________________
तृतीयः प्रस्तावः ।
मुनिर्जगो कोप- मान-माया - लोभाभिधा इमे । चत्वारः स्युस्तथाऽमीषां भेदाः प्रत्येकशोऽप्यमी ॥ २० ॥ आद्योऽनन्तानुबन्ध्यत्राप्रत्याख्यानो द्वितीयकः । प्रत्याख्यानस्तृतीयस्तु तुर्यः संज्वलनाभिधः ॥ २१ ॥ निश्चलोऽचलरेखेव दारुणो दुःखदायकः । भवेत्तत्वादिमो राजन् कोपोऽनन्ताऽनुबन्धकः ॥ २२ ॥ पृथ्वीरेखासमोऽप्रत्याख्यानो नाम्ना द्वितीयकः । प्रत्याख्यानस्तृतीयस्तु रेणुरेखासमो मतः ॥ २३ ॥ तुर्य: संज्वलनो नोररेखातुल्यः प्रकीर्त्तितः । एवं मानोऽद्रास्थिकाष्ठटणसस्तम्भसत्रिभः ॥ २४ ॥ माया वंशमेषशृङ्गगवांमूत्रावलेहवत् । लोभः कमिरागपङ्काज्ञ्जन हारिद्ररागवत् ॥ २५ ॥ जन्मवर्षचतुर्मासीस्थितयः स्युः क्रमात्त्रयः ।
तुर्यः पक्षस्थितिस्ते च श्वभ्वादिगतिहेतवः ॥ २६ ॥ एवं कषायास्ते राजन् षोडशापि प्रकीर्त्तिताः । गाढसंरम्भविहिताः स्युर्यके गाढदुःखदाः ॥ २७ ॥ संरम्भेण विना स्तोकभवान् दुःखं ददत्यलम् । ततश्चाल्पेऽपि नो कार्याः कषाया नृपते त्वया ॥ २८ ॥ राजव्रल्पोयसोऽपि स्यात् दुष्कृतस्य फलं महत् । मित्रानन्दादिसत्त्वानां यथादृष्टं मनीषिभिः ॥ २८ ॥ मित्रानन्दादयः केऽमी इत्युक्तो भूभुजा पुनः । स्वयंप्रभमुनिः स्माह तत्कथा श्रूयतामिति ॥ ३० ॥
३