________________
ε४
श्रीशान्तिनाथचरित्रे
सुरसद्मसमानर्द्धि नानाऽद्भुतमनोहरम् ।
अस्तीहामरतिलकं नगरं भुवि विश्रुतम् ॥ ३१ ॥
रूपलक्ष्मप्राऽतिशायिन्याऽभिभूतमकरध्वजः ।
मकरध्वजनामाऽभूत् भूपतिस्तत्र विक्रमी ॥ ३२ ॥ पत्नयां मदनसेनायां पद्मकेसरनामकः । तस्य पद्मसरःस्वप्नसूचितस्तनयोऽभवत् ॥ ३३ ॥ राज्ञः पत्नया तयाऽन्येद्युर्विवृखत्या शिरोरुहान् ।
विलोक्य पलितं दूत आगाद्देवेति जल्पितम् ॥ ३४ ॥ ततः संभ्रान्तचित्तस्य कुर्वाणस्य दिगोक्षणम् ।
*
भूयः पत्युस्तयाऽऽख्यातं पाण्डुकेशं प्रदर्शितम् ॥ ३५ ॥ दूतोऽयं धर्मराजेन प्रेषितः पलितच्छलात् । आगच्छति जराक्कृत्यं कुरुष्वेति वदन्निव ॥ ३६ ॥ ततश्च पार्थिवो दध्यौ मम पूर्वैर्महात्मभिः । अदृष्टपलितैरेव धर्मसेवा व्यधीयत ॥ ३७ ॥ धिग् मां राज्यलुब्धं तु 'स्थितिविच्छेदकारिणम् । यस्य मे विषयासक्तस्यैव जातो जरागमः ॥ ३८ ॥ इति चिन्ताविषस्मास्यं पतिं दृष्ट्वा सनर्मवाक् । उवाचैवं पुना रात्री तद्भावाविदुरा सका ॥ ३८ ॥ नाथ त्वं वृद्धभावेन लज्जसे यदि सर्वथा ।
ततोऽहं कारयिष्यामि पटहोद्घोषणामिमाम् ॥ ४० ॥
( 8 1 खघ च मति ।