________________
१६८
श्रीशान्तिनाथचरित्रे
अजीजनत् सुतं राजी सम्पूर्णसमयेऽथ सा । प्रतिश्च भूपालश्चेटीभिः सुतजन्मना ॥ ८ ॥ आसप्तकुलवृत्त्या ताः सुतजन्मनिवेदिकाः । तोषयित्वा महीपालो वर्दापनमकारयत् ॥ ८ ॥ दृष्टं पञ्चदशस्वप्ने देव्या वजायुधं ततः । वज्जायुधाभिधानं तत्पित्रा पुत्रस्य निर्ममे ॥ १० ॥ अष्टवर्षप्रमाणोऽसौ कलाचार्यस्य सन्निधौ । कारितस्तु कलाभ्यासमावासं गुणसंपदः ॥ ११ ॥ संप्राप्तयौवनो राजकन्यां लक्ष्मीवतों वराम्। सोऽथोत्सवेन गुरुणा गुरुणा परिणायितः ॥ १२ ॥ अनन्तवीर्यजीवोऽथ प्रच्युत्याच्युतकल्पतः । ववायुधकुमारस्य लक्ष्मीवत्याः सुतोऽभवत् ॥ १३ ॥ सहस्रायुधनामाऽसावपि संप्राप्तयौवनः । उपयेमे नृपसुतां सुरूपां कनकश्रियम् ॥ १४ ॥ भुञ्जानस्य तया साई भोगांस्तस्याऽपि बन्धुरान् । कालक्रमेण संजज्ञे पुत्रः शतबलाभिधः ॥ १५ ॥ क्षेमकरनृपोऽन्येयुः पुत्रपौत्रसमन्वितः । सिंहासनोपविष्टोऽसौ यावदासीत् सभान्तरे ॥ १६ ॥
(१) ख घ च ड -तः स कलाभ्यास । (२) ग ज झ ठ ड लक्ष्मीवत्या । (३) ङ ऽति-। (४) ङ छ पुत्रपौत्रप्रपौत्रयुक् । र पुत्रपौत्वप्रपौलकः ।