________________
वतीयः प्रस्तावः । 'वह्नौ पाखं स्थितैः सर्वैर्नागर्भणितोऽथ सः । भद्राद्यापि प्रतीक्षस्व येनेदमवधेर्दिनम् ॥ ६८ ॥ एवमश्रुमुखे तस्मिनिषिद्धमरणे जनैः । अपराह्ने तया साई मित्रस्तत्र समाययौ ॥ ६८ ॥ आगच्छन्तं तमुबौक्ष्यामरदत्तः समभमः । उत्थायाऽऽलिङ्गति स्माशुजलधौतमुखाम्बुजः ॥ ७० ॥ यत्तयोमित्रयोः सौख्यमभून्मिलितयोः किल । तावेव वेदको तस्य नान्यस्तहक्तमीश्वरः ॥ ७१ ॥ मित्रानन्दोऽवदन्मित्र ! तव चित्तस्य चौर्यसौ।
आनीताऽस्त्युररीकृत्य मया कष्टपरम्पराम् ॥ ७२ ॥ इतरः स्माह बन्धो ! त्वं सत्यनामा सदैव मे। साधितनामुनाऽर्थेन विशेषेणाभव: पुन: ॥ ७३ ॥ अपनाय्य चितैधांसि स्थाने तताग्निसाक्षिकम् । मित्र: कारयति स्माथ पाणिग्रहणमेतयोः ॥ ७४ ॥ विलोक्य रत्नमञ्जर्या रूपं पौरगणोऽवदत् । तन्नाश्चर्यं यदेषोऽस्याः प्रतिच्छन्देन मोहितः ॥ ७५ ॥ वृत्तोहाहस्य तस्याथाऽमरदत्तस्य तत्र यत्। सञ्जातं भाग्ययुक्तस्य तदितः श्रूयतां जनाः ! ॥ ७६ ॥ तस्मिन्नेव पुरेऽपुत्रो महीपालो व्यपद्यत । चक्रे च राजलोकेन पञ्चदिव्याऽधिवासना ॥ ७७ ॥
(१) ण त वङ्गिपावस्थितैः । ञ द वह्नौ पार्थस्थिते । (२) म अपनीय ।