________________
१००
श्रीशान्तिनाथचरित्र
देव ! लक्ष्मीवती देवी युभाभिः सह वाञ्छति । कतुं सूरनिपाताख्योद्याने सुरभिखेलनम् ॥ २८ ॥ वज्जायुधकुमारोऽथ सप्तराज्ञीशतापाया। लक्ष्मीवत्या समं देव्या तदुद्यानमगादरम् ॥ २८ ॥ तत्र नानाविधक्रीडाः कर्तुं प्रववृते जनः । कुमारश्च ययौ वापों सप्रियः प्रियदर्शनः ॥ ३० ॥ तत्र प्रविश्य पत्नीभिः सानुरागाभिरञ्चितः । निरासबोकतव्रीडां जलक्रीडां चकार सः ॥ ३१ ॥ दमितारेरथो जीवो भवं भ्रान्त्वा पुरा भवे । कत्वा किञ्चिदनुष्ठानं विद्युइष्टः सुरोऽभवत् ॥ ३२ ॥ जलक्रीडापरं वीक्ष्य कुमारं पूर्वमत्सरात् । तधार्थ महाशैलं वाप्या उपरि सोऽमुचत् ॥ ३३ ॥ अधस्ताबागपाशैश्च तं बबन्ध दुराशयः । बजायुधोऽपि चक्रौति महाबलसमन्वितः ॥ ३४ ॥ अधिष्ठितश्च यक्षाणां सहस्रहितयेन सः । बिभेद तं नगं नागपाशान् त्रोटयति स्म च ॥३५॥ (युग्मम्) ततो वाप्या विनिर्गत्य सर्वराजीगणाऽऽवृतः । अक्षताङ्गः कुमारोऽसौ चिरं चिकोड कानने ॥ २६ ॥ अत्रान्तरे सहस्राक्षो जिनं नत्वा विदेहतः । वलितः शाश्वतवात्राकृते नन्दीश्वरं प्रति ॥ ३७ ॥ वापीमध्यावगं भित्त्वा छित्त्वा पाशांश्च सप्रियम् । निर्मच्छन्तं कुमारं तं पश्यति स्म सविस्मयः ॥ ३८ ॥