SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ११६ श्रीशान्तिनाथचरित्रे क्षणमेकमहं पद्भ्यां यास्यामीति वदन्नसौ | तदर्थमर्थितो भूयः सीमां प्राप्तस्तया भृशम् ॥ ५८ ॥ मित्रः प्रोवाच हे सुभ्रु ! नात्मार्थं मयका त्वकम् । अनीता किं तु मित्रस्यामरदत्तस्य हेतवे ॥ ५८ ॥ मित्रव्यतिकरं चास्याः कथयित्वा न्यवेदयत् । न मे युक्तं त्वया साईमेकत्र शयनासनम् ॥ ६० ॥ तच्छ्रुत्वा राजपुत्त्रो सा दध्यौ विस्मितमानसा । अहो अस्य महापुंसश्चरित्रं भुवनोत्तरम् ॥ ६१ ॥ पिता माता सखा भ्राता यदर्थं वञ्चातं नरः । प्राप्ताऽपि कामिनी साऽहं येन नो कामिता सता ॥ ६२ ॥ सर्वोऽपि सहते क्लेशं स्वार्थसिद्धिपरायणः | परार्थसाधने कोऽपि विरलोऽङ्गीकरोति तम् ॥ ६३ ॥ चेतसा चिन्तयत्येवं' स्त्रीरत्नं रत्नमञ्जरी । पार्श्वे पाटलिपुत्रस्य निन्ये मित्रेण सा शनैः ॥ ६४ ॥ इतश्चामरदत्तोऽसौ 'पूर्णे मासद्दयावधी । अनागच्छति मित्रे च रत्नसारमदोऽवदत् ॥ ६५ ॥ तात ! मे नाययौ मित्रं काष्ठैः कारय तच्चिताम् । येन तद्दुःखदग्धोऽहं प्रवेक्ष्यामि हुताशने ॥ ६६ ॥ तच्छ्रुत्वाऽधिकदुःखार्त्तः स श्रेष्ठी पौरसंयुतः । क्रन्दन्नत्याग्रहेणास्य रचयामास तां चिताम् ॥ ६७ ॥ (१) ङ ण द -चिन्तयन्त्ये - । ( २ ) ञण द पूर्णमासद्दयावधिः ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy