________________
चतुर्थः प्रस्तावः ।
१६८ तवागात्तावदीशानकल्पवास्यमृताशनः । चित्रचूलोऽभिधानेन कश्चिद् मिथ्यात्वमोहितः ॥१७॥(झुम्मम्) नास्ति देवी गुरुर्नास्ति नास्ति पुण्यं न पातकम् । न जीवपरलोको चेत्यादिनास्तिकवाद्यसौ ॥ १८ ॥ वज्वायुधकुमारण भणितो भोः ! न युज्यते । तव नास्तिकवादोऽयमन हेतुर्भवानपि ॥ १८ ॥ चेत् त्वया मुक्कतं किञ्चित् नाभविथत् पुरा कृतम् । नालप्साथाः सुरत्वं हि ततस्त्वं शर्मण: पदम् ॥ २० ॥ पासीत्वं मनुजः पूर्वमिह जातोऽसि निर्जरः । घटते कथमप्येतद् यदि जौवो न विद्यते ॥ २१ ॥ इत्यादिहेतुभिः सोऽथ निर्जरः प्रतिबोधितः । ववायुधकुमारेण ततस्तुष्टी जगाद सः ॥ २२ ॥ भोः ! कुमार ! त्वया साधु विदधे यद्भवार्णवे । पतन् संज्ञानहस्तावलम्बनेनोइतोऽस्माहम् ॥ २३ ॥ पाददे सोऽथ सम्यक्त्रं कुमारस्यैव सविधौ। प्रियं किं ते करोमोति कुमारं तं जजल्प च ॥ २४ ॥ निःसहाय ततस्तस्मै दत्त्वाऽऽभरणमुत्तमम् । स देव: प्रययो वर्गमीशानेन्द्रस्य सविधौ ॥ २५ ॥ वज्वायुधकुमारोऽसावीशानेन्द्रेण पूजितः । अयं जिनेन्द्रो भावीति भक्तिरञ्जितचेतसा ॥ २६ ॥ वसन्तसमयेऽन्येद्युः कुमारं तं स्मरोपमम् । क्षुद्रा सुदर्शना पुष्पाण्यपयित्वा व्यजिज्ञपत् ॥ २७ ॥