________________
तृतीयः प्रस्तावः । ।
यः कश्चिदवनीनाथं जातयामं वदिष्यति । भविष्यति सकोऽवश्यमकालेऽपि यमातिथि: ॥ ४१ ॥ राजा प्रोवाच हे देवि किं ब्रवीथविवेकिवत् । जरैव मण्डनं यस्माद्भवेदस्मादृशां किल ॥ ४२ ॥ तर्हि श्याममुखा यूयं किमित्यक्ते तया पुनः । स तस्याः कथयामास स्वस्य वैराग्य कारणम् ॥ ४३ ॥ ततश्च तनयं राज्ये संस्थाप्य प्रियया सह । तापसीभूय राजाऽसौ वनवासमशिश्रियत् ॥ ४ ॥ गूढगर्भा तु सा राजी प्रपना तापसव्रतम् । वईमाने तु गर्भेऽस्या अवर्धिष्टोदरं क्रमात् ॥ ४५ ॥ किमेतदिति दृष्ट्वा च साऽऽचस्यौ तद्यथातथम् । पत्युः कुलपतेः सोऽपि व्रतदूषणभीरुकः ॥ ४६॥ तापसीभिः पाल्यमाना समये मुधुवेऽथ सा। सुतं देवकुमाराभं शुभलक्षणशोभितम् ॥ ४७.! तस्याश्चानुचिताहारादोगोऽभूहारजस्तनी।। अचिन्तयंश्च दुःखास्तेि 'तपोधनतापसाः ॥ ४ ॥ ग्रहिणमपि दुष्पालो बालः स्याज्जननीमृते । तन्मातरि विपवायां कथं पाल्योऽयमर्भकः ॥ ४८ ॥ वणिगुज्जयिनीपुर्या वाणिज्येन परिभ्रमन् । तदा तवाययौ देवधराख्यो दैवयोगत: ५० ॥
(१) ख घ च तपोवन-। .