________________
२१६
श्रीशान्तिनाथचरित्रे.
भूयोऽपि साऽब्रवीद मूर्ख ! बलात्कारेण जायते । स्नेहो नाऽन्यस्य कस्यापि दम्पत्योस्तु विशेषतः ॥ ८७ ॥ ततोऽसौ लेखशालायाः पुण्यसारो गतो गृहम् । सुष्वाप मन्युशय्यायां भूत्वा म्लानमुखोऽसुखी ॥ ८ ॥ श्रेष्ठो पुरन्दरो वेश्म भोजनार्थमुपागतः । ज्ञात्वा तच्चेष्टितं तस्यान्तिकमेत्यैवमूचिवान् ॥ ८८ ॥ अयि वत्स ! कुतो हेतोरद्य श्याममुखो भवान् ? | अकाले शयनं किं ते कारणं मे निवेदय ? ॥ ५०० ॥ निर्बन्धपृष्टः सोऽवोचत् तात ! मां रत्नसुन्दरोम् । परिणाययसि त्वं चेत् तदा स्वस्थो भवाम्यहम् ॥ १ ॥ भूयोऽभाषिष्ट तं श्रेष्ठी बालोऽस्यद्यापि वत्सक ! | कुरु तावत् कलाऽभ्यासं काले परिणयेः स्नुषाम् ॥ २ ॥ पुत्रेण भणितं तात ! यदि तां याचसेऽधुना । मदर्थं तत्पितुः पार्खात् तदा भोच्ये न चान्यथा ॥ ३ ॥ संबोध्य भोजयित्वा तं स्वयं भुक्त्वा च श्रेष्ठासौ । बन्धुभिः सहितो रत्नसारश्रेष्ठिग्टहं ययौ ॥ ४ ॥ अभ्युत्थानासनदानखागतप्रश्नपूर्वकम् ।
सोऽवदत् कारणं ऊचे पुरन्दरस्त्वत्तः कन्यकां रत्नसुन्दरोम् |
याचितुं स्वसुतस्यार्थे श्रेष्ठिन् ! वयमुपागताः ॥ ६ ॥ अभ्यधाद् रत्नसारोऽपि कृत्यं यद् मम सर्वथा । युष्माभिर्विहितं तत् तद् देयाऽवश्यं सुता मया ॥ ७ ॥
ब्रूत येन यूयमिहागताः ॥ ५ ॥