SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ २ श्रीशान्तिनाथचरित्रे अग्रेतनसुतश्चायं बलभद्रो भविष्यति । इत्युक्त्वाऽगात् गृहे राज्ञा विसृष्टः स्वप्नपाठकः ॥ १० ॥ समये सुषुवे साऽपि देवी कृष्णप्रभं सुतम् । अनन्तवीर्य इत्याख्या पित्रा तस्य विनिर्ममे ॥ ११ ॥ काले कृतकलाभ्यासौ रूपलावण्यशालिनौ । उद्योवन कुमारौ तौ पित्रा कन्ये विवाहितौ ॥ १२ ॥ अन्येद्युस्तत्पुरोद्याने विशिष्टज्ञानसंयुतः । स्वयंप्रभो नाम मुनिरागत्य समवासरत् ॥ १३ ॥ इतोऽखवाहनां कृत्वा परिश्रान्तः स भूपतिः । विश्रामार्थं तमुद्यानमाययौ नन्दनोपमम् ॥ १४ ॥ 'क्षणमेकं स विश्रान्तस्तत्राशोकतरोस्तले । ददर्श मुनिवर्यं तं ध्यानाचलकलेवरम् ॥ १५ ॥ तं त्रिः प्रदक्षिणीकृत्य नमस्कृत्य च भक्तितः । निषद्य च यथास्थानं स शुश्रावेति देशनाम् ॥ १६ ॥ कषायाः कटवो वृक्षा दुर्गानं तत्प्रस्नकम् । फलं च पापकर्मेह परलोके च दुर्गतिः ॥ १७ ॥ संसारोद्दिग्नचित्तेन निर्वाणसुखमिच्छुना । कषायाः परिहर्त्तव्यास्त देतेऽनर्थकारणम् ॥ १८ ॥ अथोचे पार्थिवः सत्यं महात्मविदमेव हि । परमेवं ममाख्याहि कतिभेदा भवन्ति ते ॥ १८ ॥ (१) खघ च चणमेकं शयितस्तत्वाशोकस्य तरोस्तले ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy