________________
२२०
श्रौशान्तिनाथचरित्र
बालं नेत्रविशालं तमकतोकं त्वमात्मनः । अस्यां विकालवेलायां निरस्यन् लज्जसे न किम् ? ॥३८॥ तहच्छ वत्सके तस्मिन् समानीते रहे मम। अागन्तव्यं त्वयाऽपीति स तया निरवास्यत ॥ ३८ ॥ 'गेहिनीभर्मित: पुत्र स्मृत्वा सोऽपि सुदुःखितः । सर्वत्राऽन्वेषयामास नगरे निजनन्दनम् ॥ ४० ॥ गृहं निर्मानुषं वीक्ष्य श्रेष्ठिनी सा व्यचिन्तयत् । निरासे हा ! मया गेहाद पतिः कोपपरीतया ॥ ४१ ॥ पुत्रापायकता पूर्व मूर्खता श्रेष्ठिना कता। निरस्यन्त्या स्वभर्तारं पश्चात् चक्रे मयाऽपि सा ॥ ४२ ॥ एवं चिन्ताऽऽतुरा साना तयोर्मार्गावलोकनम् । कुर्वागोड़तनुः साऽस्थाद् द्वारदेशे स्ववेशमान: ॥ ४३ ॥ ददर्श पुण्यसारोऽथ तत्रोभे देवतै निशि । खरोचिषा तमोहन्त्री शुश्रावेति च तड्रिम् ॥ ४४ ॥ एका स्माह स्वसः ! किं न खेच्छया भ्राम्यते भुवि ? । वर्तते यदियं रात्रिरस्मत्यक्षकतोदया ॥ ४५ ॥ हितीयोवाच किं व्यर्थ भ्रान्त्याऽऽत्मा खेद्यते हले ।। दृश्यते कौतुकं क्वाऽपि यदि तत्रैव गम्यते ॥ ४६ ॥ साऽवदत् कौतुकं तर्हि गच्छामो वलभीपुरे ।
१) ज द गेहिन्या भर्मितः। (२) वलभीपुरस्य यत्र यत्र प्रसङ्ग स्तत्र तत्र वल्लभीतिल कारयविशिष्टोऽपि पाठो दृश्यते कचित् ।