे सुतस्तस्य सहस्राऽऽयुधनामकः । . नमस्कृत्य जिनेन्द्रं तं पप्रच्छवं कताञ्जलिः ॥ ६८ ॥ भगवन् ! पवनवेगादीनां पूर्वापर भवाः । कथं तातन विज्ञाता ममैतत् कौतुकं महत् ? ॥ ७० ॥ भगवानप्यथाऽवादीदवधिज्ञानचक्षुषा। भवस्वरूपं विज्ञातं तेषां वज्रायुधेन भोः ! ६.७१ । पुनः पप्रच्छ तद् ज्ञानं कतिभेदं भवत्यदः । जिनोऽवोचत् पञ्चधा तत् प्रसिद्ध ह्यस्मदागमे ॥ ७२ ॥ मतिश्रुतावधिसंज्ञं तत्र ज्ञानत्रयं भवेत् । तयं मनःपर्यवं च पञ्चमं केवलाऽभिधम् ॥ ७३ ॥ बुद्धिः स्मृतिश्च प्रज्ञा च मति: पर्यायवाचकाः । धीमद्भिः पुनरेतासां पृथक् भेदाः प्रकीर्तिताः ॥ ७४ ॥ भविष्यत्कालविषया मतिस्तावत् प्रकीर्तिता। बुद्धिश्च वर्तमान स्यादतीते च स्मृतिर्भवेद् ॥ ७५ ॥ कालत्रये च विज्ञेया प्रज्ञा सा च चतुर्विधा । क्षयं गर्भवे जन्तीमत्यावरणकर्मभिः ॥ ७६ ॥ (१) घठ द -प्रय याव- । (३) द चयं गते भवेद् जन्नोर्मत्यावरणकर्मणि। Page #234 -------------------------------------------------------------------------- ________________ २३४ श्रीशान्तिनाथचरित्र औत्पत्तिको वैनयिको 'कार्मिको पारिणामिको। चतुर्विधा भवेद् बुद्धिः पञ्चमी नोपलभ्यते ॥ ७७ ॥ अदृष्टाश्रुतपूर्वे या वस्तुन्युत्पद्यते क्षणात् । बुद्धिरौत्पत्तिको नाम सा बुधैः परिकीर्तिता ॥ ७८ ॥ भारते रोहको नाम शिलाप्रभृतिवस्तुषु । दृष्टी निदर्शनं तस्यां तत्कथा श्रूयतामिति ॥ ७ ॥ उज्जयिन्यां महापुर्यामरिकेसरिनामकः । बुद्धिविक्रमसंपन्नो बभूव पृथिवीपतिः ॥ ८० ॥ तस्याः पुर्याः समासने महत्या शिलयाऽद्भिते । नटग्रामेऽभवद् रङ्गशूरो नाम्ना कुशीलवः ॥ ८१ ॥ अतिमात्रकलापात्रं बुद्धिनिर्जितवाक्पतिः । बालोऽप्यबालभावोऽभूत् तत्पुत्रो रोहकाह्वयः ॥ ८२ ॥ तन्मातरि विपन्नायां रङ्गशूरस्य तस्य तु । बभूव रुक्मिणी नानी प्रेयसी रूपशालिनी ॥ ८३ ॥ सा यौवनमदोभत्ता भर्तृगौरवर्गार्वता । रोहकस्याङ्गसंस्कारं न चकार तथाविधम् ॥ ८४ ॥ सोऽवदद् कुपितो यत् त्वं शुश्रूषां न करोषि मे। भविथति ततोऽवश्यं हे मातः ! ते न सुन्दरम् ॥ ८५ ॥ (१) ङ कार्मिका परिणामिका । (२) ख घ ङ ज मतिः । (३) क ज ट द -मियम् । Page #235 -------------------------------------------------------------------------- ________________ २३५ चतुर्थः प्रस्तावः । साऽब्रवीद् रे शिशो ! यत् त्वं निग्रहानुग्रहाक्षमः । स त्वं रुष्टोऽथवा तुष्टः करिष्यसि ममात्र किम् ? ॥ ८६ ॥ रोहकः चिन्तयामासोत्पाद्य मन्तुं कमप्यहम् । तथा करिष्ये तातस्यानिष्टेयं जायते यथा ॥ ८७ ॥ विचिन्त्यैवं स यामिन्यामुत्थाय सहसाऽब्रवीत् । यात्येष पुरुषः कोऽपि निःसृत्य गृहमध्यतः ॥ ८८ ॥ तद् निशम्य पिता तस्य शयानोऽथ गृहाजिरे । उत्थायोवाच रे ! दुष्टं तं दर्शय नरं मम ॥ ८ ॥ रोहकोऽप्यवदत् तात ! स उत्प्मुत्य गत: क्षणात् । रङ्गोऽपि हि विरागाहस्ततोऽभूद गेहिनों प्रति ॥ १० ॥ पाः ! किमन्यनराऽऽसक्ता जातेयमथवा भवेत् ? । किमिदं दुर्घटं येन भवन्त्येवंविधाः स्त्रियः ? ॥ ८१ ॥ पृथक्शय्याविधानेन ततोऽसौ तेन धीमता। अशस्त्रवधवद् दुःखभागिनी विदधे स्फुटम् ॥ १२ ॥ साऽपि दध्यौ मया नापराद्धं किमपि भर्तरि ? । नूनमेतेन बालेन कोपितोऽयं पतिर्मम ॥ ८३ ॥ करोम्यस्यैव तद्भक्तिं भर्तृतोषविधित्सया। येनैवाऽऽरोपितं दुःखं स एवा पनयत्वरम् ॥ ८४ ॥ ततः सा प्रार्थयामास रोहकं भक्तिपूर्वकम् । वत्स ! मेऽभिमुखं कान्तं कुरु दास्यस्मि ते स्फुटम् ॥ १५ ॥ (१) ख घ ङ -पनयेत्तराम् । Page #236 -------------------------------------------------------------------------- ________________ २३६ श्रीशान्तिनाथचरित्र विधाय स सुधीरे तामात्मवशवर्तिनीम् । पुना रात्री सचन्द्रायां प्रोवाच जनकं प्रति ॥ १६ ॥ उत्तिष्ठोत्तिष्ठ है तात ! यात्य द्याम्यसको नरः । अथास्य पृच्छतोऽदर्शि तेन च्छाया शरीरजा ॥ १७ ॥ त्वच्छायेयमिति प्रोले पित्रा प्रोवाच रोहकः । अग्रेऽप्येवंविधी दृष्टस्तहि तात ! मया नरः ॥ ८ ॥ रङ्गशूरः ततो दध्यो हा ! मया वचनात् शिशोः । अपमानपदं चक्रे पत्नी दोषाऽभिशङ्कया ॥ १८ ॥ ततः सा रुक्मिणी भर्नु: पूर्ववद वल्लभाऽभवत् । रोहकस्य सदा भक्तिं कुरुते स्म च सादरम् ॥ ७०० ॥ ‘स पित्रा सह भुङ्क्ते स्म तथाऽपि कुशलाऽऽशयः । खजनन्या अपि प्रायो बुद्धिमान् न हि विश्वसेत् ॥ १॥ अन्यदा सह तातन स गत्वोज्जयिनों पुरीम् । सर्वमालोकयामास पुरे देवकुलाऽऽदिकम् ॥ २ ॥ गते ताते पुरोमध्ये स सिप्रासैकतेऽन्यदा। पुरों रेणुमयों कत्वा तस्थौ तद्रक्षण स्वयम् ॥ ३ ॥ अथाल्पभृत्योऽश्वाऽऽरूढस्तेनागच्छन् पथा नृपः । सहसा रोहकेणोचे सावष्टम्भमिदं वचः ॥ ४ ॥ पुरः प्रासादचैत्यान्यां राजपुत्र ! पुरोमिमाम् । किं त्वं भक्तासि येनावं निवर्तयसि नान्यतः ? ॥ ५ ॥ तस्य बुद्ध्या गिरा चैव प्रहृष्टः पृथिवीपतिः । कस्यायं सूनुरित्येवं पप्रच्छानुचरान् निजान् ? ॥ ६ ॥ Page #237 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । तेऽवोचन् रङ्गशूरस्य सुतोऽयं देव ! रोहकः । विज्ञानवचनाभ्यां यो जातस्त्वच्चित्तमोहकः ॥ ७ ॥ मन्त्रिपञ्चशतान्यासन् तस्य राजः परं नरम् । प्रकष्टं मार्गयामास स विधातुं महत्तमम् ॥ ८ ॥ ततोऽसौ रोहकप्रज्ञापरीक्षण कृतेऽन्यदा । पुरुषं प्रेषयित्वा खं ग्रामीणानिदमादिशत् ॥ ८ ॥ अस्म द्योग्य इह ग्रामे प्रासादः कार्यतां परम् । द्रव्यव्ययेन बहुनाऽप्येकद्रव्यविनिर्मितः ॥ १० ॥ संभूय ग्रामवृद्धास्ते रङ्गशूरनटश्च सः । चिरमालोचयामासुस्तद् विधातुमनीखराः ॥ ११ ॥ विना तातमभुञ्जानो रोहकोऽथ रुदन् ग्रहात् । आगत्याकारयामास भोजनायैनमादरात् ॥ १२ ॥ सोऽवदद् वत्स ! दत्तोऽद्य क्षुद्राऽऽदेशो महीभुजा। एकद्रव्येण केनापि प्रासादः कार्यतामिति ॥ १३ ॥ तनिर्णयमकत्वैव भोजनं क्रियते कथम् ? । आजा बलवतां यस्माद् लविता न शुभावहा ॥ १४ ॥ रोहकोऽप्यवदत् तावद् भोजनं क्रियतां ननु । पश्चात् सर्वं भणिष्यामि चिन्तनीयं किमत्र भोः ? ॥ १५ ॥ . भोजनोडमभाषिष्ट स सुधी राजपूरुषम् । इयमुच्चतरा दीर्घाऽऽयामयुक्ताऽस्ति या शिला ॥ १६ ॥ तयैव कारयिष्याम: प्रासादं नृपचिन्तितम् । पूरणीयं नृपेणैव पुनः शिल्पिधनाऽऽदिकम् ॥ १७ ॥ Page #238 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र इत्यर्थे कथिते तेन पुना राजा परद्यविः । ग्रामस्था इत्यभाष्यन्त बस्तमुद्दिश्य पुंगिरा ॥ १८ ॥ पोषणीयः प्रतिदिनं बस्तोऽसौ चारिवारिभिः । अहोनाधिकमेदास्तु पुन: प्रेष्योऽस्मदन्तिकम् ॥ १८ ॥ कथितं रोहकस्यैव ततस्तेनापि धीमता। ढणाऽऽदिपोषितस्यास्य दर्श्यते प्रत्यहं वृकः ॥ २० ॥ तथाकतेऽमुना राज्ञा प्रेषितः कुक्कुटोऽन्यदा । एकोऽपि योधनीयोऽयं दत्ताऽऽज्ञा चेदृशौ तथा ॥ २१ ॥ संक्रान्तप्रतिबिम्बोऽसावाद” योधित चिरम् । तिलानां शकटान् प्रेथ भाणितं भूभुजा पुनः ॥ २२ ॥ यन्वे हि पीडयित्वाऽमून् तैलं कार्य परं तिलाः । मौयन्ते येन मानेन मेयं तेनैव तैलकम् ॥ २३ ॥ रोहको मापयामास पृथ्वादर्शतलेन तान् । भूयस्तेनैव तैलं च बुद्धेः किं नाम दुष्करम् ? ॥ २४ ॥ अन्यदाऽकारयद् वति नृपतिर्वालुकामयीम् । अनया गोपयिष्यन्ते शालीनां किल तन्दुलाः ॥ २५ ॥ रोहकोऽप्यवदद् राजकार्य कार्य यथातथम् । परं प्रमाणं नैतस्या जानोमोऽकतपूर्विण: ॥ २६ ॥ ततस्तस्याः पुरातन्याः खण्डमेकं प्रदर्श्यताम् । यतस्तेन प्रमाणे न सा नव्या क्रियते बहुः ॥ २७ ॥ (१) ख घ ज -तः खयम् । Page #239 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २३८ अन्यदा च जरजस्ती प्रेषितस्तत्र भूभुजा । कथितं च यथा यत्नात् पाल्योऽयं मम वारण: ॥ २८ ॥ संस्थितस्यास्य मे वार्ता कथनीया यथा तथा । मृत इत्यक्षरबन्दं नोच्चायं तु पुरो मम ॥ २८ ॥ जापितो रोहकेणति मृते तस्मिन् महीपतिः । यद् देव ! न चरत्यद्य करी पिबति वा न च ॥ ३० ॥ चक्रे नोच्छासनिःश्वासी राजीचे तर्हि किं मृतः ? । सोऽवदद् वेद्मि नैवाहं देवो जानाति कारणम् ॥ ३१ ॥ राज्ञा पुन: समादिष्टं ग्रामलोकस्य तस्य तु । यद् भोः ! खादुजलाऽऽपूर्ण: खकूपः प्रेप्थतामिह ॥ ३२ ॥ प्रत्यूचे रोहकोऽप्येवं पुरस्था काऽपि कूपिका । देवाऽऽदौ प्रेष्यतामत्र यतः साई तयत्ययम् ॥ ३३ ॥ दृष्टो राजाऽप्यभाषिष्ट युक्तमतेन जल्पितम् । कार्यस्याऽघटमानस्याऽघटमानमिहोत्तरम् ॥ ३४ ॥ प्रदत्ताऽज्ञा पुना राजा यदुदीच्यां वनं दिशि । दक्षिणस्यां दिशि ग्रामात् तत् कथं क्रियते वद ? ॥ ३५ ॥ रोहकोऽप्यवदद् ग्रामनिवेशः क्रियतेऽन्यतः । तेनैव विधिना ग्रामाद् भवेद् दक्षिणतो वनम् ॥ ३६ ॥ राजाऽऽदेशात् स चान्येद्युः पायसं पावकं विना । पपाचावकरस्यान्तः स्थालौं विन्यस्य यत्नतः ॥ ३७॥ (१) ख घ -मिति । ज -मितः । Page #240 -------------------------------------------------------------------------- ________________ २४० श्रीमान्तिनाथचरित्रे समीपे भूपतिः स्वस्याकारयामास रोहकम् । व्यवस्थयाऽनयाऽन्धेद्युरन्योऽन्यस्य विरुद्धया ॥ ३८ ॥ नागम्यं मलिनाङ्गेन कार्यं स्नानं न च त्वया । यानाऽऽरूढेन चागम्यं पद्भ्यां नाऽस्पृशता भुवम् ॥ ३८ ॥ नोत्पथेन न मार्गेण न रात्रौ न च वासरे | न कृष्णे नोज्ज्वले पक्षे न च्छायायां न चाऽऽतपे ॥ ४० ॥ नोपदापाणिना नैव रिक्तहस्तेन वा त्वया । आगन्तव्यं त्वयाऽभ्यामे शेमुषीशालिना ध्रुवम् ॥ ४१ ॥ ततश्चैडकिकिाऽऽरूढः स्पृशन् पद्भ्यां धरातलम् । प्रक्षालिताङ्गस्तोयेन सन्ध्याकाले कुहदिने ॥ ४२ ॥ धृतचालनकः शीर्षे चक्ररेखान्तरालगः । मृदुपायन'पाणिश्च स ययौ नृपपर्षदि ॥ ४३ ॥ कृत्वा प्रणामं भूपस्य समीपे निषसाद च । ढौकयामास चामुष्य प्राभृतं मृत्तिकामयम् ॥ ४४ ॥ किमेतदिति राज्ञोक्ते कथयित्वाऽऽत्मन: कथाम् ? | सोऽवदद देव ! गुर्वीयं जगन्मातेव मृत्तिका ॥ ४५ ॥ ततश्च स्वाऽऽगतप्रश्नद्रव्यदानाऽऽदिना नृपः । संमान्यैनं सभामध्ये प्रशशंस सविस्मयः ॥ ४६ ॥ अहो ! अस्य महापुंसो विलोक्य मतिवैभवम् । वयं मन्यामहे रूढं सत्यमेतत् सुभाषितम् ॥ ४७ ॥ (१) ख घ ज - पाणिभ्यां । Page #241 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २४१ वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोया'नामन्तरं महदन्तरम् ॥ ४८ ॥ अथाऽङ्गरक्षकत्वे तं निवेश्य निशि भूपतिः । ... सुष्वाप शयने तस्मिन् रोहकोऽपि महामति: . ४८ ॥ यामिन्याः प्रथमे यामे जातनिद्राचयोऽथ सः । विबोध्य रोहकं स्माऽऽह सुप्तो जागर्ति वा भवान् ? ॥ ५० ॥ सोऽवदद् नैव सुप्तोऽस्मि देव ! चिन्तां करोम्यहम् । अविकालिण्डिकाः को नु करोत्येवंविधा इति ? ॥ ५१ ॥ भूपपृष्टेन तेनैव कृतस्तनिर्णयो यथा । . . वातप्राबल्वतस्तासां जायन्ते तास्तथाविधाः ॥ ५२ ॥ हितीयप्रहरेऽप्येवं पृष्टो राज्ञा जजल्प सः । यथा पिप्पलपर्णानामादिरन्तोऽथवा गुरुः ॥ ५३ ॥ तेनैव निर्णयश्चक्र हावयेतो समाविति । हतीयप्रहर खाडिहलादेहस्य चिन्तनम् ॥ ५४ ॥ निर्णीतमिति तेनैव समत्वं देहपुच्छयोः । .. यावती खेतता तावत् कृष्णत्वमपि तत्तनौ ॥ ५५ ॥ चतुर्थप्रहरे विद्धः कण्ट केन महीभुजा। जगाद रोहको देव ! चिन्ता त्वत्तातजा मम ॥ ५६ ॥ (१) ठ -नां दृश्यते । (२) ख ध न पत्राणां। (३) ङ निर्णीय क्षतं । Page #242 -------------------------------------------------------------------------- ________________ २४२ श्रीशान्तिनाथचरित्रे कीदृशौति तृपणोतो सोऽवदद् राजगुह्यको ? । निणेजकालिमातङ्गाश्चेति ते जनकाः स्फुटम् ॥ ५७ ॥ राजोचे किमसंबद्धं ब्रूषे जानासि वा कथम् ? । सोऽप्यवोचत जानामि भूपते ! तव चेष्टया ॥ ५८ ॥ न्यायेन पालयस्युवौं येन तेन नृपाऽऽत्मजः । तुष्टो ददासि यद् भूरि धनं तद् धनदात्मजः ॥ ५८ ॥ कोपं करोषि यद् गाढं तत् त्वं चण्डालनन्दनः । रुष्टो हरसि सर्वस्वं येन तद् रजकाऽऽत्मजः ॥ ६ ॥ विद्यः कण्टिकया यस्माद् दूनोऽहमलिदंशवत् । तेन जानाम्यहं राजन् ! वृश्चिकोऽपि पिता तव ॥ ६१ ॥ इत्यर्थे संशयश्चेत्ते जनौं पृच्छ तबिजाम् । तयाऽप्यनुमतं ह्येतदतिनिबन्धपृष्टया ॥ ६२ ॥ वीक्ष्याभिलषिता एते यदृतुस्नातया मया । तेन पञ्चाप्यमी वत्स ! पिढभावं भजन्ति ते ॥ ६३ ॥ ततोऽसौ रोहको नामाऽनन्यसामान्यधोधनः । पञ्चमन्त्रिशतवामी कृतस्तुष्टेन भूभुजा ॥ ६४ ॥ 'तस्य बुद्धिप्रभावेण दृप्ता अपि महीभुजः । अरिकेसरिभूपस्य बभूवुर्वशवर्तिनः ॥ ६५ ॥ ॥ इति रोहककथानकं समाप्तम् ॥ बुद्धिर्वैनयिकी सा या विनयेन भवेद् गुरोः । अधीतेऽपि निमित्ताऽऽदिशास्त्रे चारुविचारकत् ॥ ६६ ॥ Page #243 -------------------------------------------------------------------------- ________________ 'चतुर्थः प्रस्तावः । घटचित्राssदिकरण शिल्पिनां लेखकस्य च । भवेत् कर्मसमुत्था या सा बुद्धिः कार्मिको स्फुटम् ॥ ६७ ॥ परिणामवशात् सर्ववस्तुनः कृतनिश्चया । २४३ स्यात् पारिणामिको बुद्धिः प्रतिबोधविधायिनी ॥ ६८ ॥ सर्वासामपि बुद्धीनां दृष्टान्ता आगमोदिताः । अनेके सन्ति ते ग्रन्थगौरवादिह नोदिताः ॥ ६६ ॥ free farsषा मतिज्ञानमिहोच्यते । सति यस्मिन् श्रुतमपि प्रादुर्भवति देहिनाम् ॥ ७० ॥ त्रिकालविषयं वस्तु येनाऽधीतेन विद्यते । तत् सिडमाटकामुख्यं श्रुतज्ञानं प्रकीर्तितम् ॥ ७१ ॥ कियन्तोऽपि भवा येन विज्ञायन्ते शरीरिणाम् । प्रोक्तं तदवधिज्ञानं सर्वदिक्षु कृतावधि ॥ ७२ ॥ भावा मनोगता येन ज्ञायन्ते संज्ञिदेहिनाम् । मनः पर्यवसंज्ञं तच्चतुर्थं ज्ञानमुच्यते ॥ ७३ ॥ सर्वत्र सर्वदा यस्य स्खलना न कथञ्चन । तद्भवे केवलज्ञानं पञ्चमं सिद्धिसौख्यकृत् ॥ ७४ ॥ अथोत्थाय जिनं नत्वा गृहे गत्वा च चक्रभृत् । राज्ये न्यवेशयत् पुत्रं 'स सहस्राऽऽयुधाभिधम् ॥ ७५ ॥ चतुःसहस्रे राजीनां तत्संख्यैः पार्थिवैस्तथा । सप्तपुत्रशतैः सार्द्धं स श्रामण्यं ततोऽग्रहीत् ॥ ७६ ॥ (१) ङ सहस्रायुधनामकम् । Page #244 -------------------------------------------------------------------------- ________________ २४४ श्रीशान्तिनाथचरित्रे गृहीत्वा द्विविधां शिक्षां गीतार्थो विहरन् भुवि । ययौ सोऽपि गिरिवरं सिद्धिपर्वतसंज्ञकम् ॥ ७७ ॥ तत्र वैरोचने स्तम्भे रमणीये शिलातले । स सांवत्सरिकों तस्थौ प्रतिमा मेरुनिश्चलः ॥ ७८ ॥ इतोऽश्वग्रीवतनयौ मणि कुम्भमणिध्वजी। भवं भ्रान्त्वा सुरत्वेन समुत्पन्नौ तदा हि तौ ॥ ८ ॥ तत्प्रदेशं समायातौ भगवन्तं निरीक्ष्य तम् । उत्पन्नमत्सरौ तस्योपसर्गानिति चक्रतुः ॥ ८० ॥ तीक्ष्णदंष्ट्राकरालास्यं दीर्घलाङ्गलमादितः । तौ सिंहव्याघ्रयो रूपं मुक्तनादं वितेनतुः ॥ ८१ ॥ ततश्च रूपमास्थाय करेखोरतिभोषणम् । कुडो विदधतुः तस्य दन्तघाताऽऽद्युपट्रवम् ॥ ८२ ॥ भूत्वाऽथ सर्पसपिण्यौ फटाटोपभयङ्करौ। तत: पिशाचराक्षस्यावुपदुद्रुवतुश्च तम् ॥ ८३ ॥ रम्भातिलोत्तमानानौ शक्रस्याग्रप्रिये तदा। वज्रायुधमुनीन्द्रं तं नमस्कर्तुमुपैयतुः ॥ ८४ ॥ ते विलोक्य समायान्त्यौ 'वरितं तौ प्रणशतुः । ताभ्यां संतक्षितौ गाढं वचनैर्भयकारिभिः ॥ ८५ ॥ साङ्गहारं सविलासं हावभावरसोत्तरम् । रम्भा नृत्यं स्वयं चक्रे वज्रायुधमुनेः पुरः ॥ ८६ ॥ (१) क ज विरतौ तौ प्रणेमतः । च द वारितो। Page #245 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २४५ सप्तस्वरसमायुक्तं ग्रामवयपविनितम् । तिलोत्तमाऽपि सपरीवारा गीतं व्यधाद् वरम् ॥ ८७ ॥ विधायैवंविधां भक्ति मुनीन्द्रं तं प्रणम्य च । रम्भातिलोत्तमे देव्यो जग्मतुः स्थानमात्मनः ॥ ८८ ॥ वार्षिकों पारयित्वा तां प्रतिमामतिदुष्कराम् । विजहार महीपौठे वच्चायुधमहामुनिः ॥ ८८ ॥ क्षेमर गते मोक्षं गणभृत् पिहिताश्रवः । आययो नगरेऽन्येद्युः सहस्रायुधभूपति: ॥ ८ ॥ धर्म तदत्तिके श्रुत्वा प्रतिबुद्धः सकोऽपि हि । राज्ये शतबलं पुत्रं निवेश्य व्रतमाददे ॥ ८१ ॥ . गीतार्थो मिलितः सोऽथ तातसाधोस्ततश्च तौ । भूम्यां विहरत: स्मोभौ कुर्वन्तौ विविधं तपः ॥ १२ ॥ ईषत् प्राग्भारसंज्ञऽथ समारुह्य महौधरी । संतस्थतः कृतप्रायौ पादपोपगमेन तौ ॥ १३ ॥ त्यला देहमिदं मलाञ्चितमुभौ तौ देवलोकोत्तरं संप्राप्तौ नवमं गतावमुमथ अवेयकाग्रेयकम् । इत्थं शान्तिजिनेवरस्य चरित तस्यैव वर्याष्टमः प्रोक्तोऽयं मयका भव: सनवमः सङ्घस्य कुर्याच्छिवम् ॥७८४॥ इत्याचार्यश्रीअजितप्रभसूरिविरचिते श्रीशान्तिनाथचरिते अष्टमनवमभववर्णनो नाम चतुर्थः प्रस्तावः ॥ Page #246 --------------------------------------------------------------------------  Page #247 -------------------------------------------------------------------------- ________________ अर्हम् अथ पञ्चमः प्रस्तावः । इतोऽस्य जम्बूडोपस्य प्राग्विदेहस्य 'मध्यमे । विजये पुष्कलावत्यामस्ति पूः पुण्डरीकिणी ॥ १ ॥ नीतिकोर्तिजयश्रीणां स्त्रीणां सङ्केतमन्दिरम् । अभूत् तीर्थङ्करस्तत्र राजा घनरथाभिधः ॥ २ ॥ रूपलावण्यसंयुक्ते तस्याऽभूतामुभे प्रिये । आद्या प्रीतिमतीनाम्नी द्वितीया च मनोहरी ॥ ३ ॥ वज्रायुधस्य जीवोऽथैक त्रिंशत्सागरस्थितेः । तस्मात् सर्वोत्तमग्रैवेयकादायुःक्षये च्युतः ॥ ४ ॥ तत्पूर्वप्रेयसीकुक्षिशक्तौ मुक्तामणिप्रभः । समुत्पेदे सुतत्वेन मेघस्वप्नोपसूचितः ॥ ५ ॥ ( युग्मम् ) सहस्रायुधजीवोऽथ ततषुप्रत्वोदरेऽभवत् । राज्ञः पत्नगाः द्वितीयस्याः सुरथस्वप्रशंसितः ॥ ६॥ पूर्णकालेऽथ ते देव्यौ प्रसूते शुभलक्षणौ । मेघरथदृढरथनामानौ वरनन्दनौ ॥ ७ ॥ अतिक्रान्तशिशुत्वौ तौ कलाचार्यस्य सन्निधौ । सुविनीतौ महाप्राज्ञौ पेठतुः सत्कला इति ॥ ८ ॥ (१) घ ज भूषणे । Page #248 -------------------------------------------------------------------------- ________________ २४८ श्रीशान्तिनाथचरित्रे लेख्यं गणितमालेख्यं नाट्यं गीतं च वादितम् । खरपुष्करगतं समतालं चेति तत् विधा ॥ ८ ॥ अष्टापदं नालिका च जनवादं तथैव च । विधा द्यूतं चावपानविधिः शयनसंयुतः ॥ १० ॥ आभरणविधिश्चार्या गाथा गीतिः प्रहेलिका। लोकश्च गन्धयुक्तश्च तरुणीनां प्रसाधनम् ॥ ११ ॥ नगरस्त्रीहयहस्तीनां लक्षणानि गवां तथा । लक्षणं ताम्रचूडस्य तथा 'मेद्रस्य लक्षणम् ॥ १२ ॥ चक्रच्छत्रमणिदण्डकाकिणीखनचर्मणाम् । प्रत्येकं लक्षणानीह ज्ञातव्यानि कलाविदा ॥ १३ ॥ चन्द्रसूरग्रहराहुचरितं सूपकारता। विद्याकारो मन्त्रगतं रहस्यगतमेव च ॥ १४ ॥ व्यूहं चापि प्रतिव्यूहं चारं च प्रतिचारकम् । स्कन्धावारप्रमाणं च मानं च पुरवास्तुनोः ॥ १५ ॥ स्कन्धावारपुरवास्तनिवेशं चाऽश्वशिक्षणम् । हस्तिशिक्षा तत्त्ववादं नीतिशास्त्रं सविस्तरम् ॥ १६ ॥ धनुर्वेदमणिस्वर्णधातुवादं तथैव च । बाहुयुद्ध दण्डयुद्धं दृष्टिमुध्योयुधं तथा ॥ १७ ॥ नियुद्ध वाग्युधं सर्पवलापां स्तम्भनं तथा । पत्रच्छेदं वैद्यकं च वषिर्वाणिज्यकर्म च ॥ १८ ॥ (१) क ख डज षण्डय। - . . Page #249 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २४९ विजेयो वलिपलितनाशः पक्षिरुतं तथा । कला विसप्ततिश्चैता विद्वद्भिः परिकीर्तिताः ॥ १८ ॥ कलाकलापसम्पूर्णौ रूपनिर्जितमन्मथौ । क्रमेण यौवनं प्राप्ती कुमारी तो बभूवतुः ॥ २० ॥ सुमन्दिरपुराधीशनिहतारिनृपाऽऽत्मज । उपयेमे मेघरथः प्रियमित्रामनारमे ॥ २१ ॥ तस्यैव भूपतेः पुत्री कनिष्ठा रूपसंयुता। पत्नी दृढरथस्यापि जन्जे सुमतिसंज्ञका ॥ २२ ॥ नन्दिषणमेघसेनाऽभिधानी वरनन्दनौ । जातो 'मेघरथस्याऽथ पत्नीहितयसंभवी ॥ २३ ॥ पुत्रो दृढरथस्यैको रथसेनाभिधोऽभवत् । । ते त्रयोऽपि कलाऽभ्यासं समये चक्रिरेऽखिलम् ॥ २४ ॥ राजा मेघरथोऽन्येद्युः पुत्रपौत्रसमन्वितः । सिंहासननिविष्टोऽधितष्ठावास्थानमण्डपम् ॥ २५ ॥ प्रोक्ता मेघरधनाथ न वाधीता निजात्मजाः । वत्माः ! प्रज्ञाप्रकाशाऽर्थं ब्रूत प्रश्नोत्तराणि च ॥ २६ ॥ ततस्तद्वचनानन्तरमेव एकेन कनिष्ठेन पठितम् : कथं संबोध्यते ब्रह्मा दानार्थो धातुरत्र कः ? । कः पर्यायच योग्यानां को वाऽलङ्करणं तृणाम् ? ॥ २७ ॥ (१) ङ मेघरथस्थेमो विनयादिगुणैर्युतौ। Page #250 -------------------------------------------------------------------------- ________________ २५० श्रीशान्तिनाथचरित्र विचिन्त्य द्वितीयेनोक्रम्-'कलाऽभ्यासः' इति । स च पठितवान् : दण्डनीतिः कथं पूर्व महाखेदे क उच्यते ? । काऽबलानां गतिर्लोकपालः कः पञ्चमो मतः ? ॥ २८ ॥ ज्येष्ठेन तस्योत्तरं दत्तम्-“महीपतिरिति” । ततश्च स पपाठ : किमाशीर्वचनं राज्ञां का शम्भोः तनुमण्डनम् ? । कः कर्ता सुखदुःखानां पात्रं च सुकृतस्य कः ? ॥ २८ ॥ अन्येषु अजानत्म मेघरथेन तस्योत्तरमादायि-'जीवरक्षाविधिरिति । खयं च भणितवान् सुखदा का शशाङ्कस्य मध्ये च भुवनस्य कः ? । निषेधवाचकः को वा का संसारविनाशिनी ? ॥ ३० ॥ राज्ञोक्तम्-‘भावनेति'। तथैका गणिका तत्रोपविश्य नृपमब्रवीत् । जीयते देव ! नान्येन ककवाकुरयं मम ॥ ३१ ॥ यदि वाऽन्यस्य कस्याऽपि गर्वोऽस्ति चरणायुधात् । स पादमूले भवतामानयत्वात्मकुकुटम् ॥ ३२ ॥ जेष्थते कुक्कुटो मे चेत् ताम्रचूडेन कस्यचित् । तत् तस्मै संप्रदास्यामि द्रव्यलक्षमहं स्फुटम् ॥ ३३ ॥ राज्ञी मनोरमा तस्याः समाकाथ तहचः । दास्या राजाज्ञया तनानाययद् निजकुक्कुटम् ॥ ३४ ॥ (१) ठ मनं च सुक्षतस्य का । Page #251 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । मुक्तस्तेन पणेनाऽसौ ततस्तौ नृपतेः पुरः । योद्धुं प्रवृत्तावन्योऽन्यं चचुघातकृतक्षतौ ॥ ३५ ॥ चचुपादप्रहारैस्तौ युध्यन्तावरुणेक्षणौ । राजसभ्यजनकृतां प्रशंसां समवापतुः ॥ ३६ ॥ तीर्थङ्करत्वादागर्भवासाद् ज्ञानत्रयाऽन्वितः । अत्रान्तरे मेघरथं राजा घनरथोऽब्रवीत् ॥ ३७ ॥ चिरं युध्वाऽनयोर्मध्याद वत्स ! नैकोऽपि जेष्यति । पृष्टोऽथ कारणं तेन पुनरेव जगाद सः ॥ ३८ ॥ इहैव भरतक्षेत्रेऽभूतां रत्नपुरे पुरे । धनद सुदत्तसंज्ञौ वणिजौ मित्रतां गतौ ॥ ३८ ॥ बाहयन्तौ बलीवर्दो क्षुत्तृष्णाभरपीडितौ । व्यवहारं सदा गन्त्रग्रा चक्रतुः सममेव तौ ॥ ४० ॥ मिथ्यात्वमोहितौ कूटतुलामानविधानतः । अर्जयामासतुर्वित्तं तौ चाल्पं परवञ्चकौ ॥ ४१ ॥ अन्यदा कलहायन्तौ तौ प्रहृत्य परस्परम् | विपद्य चार्तध्यानेन संजातौ वनदन्तिनौ ॥ ४२ ॥ कूले सुवर्णकूलायाः वर्डमानौ बभूवतुः । काञ्चनताम्रकलशाऽभिधानौ यूथनायकौ ॥ ४३ ॥ तौ च यूथस्य लोभेन युवा मृत्वा बभूवतुः । सैरिभौ पुर्ययोध्यायां नन्दिमित्रस्य मन्दिरे ॥ ४४ ॥ गृहीत्वा राजपुत्राभ्यां योधितौ तौ परस्परम् । विपद्य पुरि तत्रैव संजातौ मेषको दृढौ ॥ ४५ ॥ 1 २५१ Page #252 -------------------------------------------------------------------------- ________________ २५२ श्रीशान्तिनाथचरित्रे मिथः शृङ्गाऽग्रघातेन भिन्नशोर्षौ सविस्मयम् । मृत्वमौ कुक्कुटौ जातौ रोषारुणविलोचनौ ॥ ४६ ॥ ततश्च नैतयोर्मध्याद् वत्सैकोऽपि विजेष्यते । इति श्रुत्वा मेघरथोऽवधिज्ञानो शशंस च ॥ ४७ ॥ न केवलमिमौ तात ! 'मत्सरावेष्टितौ दृढम् । खेचराधिष्ठितौ चात्र कारणं कथयामि वः ॥ ४८ ॥ अस्त्यत्र भरतक्षेत्रे वैताव्यवरपर्वते । सुवर्णनाभं नगरमुत्तरश्रेणिभूषणम् ॥ ४८ ॥ तत्राऽऽसीद गरुडवेगाभिधानः खेचरेश्वरः । तस्य पुत्रौ चन्द्रसूरतिलकाऽऽख्यौ नभश्वरौ ॥ ५० ॥ अन्यदा तौ नमस्कर्तु प्रतिमाः शाश्वतार्हताम् । जग्मतुमेरुशिखरे जिननात्र पवित्रिते ॥ ५१ ॥ तत्र सागरचन्द्राऽऽख्यं चारणाश्रमणं वरम् । दृष्ट्वा प्रणेमतुः स्वर्णशिलाऽऽसोनमिमौ मुदा ॥ ५२ ॥ पृष्टो मुनिवरस्ताभ्यां निजपूर्वभवस्थितिम् । सोऽपि ज्ञानेन विज्ञाय कथयामास ताविति ॥ ५३ ॥ अस्तौह धातकीखण्डद्दीपस्यैरवते पुरम् | नाम्ना वज्ज्रपुरं तत्त्राभयघोषोऽभवद् नृपः ॥ ५४ ॥ सुवर्णतिलका तस्य राज्ञो तत्कुचिसम्भवौ । अभूतां जयविजयाभिधानौ वरनन्दनौ ॥ ५५ ॥ (१) क युद्धेत्र ते वैरसंयुतौ । खेचरावेष्टितौ । ख घ ङ मत्सराबेष्टितौ युतौ । युद्धेत्रते रोषरणौ । ठ पूर्वदुष्कर्मवैरिणौ । मत्सरावेष्टितौ । Page #253 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २५३ इतः सुवर्ण नगरवामिनः शासभूपतः । पृथ्वीदेवोभवा पृथ्वीसेना नाम्नी सुकन्यका ॥ ५६ ॥ भूपस्याभयघोषस्य समायाता स्वयंवरा । परिणीतातिहर्षेण तेनासौ मृगलोचना ॥ ५७ ॥ अन्यदाऽथ वसन्तौ सुपुष्पवनबन्धुरे । ययौ क्रीडितुमुद्याने राजा राजीशतान्वितः ॥ ५८ ॥ भ्रमन्त्या तत्र तत्पत्नया पृथ्वीसेनाभिधानया । प्रदर्शि दान्तदमनाभिधानो मुनिपुङ्गवः ॥ ५८ ॥ तत्याखें धर्ममाकर्ण्य तया च प्रतिबुद्दया । अनुज्ञाप्य महीपालं प्रव्रज्या प्रत्यपद्यत ॥ ६ ॥ राजाऽप्युद्यानलक्ष्मी तामनुभूय ययौ पुरम् । प्राप्तश्च तगृहेऽन्येा श्छद्मस्थोऽनन्ततीर्थक्वत् ॥ ६१ ॥ प्राशुकैरनपानश्च स तेन प्रतिलाभितः । चक्रिरे पञ्च दिव्यानि तगृहे च दिवौकसः ॥ ६२ ॥ उत्पबकेवलस्यास्य समीपे स महीपतिः । तनयाभ्यां समं ताभ्यां प्रव्रज्यां प्रतिपत्रवान् ॥ ६३ ॥ विंशतिस्थानकैः तीर्थकरकर्म निबध्य सः । कत्वा कालं ससुतोऽप्यच्युतकल्पे सुरोऽभवत् ॥ ६४ ॥ ततश्चयतोऽभयघोषजीव: स्वस्याऽऽयुषः क्षये। राजा धनरथो जने हेमाङ्गदनृपाऽऽत्मजः ॥ ६५ ॥ जीवी जयविजययोः सञ्जाती वां दिवश्चाती। इति तेनानगारेण तयोस्तात ! निवेदितम् ॥ ६६ ॥ Page #254 -------------------------------------------------------------------------- ________________ २५४ श्रीशान्तिनाथचरित्र ततस्तो द्रष्टुमुत्को त्वामिहायाती नभश्चरौ। . अपश्यता युध्यमानौ कौतुकात् 'कुर्कुटाविमौ ॥ ६७ ॥ ताभ्यामधिष्ठितावेतौ विद्यया तस्थतुश्च तो। इहैव गोपयित्वा स्खं स्वविद्यायाः प्रभावतः ॥ ६८ ॥ वाक्यं मेघरथस्येदं श्रुत्वा तौ खेचरावुभौ । राज्ञो घनरथस्यांह्री प्रकटीभूय नेमतुः ॥ ६८ ॥ तो पूर्वभवतातस्य तस्य नखा क्रमहयम् । क्षणं स्थित्वा निजं स्थानं पुनरेव प्रजग्मतुः ॥ ७० ॥ ततो दीक्षां गृहीत्वा तौ तपस्तवा सुदुश्चरम् । उत्पबकेवलज्ञानो सनातनपदं गतौ ॥ ७१ ॥ अथ तौ कुर्कुटौ सवीं श्रुत्वा पूर्वभवस्थितिम् । महापापविधातारं मनसा खं निनिन्दतुः ॥ ७२ ॥ प्रणम्य चरणइन्हं राज्ञो धनरथस्य तौ। स्वभाषयोचतुश्चैवमावां किं कुर्वहे 'प्रभो ! ? ॥ ७३ ॥ ततो राज्ञा ससम्यक्त्वो धर्मोऽहिंसाऽऽदिलक्षणः । तयोर्निवेदितस्ताभ्यां भावसारं प्रतीप्सितः ॥ ७४ ॥ प्रायं कृत्वा विपन्नौ तौ देवयोनी बभूवतुः । ताम्रचूलस्वर्णचूलो भूतौ भूताऽटवौं गतौ ॥ ७५ ॥ (१) कुक्कुटकुर्कुटशब्दयोः पर्यायत्वात् केषु पुस्तकेषु कुक्कुटशब्दस्य केषुचन कुकटयोल्लेखः। (२) क द विभो!। (३) ड आयुःक्षये। Page #255 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २५५ ततो विमानमारुह्याऽऽगत्य नत्वा महीपतिः । कतोपकारं तं प्राशंसतां विरचिताञ्जली ॥ ७६ ॥ राजानं समनुज्ञाप्य जग्मतुस्ती खमाश्रयम् । राजाऽपि पालयामास राजलक्ष्मीमसौ चिरम् ॥ ७७ ॥ एत्य लोकान्तिकैर्देवै राजा घनरथोऽन्यदा। तीर्थं प्रवर्तयेत्युक्त्वा दीक्षाकालं विबोधितः ॥ ७८ ॥ दत्त्वा सांवत्सरं दानं राज्ये मेघरथं सुतम् । स्थापयित्वा स जराहे दीक्षां देवेन्द्रवन्दितः ॥ ७ ॥ उत्पाद्य केवलज्ञानं भविकान् प्रतिबोधयन् । विजहार महोपोठे श्रीमान् घनरथो जिनः ॥ ८० ॥ युक्तो दृढरथेनाथ युवराजेन सप्रियः । उद्याने देवरमणे ययौ मेघरथोऽन्यदा ॥ ८१ ॥ तत्राशोकतरोर्मूले निविष्टस्यास्य भूपतेः । पुरोभूतैः समारब्धा कैश्चित् प्रेक्षणकक्रिया ॥ ८२ ॥ नानाशस्त्रधराः कत्तिवाससो भूतिमण्डिताः । तेऽतीव विस्मयकरं नृत्यं विदधिरे क्षणम् ॥ ८३ ॥ तेषु नृत्यं प्रकुर्वत्सु किङ्किणीकेतुमालितम् । विमानमेकमाकाशादाययौ नृपसबिधौ ॥ ८४ ॥ तन्मध्ये सुन्दराऽऽकारं नारीपुरुषयोर्युगम् । दृष्ट्वा पप्रच्छ कावेताविति देवी महीपतिम् ॥ ८५ ॥ राजा प्रोवाच हे देवि ! शृणु वैताठ्यपर्वते । उत्तरस्यां वरश्रेण्यां नगरी विद्यतेऽलका ॥ ८६ ॥ Page #256 -------------------------------------------------------------------------- ________________ २५६ ौशान्तिनाथचरित्रे विद्युद्रथखेचरेन्द्रपुत्रस्तत्र महाभुजः । अयं सिंहरथो नाम्रा सर्वविद्याधरेखरः ॥ ८७ ॥ इयं वेगवतीनाम्नी भार्याऽस्य सहितोऽनया । गतोऽभूद् धातकोखण्डहोपेऽसौ वन्दितुं जिनम् ॥ ८८ ॥ ततो निवर्तमानोऽसौ यावदागादिह प्रिये !। प्रतिघातो गतेस्तावदस्याभूत् सहसैव हि ॥ ८ ॥ मां दृष्ट्वाऽचिन्तयदसौ सामान्योऽयं नृपो न हि । यत्प्रभावेण सञ्जाता विमानस्खलना मम ॥ ५० ॥ ततोऽनेन प्रहृष्टेन भूतरूपाण्यनेकशः । कृत्वा मम पुरचक्रे प्रिये ! प्रेक्षणकौतुकम् ॥ ११ ॥ पप्रच्छवं पुनर्देवी किमनेन पुराभवे ? । सुकृतं विहितं येन जाता नाथईिरोदृशी ॥ २ ॥ राजोवाच प्रिये ! पूर्व पुरे सङ्घपुराभिधे । राजगुप्ताभिधः कश्चिद् बभूव कुलपुत्रकः ॥ ८३ ॥ शडिका नाम तद्भार्या निर्धनत्वेन पौडितो। तौ कृत्वाऽन्यग्रहे कर्म प्राणवृत्तिं वितेनतुः ॥ २४ ॥ काष्ठाद्यर्थमथान्येार्गताभ्यां काननान्तरे । दृष्ट्वा भक्तिवशात् ताभ्यां साधुरेको नमस्कृतः ॥ ५ ॥ उपदिष्टस्तयोरग्रे तेन धर्मो जिनोदितः । विधिनाऽऽराधितश्चिन्तामणिकल्पद्रुमोपमः ॥ ८६ ॥ जन्मान्तरोपार्जितानां पापानामन्तकारकम् । आदिष्टं च तपो हात्रिंशकल्याणाभिधं वरम् ॥ ८७ ॥ Page #257 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । त्रिरात्रद्दित्यं तत्र भवेच्चातुर्थिकानि च । हात्रिंशदिति ताभ्यां तद् विदधे भक्तिपूर्वकम् ॥ ८८ ॥ तस्य पारणके ताभ्यां मुनिरेको गृहागतः 1 प्रणम्य प्राशुकैर्भक्तपानाद्यैः प्रतिलाभितः ॥ ee ॥ प्रतिपन्नाऽथ कालेन ताभ्यामप्यनगारता । राजगुप्तः स चाचाम्लवर्धमानं तपोऽकरोत् ॥ ९०० ॥ श्रायुःचये विपन्नोऽसौ ब्रह्मलोके सुरोऽभवत् । ततश्चप्रतः सिंहरथाभिधोऽयं समभूत् प्रिये ! ॥ १ शङ्किका च तपः कृत्वा कल्पे गत्वा च पञ्चमे । इयं वेगवतोनाम्नो जज्ञेऽस्यैव हि वल्लभा ॥ २ ॥ इति मेघरथप्रोक्तमाकर्ण्य चरितं निजम् । प्रतिबुद्धः सिंहरथो गतो निजग्टहं ततः ॥ ३ ॥ निवेश्य तनयं राज्ये प्रियया सहितस्तया । श्रीधनरथतीर्थेशपादान्ते व्रतमग्रहीत् ॥ ४ ॥ घोरं कृत्वा तपःकर्माऽवाप्य केवलमुत्तमम् । धौतकर्ममलः सिद्धिं ययौ सिंहरथो मुनिः ॥ ५ ॥ वनादु गेहं समायातो राजा मेघरथोऽन्यदा । मुक्ताऽलङ्करणाऽऽरम्भो विदधे पोषधव्रतम् ॥ ६ ॥ मध्ये पोषधशालायाः स्थितो योगाssसने सुधीः । पुरः समस्तभूपानां विदधे धर्मदेशनाम् ॥ ७ ॥ अत्रान्तरे कम्पमानशरीरस्तरलेक्षणः । संवृत्तोऽस्मि महाराज ! तवाहं शरणाऽऽगतः ॥ ८ ॥ २५७ ३३ Page #258 -------------------------------------------------------------------------- ________________ २५८ श्रीशान्तिनाथचरित्रे इति जल्पन् मनुष्योक्त्या कुतोऽप्येत्य भयद्रुतः । पपात भूपतेः क्रोडे पक्षी पारापताभिधः ॥ ८ ॥ ( युग्मम् ) भयभीतममुं दृष्ट्वा दयालुः स महीपतिः । प्रोचे त्वं भद्र ! मा भैषीः कुतोऽपि मम सन्निधौ ॥ १० ॥ एवमाभाषितो राज्ञा निर्भयः समभूदसौ।। तावत् तत्र समायात: क्रूरः श्येनाऽभिधो हिजः ॥ ११ ॥ सोऽवदत् शृणु राजेन्द्र ! त्वदुत्सङ्गगतोऽस्ति यः । पारापत: स मे भक्ष्यं तं मुञ्च क्षुधितोऽस्माहम् ॥ १२ ॥ जजल्प भूपतिर्भद्र ! ममाऽयं शरणाऽऽगतः । युक्तो नाऽर्पयितुं येन पठन्त्येवं मनीषिणः ॥ १३ ॥ शूरस्य शरणाऽऽयातोऽहेर्मणिश्च सटा हरेः । गृह्यन्ते जीवतां नैतेऽमोषां सत्या उरस्तथा ॥ १४ ॥ परप्राणैः निजप्राणपोषणं पुण्यशोषणम् । तवाऽपि नोचितं स्वर्गवारणं खम्भकारणम् ॥ १५ ॥ छिद्यमानेऽप्येकपिच्छे यथा ते जायते व्यथा । तथाऽन्येषामपि भवेदिदं चित्ते विभावय ॥ १६ ॥ भाविनी ते क्षणं टप्तिः पललेऽप्यस्य भक्षिते । सर्वप्राणविनाशोऽस्येति चित्ते परिभावय ॥ १७ ॥ पञ्चेन्द्रियाणां जीवानां वधं कृत्वा दुराशयाः । गच्छन्ति नरकं जीवा इदं चित्ते विभावय ॥ १८ ॥ श्रूयते जीवहिंसावान् निषादो नरकं गतः । दयाऽऽदिगुणयुक्ता च वानरी त्रिदिवं गता ॥ १८ ॥ Page #259 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । इहाऽऽसीदमरावत्याः शाखानगरसन्निभा । शाखामृग'शताऽऽकीर्णा हरिकान्ताऽभिधा पुरो ॥ २० ॥ सत्राभूत् पृथिवीपालो हरिपालाभिधः सुधीः । हरीणां पालनत्वेन यदाख्या सत्यतां गता ॥ २१ ॥ तस्यामेव पुरि क्रूरो यमकिङ्करसन्निभः । कृतघ्नो निर्दयश्चाभूद निषादो नाम घातकः ॥ २२ ॥ स पापरितः पापो गत्वा नित्यं वनान्तरे । जघानानेकशो जोवान् वराहहरिणादिकान् ॥ २३ ॥ इतस्तस्मिन् पुरासन्ने वनेऽनेकद्रुमाकुले । भूपप्रसादबलिनो वसन्ति स्म बल्लोमुखाः ॥ २४ ॥ तन्मध्ये वानरी काऽपि कापेयविरता सदा । हरिप्रियाऽभिधानाऽभूद् दयादाक्षिण्यशालिनी ॥ २५ ॥ एकदा च निषादोऽयं नृशंसः शस्त्रपाणिकः । अपश्यत् पुरतो घोरं मृगारिं मृगयापरः ॥ २६ ॥ सप्राणोऽपि ततः प्राणभयभीतो द्रुतं द्रुतम् । वा कापि समासनेऽधिरूढो जगतौरुहे ॥ २७ ॥ समारोहन्नसौ तत्र पादपे समलोकयत् | विवृतास्यां भयात् तस्य पूर्वारूढां हरिप्रियाम् ॥ २८ ॥ यस्य बाणप्रहारेण मातङ्गोऽपि विपद्यते । सोऽस्या अपि तदा भौतो यद् भयो भयमीक्षते ॥ २८ ॥ २५८ (१) ख घ ठ - समाकीर्णा । Page #260 -------------------------------------------------------------------------- ________________ २६० श्रीशान्तिनाथचरित्रे व्याघ्रात् त्रस्तं तमुद्दीक्ष्य वानरी सा मटित्यपि । प्रक्हिायात्मनः क्षोभं प्रसन्नवदनाऽभवत् ॥ ३० ॥ विखस्तोऽभून निषादोऽथ निषस्मश्च तदन्तिके । सा तस्य शिरसः केशान् व्यावणोद् बन्धुवासला ॥ ३१ ॥ तदुत्सङ्गे शिरः कृत्वा सुप्तोऽसौ विटपाश्रितः । वीक्ष्य निद्रायमाणं तं व्याघ्रः प्रोवाच वानरीम् ॥ ३२ ॥ भद्रे ! नोपवतिं वेत्ति सर्वकोऽपि महीतले । मनुष्यस्तु विशेषेणास्मिन्नर्थे श्रूयतां कथा ॥ ३३ ॥ एकस्मिन् सनिवेशेऽभूत् शिवस्वामीति स हिजः । स्वतीर्थवन्दनाहेतोनिरगानिजमन्दिरात् ॥ ३४ ॥ एकस्यां पतितोऽटव्यां तृष्णार्तोऽन्वेषयन् जलम् । पुराणकूपमद्राक्षौद् गूढं तरुलतादिभिः ॥ ३५ ॥ कत्वा दाम टणेस्तेन बड्वा च करपत्रकम् । कूपान्त: क्षेपयामास जला) सोऽजडाशयः ॥ ३६ ॥ रज्ज्वा तत्र विलग्यको निर्ययौ कूपकात् कपिः। सफलोऽयं ममारम्भ इति दध्यौ हिजोऽपि हि ॥ ३७॥ पुनहितीयवेलायां व्याघ्रसौ विनिर्गतौ। ब्राह्मणस्याङ्गियुम्मं ते प्रणेमुः प्राणदायिनः ॥ ३८ ॥ मतिमान् वानरस्तेषु जातिम्मरणपण्डितः । द्विजातिं ज्ञापयामास लिखित्वेत्यक्षरावलिम् ॥ ३८ ॥ वसामो मथुरोपान्ते वयं तत्र त्वयाऽपि हि । समागम्यं ततः किञ्चित् खागतं ते करिष्यते ॥ ४० ॥ Page #261 -------------------------------------------------------------------------- ________________ पञ्चम प्रस्तावः । कूपेऽमुभिन्मनुष्योऽपि पतितोऽस्ति परं त्वया । न झुत्तार्यो यतः सोऽयं कृतघ्नः किं करिष्यति ? ॥ ४१ ॥ इत्युदीर्य ययुस्तेऽथ चिन्तयामास स हिजः । . कथमेष मनुष्योऽपि वराको न हि कष्यते ? ॥ ४२ ॥ सर्वस्याप्युपकारो हि विधातव्यः स्वशक्तितः । मनुष्यजन्मन: सारमेतदेव निगद्यते ॥ ४३ ॥ कूपे क्षिप्वा ततो रज्जु सोऽम्याष्टो हिजन्मना। कोऽसि त्वं कुत्र वास्तव्य इति पृष्टो जगाद च ? ॥ ४४ ॥ अहं हि मथुरावामी स्वर्णकारोऽत्र केनचित् । कारणेनागत: कूपे पतितः तृष्णयाऽदितः ॥ ४५ ॥ कूपान्तरप्ररूढस्य शाखामालम्बा शाखिनः । यावदस्थामहं तावत्ते पेतुर्वानरादयः ॥ ४६ ॥ समानयसनत्वाच्च त्यक्तवैरा: परस्परम् । परोपकाररसिक ! त्वया जौवापिता वरम् ॥ ४७ ॥ मथुरायां समागच्छेरित्युदित्वा ययौ च सः । हिजम क्रमयोगेण तत्र प्राप्तो भुवि भ्रमन् ॥ ४८ ॥ ततोऽसौ वानरो दक्षस्तमुद्दीक्ष्योपलक्ष्य च । दृष्टः सम्मानयामास तत्कालं पेशलैः फलैः ॥ ४८ ॥ व्याघ्रोऽपि तस्य सम्मानं विधातुं वाटिकां गतः । जघान चाविवेकित्वात् तत्र राजसुतं बलात् ॥ ५० ॥ तस्याभरण मादाय बहुमूल्यं सुखेन सः । ब्राह्मणाय ददौ तस्मै जीवितव्यप्रदायिने ॥ ५१ ॥ Page #262 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे कृतप्रणामं दीर्घायुभवेत्याशौगिरा स तम् । तुष्टस्तुष्टाव किं कोऽपि नोपकारेण तुष्यति ? ॥ ५२ ॥ सतश्च ब्राह्मणो नत्वा मथुरायां जनार्दनम् । पृच्छन् पृच्छन् पुरोमध्ये स्वर्णकारगृहं ययौ ॥ ५३ ॥ सलोभो लोलुपो दूरादीषद् दृश्याऽवलोक्य तम् । अधोदृष्टिस्तथैवाऽस्थाद् रचयन् भूषणादिकम् ॥ ५४ ॥ ब्राह्मणः स्माह भोः ! किं नु नाडिन्धम ! न वेसि माम् ? । सम्यग नाहं विजानामौत्युक्त तेनावदत् पुनः ॥ ५५ ॥ येन त्वमटवीमध्ये पुरा कूपात् समुद्धृतः । सोऽस्मि हिजो महाभागागत: प्राघुणिकस्तव ॥ ५६ ॥ ततोऽसावुपविष्टः सन्नीषनमो ननाम तम् । ढोकयित्वाऽऽसनं किं ते करोमोति जगाद च ? ॥ ५७ ॥ भूषणं दर्शयित्वाऽथ विप्रः प्रोवाच मुष्टिकम् । दक्षिणायामिदं लब्ध मया क्वापि कुतोऽपि हि ॥ ५८ ॥ अस्य मूल्यविधौ धौमांस्त्वमेवासि महाशय ! । तगृहीत्वा यथायोग्यं मूख्यं भव्यं प्रयच्छ मे ॥ ५८ ॥ इति तस्यापयित्वा तबद्यां स्नातुं ययौ हिजः । शुश्राव स्वर्णकारश्च पटहोहोषणामिमाम् ॥ ६ ॥ हत्वाऽद्य राजतनयं केनाम्यात्तं विभूषणम् । यस्तं वेत्ति स आख्यातु वध्योऽसौ भूपतेर्यतः ॥ ६१ ॥ इत्याकर्ण्य कलादोऽपि वितर्काऽऽकुलितोऽभवत् । मयैव घटितं होतदिति सम्यग् विवेद च ॥ ६२ ॥ Page #263 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २६३ दध्यौ चासंस्तुतो मेऽयं श्रोत्रियो गोत्रिकश्च न । तत्कथं युज्यते कर्तुमस्यार्थेऽनर्थमात्मन: ? ॥ ६३ ॥ ततश्च पटहं धृत्वा गत्वा दत्त्वा च भूषणम् । राजे तदपहर्तारं ब्राह्मणं तं न्यवेदयत् ॥ ६४ ॥ राज्ञाऽऽज्ञाप्य निजान् पत्तीन् स बवाऽऽनायितस्ततः । पृष्टाः पौराणिकाः किं भोः ! युज्यतेऽत्र ममत्यथ ? ॥६५॥ तेऽवीचन् वेदवेदाङ्गपारगोऽपि द्विजोत्तमः । महाहत्याकरो राज्ञा वध्यो नास्त्यत्र पातकम् ॥ ६६ ॥ रासभारोपितं कृत्वा राजादेशात् पदातयः । रक्तचन्दनलिप्तं च तं निन्युर्वध्यभूमिकाम् ॥ ६७ ॥ नीयमानो महात्माऽसौ चिन्तयामास चेतसि । अहो ! मे दैवदोषण कीदृशी दुर्दशाऽभवत् ? ॥ ६८ ॥ अहो ! दुष्टस्य धृष्टस्य मुष्टिकस्य कृतघ्नता। व्याघ्रवानरयोः पश्य कीदृशी च कृतज्ञता ? ॥ ६८ ॥ स्मृत्वा तदुदितं वाक्यमात्मनशाऽज्ञतां पुनः । पश्चात्तापाऽभितप्ताङ्गः श्लोकयुग्मं पपाठ सः ॥ ७० ॥ व्याघ्रवानरसर्पाणां यन्मया न कृतं वचः । तेनाहं दुर्विनौतेन कलादेन विनाशितः ॥ ७१ ॥ वेश्याऽ'क्षकुक्कुराश्चौरनौरमार्जारमर्कटाः । जातवेदाः कलादश्च न विश्वास्या इमे क्वचित् ॥ ७२ ॥ (१) ख ठ द च -ज्ञाष्ठ कुरा- । ग वेश्या च कुक्कुराचौरा। गूर्जरभाषानिबाश्रोशान्तिनाथरासनाम्नि पुस्तके तु वेश्याचा राजचौराओत्युपलभ्यते । Page #264 -------------------------------------------------------------------------- ________________ २६४ श्रीशान्तिनाथचरित्र इदं पुनः पुनस्तेन पठ्यमानं निशम्य सः । तं च विज्ञाय तत्रस्थो भुजगोऽचिन्तयत्त्विदम् ॥ ७३ । वयं येनोवृताः कूपात् पुराऽरण्ये महात्मना । स एवाद्य महोदेवो व्यसने पतितो हहा ! ॥ ७४ ॥ उक्तञ्चउपकारिणि विश्रधे साधुजने यः समाचरति पापम् । तं जनमसत्यसन्धं भगवति ! वसुधे ! कथं वहसि ? ॥७॥ इयत्यपि गते सोऽहं कृत्वा किञ्चिविधानकम् । यास्याम्यस्योपकारस्थातृणं बुद्धिवशाद 'द्रुतम् ॥ ७ ॥ ततश्च वाटिकां गत्वा क्रीडन्तौं सममालिभिः । लतागुल्मान्तरीभूय सोऽदशद राजनन्दिनीम् ॥ ७७ ॥ . निराधारा लतेवैषा मूर्छिताङ्गयपतद्भुवि । सख्यस्तूर्णं तदाचख्युः पूत्कुर्वत्यो महीपतेः ॥ ७८ ॥ राजा च तत् समाकण्य स्फूर्जथुप्रतिमं वचः । महाशोकाकुल: काममाबाधाविधुरोऽवदत् ॥ ७ ॥ यावबैकस्य दुःखस्य पारमासाद्यते मया । द्वितीयं दौकितं तावच्छिद्रेनों भवन्त्यहो ! ॥ ८० ॥ मान्त्रिकास्तान्त्रिकाश्चैव समाइता महीभुजा। चिकित्सा च समारब्धा तत्रैको मान्त्रिकोऽवदत् ॥ ८१ ॥ (१) ठ धुवम् । (२) द महाशोकासमाबाधाविधुरो नवरोऽवदत् । Page #265 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । ममास्ति निर्मलज्ञानं तेन जानामि भूपते ! । योऽसो व्यापाद्यते विप्रस्तमवैहि निरागसम् ॥ ८२ ॥ अनेन किल कान्तारी पुरा कूपात् समुद्धृताः । . व्यालवानरशार्दूलाः कलादश्च चतुर्थकः ॥ ८३ ॥ सोऽयमत्रागतोऽपूजि वानरेण फलादिभिः । अस्य पूजाकते राजन् ! हतो व्याघ्रण ते सुतः ॥ ८४ ॥ व्याघ्रदत्तं तमादायालङ्कारमृजुधीरयम् । पाखें कृतोपकारस्थ कलादस्य समागतः ॥ ८५ ॥ कलादवचसा देव ! भवता हन्तुमादरात् । समादिष्टोऽथ दृष्टश्च भोगिना तेन सोऽध्वनि ॥ ८६ ॥ ततश्च तहिमोक्षार्थ दष्टा युष्मत्सुताऽमुना। यद्येष मुच्यते विप्रस्तदा जीवत्यसावपि ॥ ८७ ।। अत्रार्थे प्रत्ययः कश्चिदित्युक्ते भूभुजाऽथ सः । तत्रावतारयामास मान्त्रिकस्तं महोरगम् ॥ ८८ ॥ नेनाप्यनुमतं सर्वं यदुक्तं मन्त्रवादिना । संजातप्रत्ययो राजा ततश्चामोचयद् विजम् ॥ ८८ ॥ मुक्तं दृष्ट्वा हिजन्मानमुरगो गौरवाञ्चितम् । प्रत्याजहार गरलमात्मीयं दंशधावनात् ॥ ८० ॥ अथ सा राजतनया कौमुदीवोदयं ययौ। राजलोकस्तदा सर्वो बभूव कुमुदोपमः ॥ ८१ ॥ तस्य हिजन्मनश्चाग्रे कथयामास मान्त्रिकः । यत्ते दत्तं जीवदानं पवगेनामुना खलु ॥ १२ ॥ ३४ Page #266 -------------------------------------------------------------------------- ________________ २६६ श्रीशान्तिनाथचरित्रे विप्रोऽवोचदहो ! रम्यं चरित्रं देहिनामिह । क्रूरा अपि कृतज्ञत्वं दधत्यन्ये कृतघ्नताम् ॥ ८३ ॥ दधात्वसौ भूतधात्री दावेव पुरुषौ सदा । उपकारे मतिर्यस्य यश्च नोपकृतं हरेत् ॥ ८४ ॥ ततश्च विस्मयाद्राज्ञा पृष्टः कथयति स्म सः । A समारभ्य प्रवासादि बन्धनान्तां निजां कथाम् ॥ ८५ ॥ पुनः स्माह महाराज ! सुखदुःखकतौ कृतौ । ध्रुवं कृतान्त एवैकः सर्वेषामिह देहिनाम् ॥ ८६॥ तत्कथाश्रवणाद् गाढं तुष्टेनाथ महीभुजा । शिवस्वामी कृतः स्वामी विषयस्य गरीयसः ॥ ८७ ॥ शिवस्वाम्यपि देशे वे कृतज्ञैकशिरोमणिः । प्रावर्तयन्त्रागपूजाविधाने नागपञ्चमीम् ॥ ८८ ॥ कथयित्वा कथामेतां पुनर्व्याघ्रोऽब्रवीदिदम् । हरिप्रिये ! यथा तेन सरलेन द्विजन्मना ॥ ६६ ॥ कलादाद्दिपदः प्राप्ता निषादोऽयं तथैव हि । विधाता ते महानर्थं तन्मुञ्चैनं ममाशनम् ॥ २०० ॥ (युग्मम्) एवमुक्ताऽपि नामुञ्चत् साधुप्रकृतिवानरो । यावत्तावत् स आसोनो व्याघ्रस्तस्य तरोरधः ॥ १ ॥ इति व्यचिन्तयदड़ो ! तिरश्चामपि चेतसि । मैत्रयादि दृश्यते बुद्धिर्दुर्लभा या तु योगिनाम् ॥ २ ॥ प्रबुद्धस्याथ दुष्टस्य निषादस्य दुरात्मनः । अस्वपद् वानरी साऽपि निवेश्या निजं शिरः || ३ || Page #267 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २६७ व्याघ्रोऽप्यभ्यासमागत्व तं जगाद निषादकम् । मित्रं मामनया कृत्वा निर्भयो भव सर्वतः.॥ ४ ॥ सप्ताहक्षुधितस्यैनां समर्पय न चेदथ। प्रभूतेनापि कालेन स्वगृहं न गमी ततः ॥ ५ ॥ अपरं च न सङ्गोऽस्याः शुभोदर्काय ते ध्रुवम् । नाश्रौषोस्त्वं पुरा किं वा वानरेण हतो नृपः ? ॥ ६ ॥ इत्यर्थे श्रूयतां भद्र ! प्रथयामि कथामहम् । सहर्षः स निषादोऽपि प्राहाऽऽख्याहि शृणोम्यहम् ॥ ७ ॥ पुरे नागपुर भूपः स्वरूपजितमन्मथः । शत्रुवंशवजस्यासीहावाभः पावकाह्वयः ॥ ८ ॥ वाहकेल्यां शूकलेन वाजिना काननेऽन्यदा। बलात्रोतो नृपो दूरमध्वानं प्रविलय सः ॥ ८॥ एकाकिनो वने तस्मिन् भ्रमतो नृपतेस्तदा। क्षुधितस्य वार्तस्य मिलितः कोऽपि वानरः ॥ १० ॥ फलान्यानीय रम्याणि तेन दत्तानि भूभुजे । दर्शितं शुचिपानीयपूर्णं चापि सरोवरम् ॥ ११ ॥ फलान्याखाद्य पीत्वा च वारि हारि धरापतिः । पाससाद परां प्रीतिं मनसस्तावदागतम् ॥ १२ ॥ तत्सैन्यं मन्त्रिसामन्तवाजिवारणबन्धुरम् । नीतोऽसौ वानरो राज्ञा कृतज्ञेन निजं पुरम् ॥ १३ ॥ बुभुजे सोऽथ पक्वान्नं मोदकादि मुहुर्मुहुः । फलानि कदलौचूतप्रमुखानि नृपाज्ञया ॥ १४ ॥ Page #268 -------------------------------------------------------------------------- ________________ २६८ श्रीशान्तिनाथचरित्रे स्मरअपकति तां च तं सदा निजपार्श्वगम् । चकार नृपतिश्चैषा प्रकृति: पौरुषी यतः ॥ १५ ॥ वसन्ते सङ्गतेऽन्येद्यु: कामिनां चित्तशालिनाम् । ऋतौ पुष्यफलाकोणे कानने 'कमिताक्षते ॥ १६ ॥ अन्दोलजलकेल्यादि प्रक्रीय कदलीरहे। सुष्वाप श्रमनाशाय प्लवगे त्वङ्गरक्षके ॥ १७ ॥ (युम्मम् ) कुधिया कपिना तेन स्वामिभक्तत्वमानिना। ममरव्याजतो राज्ञः कृत्ता खड्नेन कन्धरा ॥ १८ ॥ यथा तेन क्षितौशन हितादपि हि वानरात् । प्राप्तं तु मरणं तस्मात्तदियं श्रेयसे न ते ॥ १८ ॥ इत्याकर्ण्य कथा तेन व्याधनाश हरिप्रिया । पातिताऽस्य मृगारातेः पुरः प्रोवाच तामसी ॥ २०॥ .. न धार्य हृदये दुःखं भने ! प्राप्ता त्वया ननु । तादृशी फलसम्प्राप्तिर्यादृश: सेवितो नरः ॥ २१ ॥ प्रत्युत्पन्नमतिः साऽथ व्याघ्र स्माह स्वसंज्ञया । रक्षणीया त्वया नाहं भक्षणीयैव केवलम् ॥ २२ ॥ हितं ते वच्म्यदो वाक्यं वानराणां मृगाधिप ! । प्राणा वसन्ति लाङ्गले ग्राद्यास्तत्रैव तत्त्वया ॥ २३ ॥ तथैव कृतवान् व्याघ्रः सहसा साऽपि वानरौ । वृक्षे त्वरितमारूढा पुच्छं मुक्त्वा मुखेऽस्य तत् ॥ २४ ॥ (१) द कामिवाञ्छिते। Page #269 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २६८ विलक्षवदनो व्याघ्रो व्याघुट्याऽगाददृश्यताम् । उत्ततार ततो वृक्षात् सनिषादा च वानरी ॥ २५ ॥ अग्रे भूत्वा तया निन्ये स स्वावासे लताश्रये । तस्याः शिशवस्तवासंस्तेषां पार्वे निवेश्य तम् ॥ २६ ॥ विधातुं स्वागतं तस्य सा त्वनालस्यशालिनी। वनमध्ये ययौ स्वादुफलानयनहेतवे ॥ २७ ॥ (युग्मम् ) जिघत्सुना निषादेन तदपत्यानि तान्यपि । खादितानि कुतः कृत्याक्त्यवेदो दुरात्मनाम् ? ॥ २८ ॥ फलान्यादाय स्वादूनि वानरी यावदाययो। ' तावत्मप्तं निषादं तमपश्यन्त्र च तान् शिशून् ॥ २८ ॥ तथाऽप्युत्थाप्य यत्नेन दत्त्वा चास्मै फलानि सा। अपत्यान्वेषणं कर्तुं साधं तेन प्रचक्रमे ॥ ३० ॥ पातिताऽपि पुरा वृक्षादपत्येष्वशितष्वपि । प्रतिपन्नसगर्भेऽस्मिन् नाशशङ्गे तथाऽप्यसौ ॥ ३१ ॥ दध्यौ चित्ते निषादोऽपि विषादाकुलितो भृशम् । अहो ! मेऽद्य समस्तोऽपि व्यापारोऽभूनिरर्थकः ॥ ३२ ॥ रिक्त एव कथं गेहे यास्यामीति विचिन्त्य सः ? । 'यध्या चाहत्य हतवान् होनस्तामेव वानरीम् ॥ ३३ ॥ तां च कावाक्कतौ क्षिा नौद्यमानां निरीक्ष्य सः । आविर्भयाऽवदद व्याघ्रः किमिदं रे तं त्वया ? ॥ ३४ ॥ (१) कर व्यापाद्य वानरी स्कन्धे निधाय प्रचचाल सः॥ यावत्ययात्यसौ गेहं प्रति तावद्ददर्श च । Page #270 -------------------------------------------------------------------------- ________________ २७० श्रीशान्तिनाथचरित्रे यया त्वं पुत्रवत् पाप ! पालितो लालितश्चिरम् । तस्याः प्रकुर्वतो घातं किं न ते 'शटितौ करौ ? ॥ ३५ ॥ र पापिष्ठ ! निकृष्टाज्ञ ! कृतघ्न्नाभव्य ! दुर्मते !! प्रयाहि मेऽप्यवध्योऽसि त्वन्मुखं वोच्यते कथम् ? ॥ ३६ ॥ निषादश्चागतो गेहे ज्ञात्वा तहृत्तमादितः । राज्ञा चाज्ञापितो वध्यो बङ्घाऽसौ बन्धनैर्दृढम् ॥ ३७ ॥ राजादिष्टैर्नरैर्यावत् स नीतो वध्यभूमिकाम् । तावदु व्याघ्रोऽवदद्युक्तमहो ! नैतस्य मारणम् ॥ ३८ ॥ अथ तैर्विस्मयापनैः कथितं तन्महीभुजे । स्वयं राजाऽपि तत्त्रागात् कौतुकोत्तानमानसः ॥ ३८ ॥ तथैव व्याजहाराऽसौ मृगराजो महोपते ! । पापिनोऽस्य वधान्मा भूस्त्वमप्यंशहरोंऽहसः ॥ ४० ॥ स्वयमेव पतन्त्येव विपत्तौ पापजन्तवः । निमज्जति यथा तूर्णं सम्पूर्णः कलसोऽम्भसि ॥ ४१ ॥ राजा प्रोवाच हे व्याघ्र ! तिरश्वोऽपि कथं नु ते । प्रकृष्टा मानवी भाषा, विवेकित्वं तथेदृशम् ? ॥ ४२ ॥ व्याोsयेवमभाषिष्ट विशिष्टज्ञानसंयुतः । उद्याने सूरिनास्ति स सर्व कथयिष्यति ॥ ४३ ॥ इत्युदित्वा ययौ सोऽथ तं निषादं महीपतिः । पुर्खा निष्कासयामास सुरेन्द्र इव सङ्गमम् ॥ ४४ ॥ 1 (१) द लोटितौ । Page #271 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः। २७१ ततश्च वनखण्डान्तर्मूत धर्ममिवाग्रतः । ददर्शायं परिवृतं सूरिं भूरितपोधनैः ॥ ४५ ॥ नमस्कृत्य गुरोः पादावनुज्येष्ठं मुनीनपि । उपविश्य च गुर्वन्ते पप्रच्छेवं कृताञ्जलिः ॥ ४६ ॥ प्रभो ! सर्व विजानासि निर्मलज्ञानचक्षुषा। तेन पृच्छामि सा मृत्वा कां गतिं वानरी ययौ ? ॥ ४७ ॥ गुरुः प्रोवाच भूपाल ! मरालधवलाशया। धर्मध्यानपरा धन्या सुरलोकमियाय सा ॥ ४८ ॥ यतः तपःसंयमदानोपकारेषु निरत: सदा । गुरुवाक्यरुचिर्जीवो दयावांश्च दिवं गमी ॥ ४८ ॥ अपृच्छद्भूपतिर्भूयो भूयः पापपरायणः । जात्या च क्रियया चापि निषादाख्यः क्व यास्यति ? ॥५०॥ सूरिश्च कथयामास सर्वस्यापि स्फुटं यदः । यद्यस्य पापिन: स्थानं किमन्यवरकं विना ॥ ५१ ॥ जीवहिंसामृषावादस्तेनान्यस्त्रीनिषेवणैः । परिग्रहकषायैश्च विषयविषयोक्कतः ॥ ५२ ॥ कृतघ्नो निर्दयः पापी परद्रोहविधायकः । रौद्रध्यानपर: क्रूरो नरो नरकभाग् भवेत् ॥५३॥ (युग्मम्) प्रस्तावादपरगतिद्वयलक्षणमपि शृणु । पिशुनो गोमतिश्चैव मित्रे शाठ्यरत: सदा ॥ ५४ ॥ (१) ठ पिशुनो दुर्विनोत छ । Page #272 -------------------------------------------------------------------------- ________________ २७२ श्रीशान्तिनाथ चरित्रे आर्तध्यानेन जीवोऽयं तिर्यग्गतिमवाप्नुयात् । मार्डवार्जवसम्पत्रो गतदोष कषायकः । न्यायवान् गुणग्टहाश्च मनुष्यगतिभाग् भवेत् ॥ ५५ ॥ पृच्छति स्म पुनर्भूपः कथं व्याघ्रो मनुष्यवाक् 1 निषाद सूदनाद येन वारितोऽहं प्रभो ! बलात् ॥ ५६ ॥ जगाद पुनराचार्यो भूपते ! शृणु कारणम् । सौधर्मे देवलोकेऽस्ति शक्रसामानिकः सुरः ॥ ५७ ॥ तस्य प्राणप्रिया देवी चत्वा कापि मनुष्यभूत् । रक्षपालाः सुरास्तस्या अपृच्छंस्तप्रियं सुरम् ॥ ५८ ॥ स्वामिन्नस्मिन् विमाने का भविता देवता न वा ? | तेन सा वानरी तेषां भाविनी देवतोदिता ॥ ५८ ॥ व्याघ्ररूपधरो भूत्वा तत्परीचार्थमागतः । एको देवस्ततो राजंस्तस्य वाग् मानुषी वरा ॥ ६०॥ हरिप्रियानिषादाभ्यां सह तेन विनिर्ममे । विवादो बहुधा मायाशृगालानुचरेण च ॥ ६१ 1 प्रतिबुद्धस्ततो राजा राज्यं न्यस्य सुते निजे । तेषामेव मुनीन्द्राणां पार्श्वे जातो महाव्रती ॥ ६२ ॥ हरिपालाख्यराजर्षिः पालयित्वा व्रतं चिरम् । सुरलक्ष्मीमवापोच्चैस्तस्मिब्रेव सुरालये ॥ ६३ ॥ इति निषादवानरी कथा | यथाऽसौ नरकं प्राप्तो निषादो जीवहिंसया । तथाऽन्योऽपि भवेत्तस्मात्त्याज्येयं सर्वथा त्वया ॥ ६४ ॥ Page #273 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः। २७३ श्रुत्वा मेघरथस्योक्तिं श्येनोऽवोचमहीपते ! । धर्माधर्मविचारं त्वं करोथेवं सुखौ यतः ॥ ६५ ॥ पारापतोऽयं मद्भीतः शरणं त्वां समाश्रितः । .. बुभुक्षाराक्षसीग्रस्तः शरणं कं श्रयाम्यहम् ? ॥ ६६ ॥ राजन् ! सत्पुरुषोऽसि त्वं दुःखं कस्यापि नेच्छसि । रक्ष रक्ष कपाशूर ! तदेनमिव मामपि ॥ ६७ ॥ क्लत्याकत्वं स्वयं वेत्मि किन्वेकं कथयामि ते । मादृशे क्षुधिते क्षुद्रे कोशी धर्मवासना ? ॥ ६८ ॥ विवेको क्रौ दया 'धर्मो विद्या स्नेहश्च सौम्यता । सत्त्वं च जायते नैव क्षुधातस्य शरीरिणः ॥ ६८ ॥ प्रतिपनमपि प्रायो लुप्यते क्षुत्रिपौडितैः । इत्यर्थे नीतिशास्त्रोक्तो दृष्टान्तः श्रूयतां प्रभो ! ॥ ७० ॥ करीरवनसंकीर्णे निर्जले मरुमण्ड ले । अवामौत् कूपके कापि विजिह्वः प्रियदर्शनः ॥ ७१ ॥ नीरासनबिलस्यान्तः सुखेन निवसनसौ। विदधे सर्वदाऽऽहार भकादिजलजन्तुभिः ॥ ७२ ॥ सुखप्राप्तिकते तेषामेकेन हरिणा सह । गङ्गदत्ताभिधानेन स मैत्रीत्वं प्रपनवान् ॥ ७३ ॥ कूपान्तरक्ततावासा चित्रलेखा च सारिका । बभूव मधुरालापा तस्य सर्पस्य वल्लभा ॥ ७४ ॥ (१) सत्यं । Page #274 -------------------------------------------------------------------------- ________________ २७४ श्रीशान्तिनाथचरित्रे एवं गच्छति कालेऽस्याऽन्यदा हादशवार्षिकी। अनावृष्टिरभूत्तेन कूप तत्राम्बु निष्ठितम् ॥ ७५ ॥ तस्मिंश्च निष्ठिते सर्वे जलजीवाः क्षयं गताः। तदाऽऽहारस्य तस्याहेवृत्तिच्छेदोऽभवत्ततः ॥ ७६ ॥ गङ्गदत्तस्तु शालूरः पश्शेषकताशनः । जीवनन्येद्यरित्यूचे सर्पणायं रह:स्थितः ॥ ७७ ॥ भद्राहं क्षुधितोऽत्यन्तं त्वज्जातिकतभक्षणः । सा त्वनावृष्टिदोषेण विगता किं करोम्यहम् ? ॥ ७८ ॥ सोऽथ दध्यावयं क्रूरो निहन्तुं मां समीहते। रक्षामि स्वं ततोऽमुभात् कृत्वोपायं हि कञ्चन ॥ ७ ॥ इति ध्यात्वाऽवदत् स्वामिन् ! गत्वा सिन्धुहूदादिषु । निजजातिं विलोभ्याहमानेष्यामि कृते तव ॥ ८ ॥ धृत्वा चपटे चित्रलेखा नेष्यति तत्र माम् । ततस्ते प्रचुरा नित्यं प्राणयात्रा भविष्यति ॥ ८१ ॥ अथानेन समादिष्टा तदर्थं पक्षिणी सका। चञ्चा कृत्वा मुमोचैनं नीत्वा क्वापि महादे ॥ २ ॥ नीरमध्यप्रविष्टोऽसौ संजातः सुखभाजनम् । . . तदाशयमजानत्या भणितचित्रलेखया ॥ ३ ॥ एह्येहि भद्र ! शीघ्रं त्वं विधाय स्वसमीहितम् । कष्टेन वर्तते खामी सोऽथ तामित्यभाषत ॥ ८४ ॥ प्राख्याहि भद्रे ! प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूपम्। Page #275 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । बुभुचितः किं न करोति पापं ? क्षीणा नरा निष्करुणा भवन्ति ॥ ८५ ॥ इत्यात्मचिन्तितं तस्या आख्याय पुनरब्रवीत् । त्वयाऽपि तस्य विश्वासो न कर्तव्यः कथञ्चन ॥ ८६ ॥ एवं राजन् ! क्षुधार्तः सन् कृत्याक्कृत्यं न वेद्माहम् । तदाशु प्रीण्य त्वं मां यावत् प्राणा न यान्त्यमी ॥ ८७ ॥ एवं श्येनेन भणिते प्रोवाच जगतीपतिः । यच्छामि ते वराहारं भद्र! त्वं क्षुधितो यदि ॥ ८८ ॥ पक्ष्यूचे नान्य आहारोऽस्माकमिष्टो विनाऽऽमिषम् । तदप्यानीय शूनाया दास्यामीति नृपोऽवदत् ॥ ८८ ॥ पश्यतो मेऽङ्गिनो मांसं छित्त्वा चेहोयते ततः । तिर्भवेदिति पुनर्वदति स्म स नोडजः ॥ ८० ॥ राजोचे यत्प्रमाणोऽयं भवेत् पक्षौ तुलाष्टतः । तावन्मात्रं निजं मांसं यच्छामि किमु ते वद ? ॥ ८१ ॥ ২৩५ एवमस्त्विति तेनोक्ते तुलामानाययन्नृपः । न्यवेशयच्च तत्रैकपार्श्वे पारापतं द्विजम् ॥ ८२ ॥ उत्कृत्योत्कृत्य देहं स्वं तीक्ष्णतुरिकयाऽक्षिपत् । द्वितीयपार्श्वे मांसं च करुणारससागरः ॥ ८३ ॥ छित्त्वा निजकमांसानि स चिक्षेप यथा यथा । पारापतोऽधिकतरमवर्धिष्ट तथा तथा ॥ ८४॥ गुरुभारममुं ज्ञात्वा खगं साहसिकाग्रणीः । तुलायामारुरोहाऽस्यां स्वयमेव महीपतिः ॥ ८५ ॥ Page #276 -------------------------------------------------------------------------- ________________ २७६ श्रीशान्तिनाथचरित्रे तुलारूढं नृपं दृष्ट्वा सकलोऽपि परिग्रहः । हाहाकारं प्रकुर्वाणः सविषादमदोऽवदत् ॥ ६ ॥ हा ! नाथ ! जीवितत्यागसाहसं किं करोष्यदः ? | एकस्य पक्षिणोऽस्यार्थे किमस्मांश्चावमन्यसे ? ॥ ८७ ॥ दमौत्पातिकं किञ्चित् प्रभो ! सम्भाव्यते यतः । भवेन्नैतादृशो भारः क्षुद्रकायस्य पक्षिणः ॥ ८८ ॥ परोपकारकरणरसिकः सरलाशयः । थोपयोगं भूपोऽसौ न ददौ ज्ञानवानपि ॥ ८८ ॥ इदं च चिन्तयामास धन्यास्ते धरिणीतले । निर्वाहयन्ति ये श्रेयः कार्यमङ्गीकृतं खलु ॥ ३०० ॥ सर्वोऽपि स्वार्थलुब्धोऽयं चलस्नेहः परिग्रहः । कृतघ्नमशुचेर्गेहं देहं चापि विनश्वरम् ॥ १ ॥ अपेक्षयाऽनयोः सोऽहं स्वार्थभ्रंशं करोमि किम् ? । स्वसन्धां पूरयिष्यामि यद्दा तद्दा भवत्वहो ! २ अत्नान्तरे चलत्स्वर्णकुण्डलालङ्गतश्रुतिः । किरोटहारकटकधारी कश्चित् सुरो वरः || ३ आविर्भूय जगादेवं धन्योऽसि त्वं महोपते ! । तव धीर ! दयावीर ! सफले जन्मजीविते ॥ ४ ॥ येनाद्य त्वगुणग्रामं शशाङ्क करनिर्मलम् । ईशानेन्द्रः सभामध्ये प्रशशंस सविस्मयः ॥ ५ ॥ अश्रद्दधानस्तमहं त्वत्परीक्षार्थमागतः । अधिष्ठित मया होतो पूर्वमत्सरिणौ खगौ ॥ ६ ॥ Page #277 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २७७ २७७ प्रथापुच्छवृपो वैरं कथं देवानयोरभूत् ? । इत्याख्याहि यतोऽस्माकं वर्तते कौतुकं महत् ॥ ७ ॥ पाख्यच्च विदशोऽत्रैव नगरे समभूत्पुरा। वणिक् सागरदत्तो विजयसेना च तप्रिया ॥ ८ ॥ युगलेन समुत्पत्री वाणिज्यकलयाऽन्वितौ। धननन्दननामानावभूतां नन्दनौ तयोः ॥ ८ ॥ पितरं समनुज्ञाप्य सार्थेन सममन्यदा। जग्मतुस्ती वणिज्यार्थं पुरं नागपुराभिधम् ॥ १० ॥ व्यवहारं प्रकुर्वद्भां ताभ्यामकमुपार्जितम् । बहुमूल्यं तत्र रत्नं कथञ्चिदैवयोगतः ॥ ११ ॥ ततस्तौ तस्य लोभनान्योन्यघाताभिलाषिणी । मज्जन्तावन्यदा नद्यां विवादमिति चक्रतुः ॥ १२ ॥ एकोऽवोचन्मयैवेदं चारु रत्नमुपार्जितम् । द्वितीयः माह मयका त्वं लोभं कुरुषे वृथा ॥ १३ ॥ इत्यन्योन्यं रुषाक्रान्तौ तौ युद्धाऽरुणलोचनौ। पतितौ निम्नगानौर चार्तध्यानेन संस्थितौ ॥ १४ ॥ संजातौ पक्षिणावेतौ वनमध्ये ततोऽधुना। मिलितौ कलहायन्ती मया भोः ! समधिष्ठितौ ॥ १५ ॥ इत्युक्त्वा निर्जरः सोऽथ जगाम त्रिदशालयम् । पप्रच्छुविस्मयापनाः सभ्या मेघरथं नृपम् ॥ १६ ॥ नृनाथ ! विदशः कोऽयं येन यूयं निरागसः । विधाय बहुधा मायां पातिताः प्राणसंशये ? ॥ १७ ॥ Page #278 -------------------------------------------------------------------------- ________________ २७८ श्रीमान्तिनाथचरित्रे ततो मेघरथो राजा जगाद यदि कौतुकम् । भवतामस्ति तत्सावधानाः शृणुत मद्दचः ॥ १८ ॥ इतो भवादतिक्रान्ते पञ्चमेऽहं भवेऽभवम् । अग्रजोऽनन्तवीर्यस्य बलदेवोऽपराजितः ॥ १८ ॥ तदाऽऽवयोरभूच्छत्रुदंमितारिर्महाभुजः । अपहृत्य सुतां तस्य स आवाभ्यां निपातितः ॥ २० ॥ भ्रान्त्वा संसारकान्तारमिहैव भरतार्धके 1 अष्टापदगिरेर्मूले सोऽभवत्तापसात्मजः ॥ २१ ॥ कृत्वा बालतपो मृत्वा सुरूपाख्योऽमृताशनः । ईशानकल्पे जातोऽयं तदेन्द्रः प्रशशंस माम् ॥ २२ ॥ अश्रद्दधत्प्रशंसां तामिहायातस्ततः परम् । यज्जातं भवतां तद्दि प्रत्यक्षं सर्वमेव भोः ! ॥ २३ ॥ स्ववृत्तं देववृत्तं च तावाकर्यं विहायसौ । संजातजातिस्मरणौ स्ववाचैवं जजल्पतुः ॥ २४ ॥ इदं वचरितं स्वामिन् ! श्रुत्वा संवेग आवयोः । संजातोऽतिगुरुश्चित्ते यत् कर्तव्यं तदादिश ॥ २५ ॥ राज्ञोक्तं भोः ! सुदृष्टित्वं प्रतिपद्य महाशयौ ! | भावसारं विदधोथोऽनशनं पापनाशनम् ॥ २६ ॥ ततस्तौ विहितप्रायौ स्मृतपञ्च नमस्कृती | मृत्वा धन्धौ समुत्पन्नौ देवौ भुवनवासिषु ॥ २७ ॥ पौषधं पारयित्वा तं विधिना कृत्वा च पारणम् । भोगानभुङ्क्त भूयोऽपि राजा मेघरथः सुधीः ॥ २८ ॥ Page #279 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । परोषहोपसर्गेभ्योऽभीतः संवेगवासितः । सोऽन्यदाऽष्टमभक्तेन तस्थौ प्रतिमया स्थिरः ॥ २८ ॥ अष्टाविंशतिलक्षाणां विमानानामधीशिना । अत्रान्तरे भक्तिवशादीशानेन्द्रेण जल्पितम् ॥ ३० ॥ माहात्मा निर्जिताऽशे षत्रैलोक्य ! गतकल्मष ! । भविष्यदर्हते तुभ्यं महासत्त्व ! नमो नमः ॥ ३१ ॥ तमाकर्ण्य समीपस्थाः पृच्छन्ति स्मेति तत्रियाः । स्वामिन् ! कस्य नमस्कारो युष्माभिर्विहितोऽधुना ? ॥ २२ ॥ सोऽवदत् शृणु त्रैलोक्यसुन्दरि ! क्षितिमण्डले । नगी पुण्डरीकियां राजा मेघरथाभिधः ॥ ३३ ॥ कृताष्टमतपःकर्मा स्थिरप्रतिमया स्थितः । वर्तमानः शुभध्याने मया भक्त्या नमस्कृतः ॥ ३४ ॥ ( युग्मम् ) एवंविधशुभध्यानाद धमें तल्लीनमानसम् । शक्ताञ्चालयितुं नैनं सेन्द्रा अपि दिवौकसः ॥ ३५ ॥ इत्याकर्ण्य सुरूपातिरूपे तद्दल्लभे उभे । २७८ क्षोभनार्थं नृपस्यास्य समीपे समुपेयतुः ॥ ३.६ ॥ उत्कृष्टरूपलावण्य कान्तियुक्त सविभ्रमे । सुशृङ्गारे पुरो भूत्वा तस्यैवं ते जजल्पतुः ॥ ३७ ॥ आवां देवाङ्गने स्वामिंस्त्वयि स्नेहविमोहिते । हायाते ततो वाच्छां पूरय त्वं प्रियावयोः ॥ ३८ ॥ विमुच्च त्रिदशाधीशं स्वाधीनं निजकं पतिम् । श्रवामिहागते लुब्धे त्वद्रूपगुणयौवनैः ॥ ३८ ॥ Page #280 -------------------------------------------------------------------------- ________________ श्रौशान्तिनाथचरित्र इत्यादिरागजननपेशलैर्वचनैस्तयोः । हावभावैश्च विविधैर्न लुब्धं तस्य मानसम् ॥ ४० ॥ अनुकूलोपसगांस्ते विधाय सकलां निशाम् । प्रशान्तविक्रिये प्रातरेवं संस्तुवत: स्म तम् ॥ ४१ ॥ सरागं हृदयं चक्ररागणापि त्वयाऽऽवयोः । अहो ! चित्रं न रतोऽसि प्रक्षिप्तोऽप्यत्र सुन्दर ! ॥ ४२ ॥ विलीयते नरो लोहमयोऽप्यस्मदिचेष्टया । न स्तोकमपि ते धौर ! चचाल हृदयं तया ॥ ४३ ॥ क्षमयित्वाऽपराधं खं नमस्कृत्याथ तं नृपम् | कुर्वत्यौ तद्गुणश्लाघा जग्मतुस्ते निजाश्रयम् ॥ ४४ ॥ प्रतिमां पारयामास पौषधं च यथाविधि । राजा मेघरथः प्रातर्विदधे पारणं ततः ॥ ४५ ॥ अन्यदाऽऽस्थानमासौन: ससामन्तः स भूपतिः । उद्यानपालकेनैवं भणितो भक्तिपूर्वकम् ॥ ४६ ॥ स्वामिन् ! संवयंसे दिध्या यदद्य नगरे तव । जनकः समवासार्षीज्जिनो घनरथः प्रभुः ॥ ४७ ॥ . सतो दानं हिरण्यादि दत्त्वाऽस्मै पारितोषिकम् । कुमारसंयुतो राजा ययौ नन्तुं जिनेखरम् ॥ ४८ ॥ वन्दित्वा भगवन्तं तं शेषानपि तपोधनान् । निषसाद यथास्थानं भक्तिभावितमानसः ॥ ४ ॥ अत्रान्तर जिनः सर्वभाषानुगगिरा वराम् । जन्तूनां प्रतिबोधार्थं विदधे धर्मदेशनाम् ॥ ५० ॥ Page #281 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २८१ भो भव्याः ! इह कर्तव्यो जिनार्चननमस्कृतौ । अपूर्वपाठ श्रवणे चाऽप्रमादो निरन्तरम् ॥ ५१ ॥ पुण्यात्मा यो भवेज्जीवोऽप्रमत्तो धर्मकर्मणि।। तस्याऽऽपदपि सौख्याय शूरस्येव प्रजायते ॥ ५२ ॥ प्रस्तावेऽत्र गणधरो जिनं नत्वा व्यजिज्ञपत् । प्रभो ! कः शूरनामाऽसौ योऽप्रमत्तो वर्षऽभवत् ? ॥ ५३ ॥ अथावादीजिनो भद्र ! यदि ते श्रुतिकौतुकम् । तदस्याख्यानकं सम्यग् कथ्यमानं मया शृणु ॥ ५४ ॥ अस्त्यस्य जम्बूद्वीपस्य मध्यखण्डे हि भारते। क्षितिप्रतिष्ठितं नाम पुरं पुरगुणाञ्चितम् ॥ ५५ ॥ तं पुरं पालयामास शेषसामन्तवन्दितः । लोकावनैकरसिको वीरसेनाभिधो नृपः ॥ ५६ ॥ तस्यासीहारिणी देवी देवीव धरणीगता । ददर्श साऽन्यदा स्वप्ने पुरो यान्तं सुरेखरम् ॥ ५७ ॥ पत्युः शशंस सा स्वप्नं सोऽवादीनविता सुतः । चलेन्द्रदर्शनात्सोऽपि भावी किञ्चिञ्चलाचलः ॥ ५८ ॥ जज्ञे च समये पुत्रोऽभिधानदिवसेऽस्य च । देवराज इति नाम चक्रे स्वप्नानुसारतः ॥ ५८ ॥ तस्मिन् प्रवर्धमानेऽपि स्वप्ने राज्ञान्यदक्षत । शङ्खोज्वलं पुष्टदेहं निजोत्सङ्गगतं सुषम् ॥ ६ ॥ तस्मिंश्च कथिते राज्ञा भणितं देवि ! ते सुतः । भविष्यति महाबाह राज्यभारधुरन्धरः ॥ ६१ ॥ Page #282 -------------------------------------------------------------------------- ________________ २५२ श्रीशान्तिनाथचरित्रे जातस्य समये तस्याप्यकारि जगतीभुजा। वसराज इति स्वप्नानुसारेणाभिधा वरा ॥ ६२ ॥ क्रमेण वर्धमानोऽसावष्टवर्षोऽखिलाः कलाः । अधोते स्म महाप्राज्ञः कलाचार्यस्य सविधौ ॥ ६३ ॥ अन्यदा ज्वरदाघादिरोगग्रस्तशरीरकः । पायुष्ययन्तकालत्वाबभूव पृथिवीपतिः ॥ ६४ ॥ दृष्ट्वा रोगादितं भूपं दुःखितोऽभूत् परिग्रहः । लोकाः सम्भूय सर्वेऽपि मन्त्रयाञ्चक्रिरे मिथः ॥ ६५ ॥ अयं हि वयसा ज्येष्ठो देवराजोऽस्ति यद्यपि । तथाऽपि हि गुणज्येष्ठो वत्सराजोऽस्त्वसौ नृपः ॥ ६६ ॥ जनवादममुं श्रुत्वा सहालोच्यैकमन्त्रिला । खोचके देवराजेन सैन्यं वाजिगजादिकम् ॥ ६७ ॥ तं नियुक्तकृतं श्रुत्वाऽऽरवं किमिति भूपतिः ? । पप्रच्छ कथयामास सर्व परिजनोऽस्य तत् ॥ ६८॥ ततश्च स जगादेवं व्याध्याधिभ्यां निपौडितः । अहो ! अयुक्तं विदधे कार्यमेतदि मन्त्रिणा ॥ ६८ ॥ वत्सराजकुमारोऽयं योग्यो राज्यस्य नापरः । परमेतदवस्थोऽहमशक्तः किं करोमि भोः ! १ ॥ ७० ॥ इत्युक्त्वा संस्थितः सोऽथ देवराजीऽभवनृपः । विना जनानुरागेगा राज्यं पालयति स्म सः ॥ ७१ ॥ चकार वत्सराजोऽपि प्रणिपातादिसत्क्रियाम् । पिवद्देवराजस्य स्वभावविनयान्वितः ॥ ७२ ॥ Page #283 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । अनुरागपरं तस्मिन् विज्ञाय सकलं जनम् । दध्यौ मन्त्री वर्धमानो राज्यमेष हरिष्यति ॥ ७३ ॥ तदस्मिन्नहिते स्वस्य नोपेक्षा युज्यते खलु | कोमलोऽपि रिपुछेद्यो व्याधिवद् बुद्धिशालिना ॥ ७४ ॥ विचिन्त्येदमसौ मन्त्री ज्ञापयामास भूपतिम् । सोऽवदन्ननु भो मन्त्रिन् ! किमत्र क्रियतामिति ? ॥ ७५ ॥ मन्त्र्ाचे वत्सराजोऽयं तिष्ठन्नत्र न ते हितः । पुरात्रिर्वास्यतां देव ! तत्कनिष्ठोऽप्यनिष्टकृत् ॥ ७६ ॥ ततश्च देवराजेन भूभुजा भणितोऽनुजः । २८३ गन्तव्यं त्वयकाऽन्यत्र मुक्ता मे विषयं पुनः ॥ ७७ ॥ भ्रातुराज्ञां गृहीत्वा तां जनन्याः स न्यवेदयत् । तच्छ्रुत्वा दुःखिता साऽपि बभूवाश्रुमुखी क्षणात् ॥ ७८ ॥ ज्ञात्वा तां दुःखितां वत्सराजोऽवादोत्किमम्बिके ! ? | एवं खेदं करोषि त्वं देह्यादेशं व्रजाम्यहम् ॥ ७८ ॥ देवी प्रोवाच हे 'वत्स ! यद्येवं त्वयका सह । आगमिष्याम्यहमपि भगिन्या सहिता ध्रुवम् ॥ ८० ॥ वत्सराजोऽब्रवीन्मातः ! स्थेयमत्रैव हि त्वया । यदन्यदेशो विषमो देवराजोऽपि ते सुतः ॥ ८१ ॥ जनन्यूचे त्वयैवाहं सममेष्यामि वत्सक ! | नार्थो मे देवराजेन यस्तवाप्यपकारक्कृत् ॥ ८२ ॥ (१) ठ पुत्र ! | Page #284 -------------------------------------------------------------------------- ________________ २८४ श्रीशान्तिनाथचरित्रे ततश्च देवराजेन राज्ञोहालितवाहना । चचाल धारिणी पादचारिणी सह सूनुना ॥ ८३ ॥ स हन्तव्यो मयाऽवश्यं योऽनेन सह यास्यति । इत्युक्वा वारितः सर्वः परिवारस्तु भूभुजा ॥ ८४ ॥ ततश्वोच्छलितो लोकहाकारः सकले पुरे । स कोऽपि नाभवत्तत्र येन नो रुदितं तदा ॥ ८५ ॥ जजल्प च जनोऽद्यैतदनाथमभवत्पुरम् । सम्प्राप्तोऽद्यैव पञ्चत्वं वीरसेनो नरेश्वरः ॥ ८६ ॥ परित्यक्ता वयमहो ! यदनेन महात्मना । इति लोकवचः शृण्वन् पुराइलो विनिर्ययौ ॥ ८७ ॥ ततः शनैः शनैर्मात्रा मातृष्वस्रा च संयुतः । सोऽवन्ति देशमध्यस्थामियायोज्जयिनीं पुरोम् ॥ ८८ ॥ जितशचुनृपस्तस्यां यथार्थाख्यः पराक्रमी । बभूव कमलश्रीश्च तस्याग्रमहिषो वरा ॥ ८८ ॥ बहिष्णुर्यास्तरुच्छायां विश्रान्ता साऽथ धारिणी । चिन्तयामास हा दैव ! किमरे । विहितं त्वया ? ॥ ८० ॥ भूत्वाऽपि वीरसेनस्य भूपतेः प्राणवल्लभा । हन्तेदृश्यां दुर्दशायां ससुता पतिता कथम् ? ॥ ८१ ॥ अथ तां समनुज्ञाप्य तत्खसा विमलाभिधा । प्रविवेश पुरीमध्ये वासस्थानविधित्सया ॥ ८२ ॥ सा वस्तहरिणीनेत्रा वीक्षमाणा पुरोजनम् । श्रेष्ठिनं सोमदत्ताख्यं ददर्शेकत्र मन्दिरे ॥ ८३ ॥ Page #285 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २८५ शान्तमूर्तिममुं दृष्ट्वा सीचे तात ! विदेशगा। अहं मद्भगिनी तस्याः सुतश्चैहागतास्त्रयः ॥ ८४ ॥ निवासस्थानकं किञ्चिच्चेत्त्वं दर्शयसे तदा। सन्तिष्ठामो वयं तत्र सुखेन तव निश्रया ॥ १५ ॥ सोऽथापवरिकामका दर्शयित्वा जगाद ताम्। स्थेयमत्र परं त्वं मे भाटकं किं प्रदास्यसि ? ॥ ८६ ॥ विमलोवाच मे भद्र ! भाटकं नास्ति किञ्चन। 'किन्वावां त्वरहे कर्म करिथावोऽखिलं सदा ॥ ७ ॥ भोजनं च त्वया देयमस्माकं श्रेष्ठिपुङ्गव !। ईखराणां टण नापि कार्यं स्यात् किन देहिनाम् ? ॥८॥ एवमस्त्विति तेनोक्ते धारिणी 'ससुता च सा । तस्थौ तत्र रहे तस्य चक्रतुः कर्म ते उभे ॥ ८ ॥ धारिणौविमले कर्मकयौँ ते वणिजो गृहे। अभूतामुदरस्थार्थे किं तद्यन्न विधीयते ? ॥ ४० ॥ अन्यदा वणिजा तेन प्रोते ते एष बालकः । किं करोत्युपविष्टः सन्नस्तु मे वत्मपालकः ? ॥ १ ॥ वत्सराजकुमारोऽथ वत्मरूपाणि तहहे। विनीतो मावचसाऽचारयद्दषयोगत: ॥ २ ॥ अन्यदा वत्मरूपाणि गृहीत्वाऽगाइनान्तरे । चरत्सु तेषु तत्राऽसौ विशश्राम क्षणान्तरम् ॥ ३॥ . (१) द किन्तु तव ग्टहे। (२) द ससुतखसा। Page #286 -------------------------------------------------------------------------- ________________ २८६ श्रीशान्तिनाथचरित्रे श्रुत्वैकत्र स्वरं राज्ञः पुत्राणां कुर्वतां श्रमम् । जगाम सोऽपि तत्राशु तदालोकनकौतुकी ॥ ४ ॥ तेषां मध्याद्यदा कोऽपि घाताद् भ्रश्येन्मनागपि । वत्सराजः समीपस्थस्तदा म्लानमुखोऽभवत् ॥ ५ ॥ घातो यदि पुन: स्थाने भवेत्त तोषनिर्भर: । प्रहृष्टवदनश्चामुं प्राशंसत् साधु साध्विति ॥ ६ ॥ " तद् दृष्ट्वा तत्कलाचार्य्यो दध्यौ कोऽप्येष कोविदः । बालोऽपि शस्त्रकर्माणि य एवं वेत्ति निश्चितम् ॥ ७ ॥ एवं पृष्टोऽमुना सोऽथ कुतो वत्स ! त्वमागतः ? | जगाद वत्सराजोऽपि तात ! वैदेशिकोऽस्माहम् ॥ ८ ॥ स पुनः स्माह भो भद्र ! कृत्वा प्रहरणं करे । आत्मनः शस्त्रकौशल्यं त्वं मदग्रे प्रकाशय ॥ ८ ॥ विज्ञायावसरं सोऽपि तथा चक्रे महामतिः । तेषां योग्यं कुमाराणां तदा भक्तं समाययौ ॥ १० ॥ भोजितो 'वत्सराजोऽपि ततस्तैरात्मना सह । तत्कलाभ्याससन्तुष्टैर्गुणैः सर्वत्र पूज्यते ॥ ११ ॥ सोऽस्थात्तत्र दिनं सर्वं वत्सरूपाणि तानि तु । रक्षपालं विना गेहे सकालेऽपि समाययुः ॥ १२ ॥ एयुः सदिवसेऽप्यद्य किमेतानीति जल्पिते ? । श्रेष्ठिना विमलोवाच नाहं जानामि कारणम् ॥ १३ ॥ (५) ङ ठ - ल्यममदये । Page #287 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । अमीषां रक्षको वत्सोऽप्यागतो न ग्टहे यतः । श्रेष्ठाचे यदसौ बालो नाययौ तन्न 'शोभनम् ॥ १४ ॥ प्रदोषसमये सोऽथ समायातो निजं गृहम् । लग्ना किमियतो वेलेत्यूचे मात्रा ऽन्यया तथा ? ॥ १५ ॥ सोऽवदन्ननु हे मातः ! सुप्तोऽभूवमहं बहिः । केनापि बोधितो नैवाधुना जागरितः स्वयम् ॥ १६ ॥ एवं द्वितीयदिवसे तृतीयेऽपि व्यधादसौ । तर्णकेष्वागतेषूपालम्भं श्रेष्ठो ददौ तयोः ॥ १७ ॥ रुष्टाभ्यामथ ताभ्यां स भणितो वत्स । किं तव । परदेशागतिः कर्मकरत्वं चैव विस्मृतम् ? १८ ॥ परवेश्मनिवासश्च तथा कष्टेन भोजनम् । ! २८७ यदेवं त्वमुपालम्भमानयस्यद्य बालक ! ॥ १८ ॥ वत्सराजोऽब्रवोन्मातर्वत्मरूपाणि न ह्यहम् । कदाऽपि चारयिष्यामीत्याख्येयं वणिजोऽस्य हि ॥ २० ॥ तया चाख्यायि तत्तस्य वत्सराजोऽपि सर्वदा । तेषां पार्श्वे कुमाराणां यात्वा भुङ्क्ते स्म तत्र च ॥ २१ ॥ क्व गच्छसि सदैव त्वं भोजनं वा कथं तव ? | इति पृष्टोऽम्बयाऽन्धेयुर्वसस्तस्यै शशंस तत् ॥ २२ ॥ प्रपात पूर्वं च तयैवं भणितस्ततः । कथं त्वमावयोः चिन्तां करोषि न हि पुत्रक ! १ ॥ २३ ॥ (१)ठ सुन्दरम् । (२) द तथाऽम्यया । Page #288 -------------------------------------------------------------------------- ________________ 288 श्रीशान्तिनाथचरित्रे अन्यच्च नावयोगेंहे सन्त्येधांसि च नन्दन ! / पुरवासे यतः प्रायो दुष्पापं स्याज्जलेन्धनम् // 24 // सोऽब्रवीत् श्रेष्ठिन: पार्खाद्याचित्वा त्वं कुठारिकाम् / कावाकतिं च हे अम्ब ! समर्पयसि मे यदि // 25 // ततोऽहमिन्धनं सारमानयामि वनान्तरात् / तयाऽथ तत्तथा चक्रे ययौ सोऽप्यटवीं प्रगे // 26 ॥(युग्मम्) पश्यबानाद्रुमांस्तत्र स दध्यौ यदि कञ्चन। पश्यामि प्रवरं वृक्षं तत् छित्त्वा तस्य दारुभिः // 27 // रूक्षदारिद्रग्रहक्षस्य च्छेदनं प्रकरोम्यहम् / अम्बायास्तद्भगिन्याच वाछितं पूरयामि च // 28 // तत्रैका देवकुलिका तेनाथ ददृशे वरा / तदन्तर्यक्षराजश्च प्रत्यक्षो भक्तिशालिनाम् // 28 // तत्र दूरे समाघ्राय सुगन्धं स व्यचिन्तयत् / नूनमन वने कापि विद्यते चन्दनद्रुमः // 30 // सम्यग् निरीक्षमाणन यतोऽसौ सर्पवेष्टितः। . दृष्टोऽथ साहसेनेते परिक्षिप्ता महोरगाः // 31 // पुरा यक्षवनमिति च्छिन्नो द्रुः स न केनचित् / चिच्छेद स तु तस्यैकशाखां साहससंयुत: // 32 // विधाय काष्ठखण्डानि क्षिया कावाकृती तथा / परितुष्टमनाः सोऽथ चचाल खग्रहं प्रति // 33 // नगया यावदासने स समेतस्तदाऽन्तरा। जगामास्तं रवि: पुर्या द्वाराणि पिहितानि च // 34 //