SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । २१८ याचमाने नृप श्रेष्ठी स्थानं यावद् व्यलोकयत् । तत्र तावददृष्ट्वा तद् मनस्येवमचिन्तयत् ॥ २७ ॥ गृहीतं पुण्यसारण नूनमेतद् भविष्यति । अन्य स्य गूढमहस्तूपादाने योग्यता न हि ॥ २८॥ यदथं खिद्यते लोकः यत्नश्व क्रियते महान् । तेऽपि सन्तापदा एवं दुष्यत्रा हा ! भवन्त्यहो ! ॥ २८ ॥ हारितं क्वापि तेनेदं चेद् भविष्यति तद् मया । रहाद निर्वासनीयोऽयं पुत्ररूपेण वैरिकः ॥ ३० ॥ एवं विचिन्त्य हहऽगात् श्रेष्ठो तत्रागतं सुतम् । पप्रच्छालङ्कतेः शुद्धिं सोऽप्याचख्यौ यथातथम् ॥ ३१ ॥ ततः प्रकुपितः श्रेष्ठो तमूचे दुष्ट ! रे ! त्वया । तद्भूषणमुपादाय समागम्यं गृहे मम ॥ ३२ ॥ वचसा तर्जयित्वैवं धृत्वा च गलकन्दले । निरस्तस्तनयस्तेन गाढरोषवर्शन सः ॥ ३३ ॥ तदा दिनावसानत्वात् अन्यतो गन्तुमक्षमः । पुराविस्मृत्य न्यग्रोधकोटरं प्रविवेश सः ॥ ३४ ॥ चेष्ठिन्या भणित: सोऽथ गृहं प्राप्तः पुरन्दरः । कथमद्य पुण्यसारो नायात्यद्यापि मन्दिरे ? ॥ ३५ ॥ राजभूषण वृचान्तमाख्यायैवमुवाच सः । मया निर्वासितः सोऽद्य प्रिये ! शिक्षापनाकते ॥ ३६ ॥ सोचे निस्सारितो येन तनयो रजनीमुखे । स त्वं मे मुखमात्मीयं कथं दर्शयसि स्फुटम् ? ॥ ३७ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy