SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । -600 इतोऽस्य जम्बूद्दीपस्य पूर्वविदेहमध्यगे। विजये रमणीयाख्ये सुभगायां महापुरि ॥१॥ वृत्तगाम्भीर्यमर्यादाश्रीगुणैर्जितसागरः । प्रौढप्रतापयुक्तोऽभूत् राजा स्तिमितसागरः ॥ २ ॥ (युग्मम्) भार्या वसुन्धरी तस्यानयशीलवसुन्धरा। द्वितोयाऽनुद्धरौ नाम बभूव स्त्रीगुणाञ्चिता ॥ ३ ॥ दिव्यचूलः सुरः सोऽथ च्युत्वा प्राणतकल्पतः । राज्ञः पत्नया वसुन्धर्या उदरे समवातरत् ॥ ४ ॥ गजपद्मसरश्चन्द्रवषखनास्तया तदा । चत्वारो हलभृज्जन्मसूचका वीक्षिताः शुभाः ॥ ५ ॥ समये सुषुवे साऽथ तनयं कनकप्रभम् । अपराजित इत्याख्यां चक्रे तस्य पिता शुभम् ॥ ६ ॥ अन्यदाऽमुद्धरीकुक्षौ सरसीव सिप्तच्छदः । समुत्पन्नः सुतत्वेन मणिचूलो दिवश्यतः ॥ ७॥ सिंहाकुम्भसिन्धुश्रीरत्नोच्चयहुताशनान् । प्रविणतो मुखेऽद्राक्षीत् सप्त स्वप्नानसो तदा ॥ ८ ॥ कथयामास तान् भर्तुः सोऽपि पप्रच्छ तदिदम् । सोऽवदत्ते सुतो विष्णुर्भावी स्वप्नैरिमैनप ॥ ८ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy