________________
चतर्थः प्रस्तावः।
२१५
जशेऽथ समये तस्यास्तनयः शुभलक्षणः । तस्य जन्मनि तत्यित्रा विदधे च महाक्षणः ॥ ८६ ॥ पुण्यं कृत्वाऽयमायातः प्राप्तः पुण्येन वा मया । पुण्यसार इति नाम चक्रे तस्येति तत्यिता ॥ ८७ ॥ बालरक्षाविधात्रीभिर्धात्रीभिः परिपालितः । स पित्रोवल्लभतमो बभूवाऽध्ययनक्षमः ॥ ८८ ॥ उपाध्यायस्य वर्यस्य कलाग्रहणहेतवे । जनकेनार्पितो लेखशालाक्त्युत्मवेन सः ॥ ८ ॥ तत्रैव नगरे रत्नसारस्य वणिजः सुता। बभूव बालिका रवसुन्दरी सुन्दराङ्गका ॥ ८ ॥ अधीयानाऽथ तस्यैव कलाचार्यस्य सन्निधौ । जज्ञे सहाध्यायिनी सा पुण्यसारस्य धीमती ॥१॥ सा चापलेन महिला सुलभेन कलाविधौ। विवादं पुण्यसारेण सह चक्रे मनौषिणी ॥ २ ॥ अन्यस्मिन् दिवसे तेन रुष्टेनैवमभाणि सा। . बालिके ! पण्डितंमन्या यद्यप्यसि कलावती ॥ ३ ॥ तथापि हि मया साई विवादस्तव नोचितः । भविष्यसि यतो दासी पुरुषस्य रहे खलु ॥ १४ ॥ (युग्मम्) साऽवदद् यदि रे ! दासी महाभाग्यस्य कस्यचित् । भविष्यामि नरस्याहं तद् मूढ ! भवतोऽत्र किम् ? ॥६५॥ शशंस पुण्यसारोऽपि परिणीय बलादपि । करोमि किङ्गरौं चेत् त्वां तदाऽहं नियतं नरः ॥ ६ ॥