________________
हतीयः प्रस्तावः ।
ततो ज्ञानोपयोगेन ज्ञात्वा तहमनं तयोः । दधावे खगमादाय पृष्ठे कोपपराऽसको ॥ ६३ ॥ दृष्ट्वा च तावुवाचैवं रे ! किं याथो विमुच्य माम् । पुनरागच्छतं वस्य जीवितं वाञ्छतो यदि ॥ ६४ ॥ नोचेदनेन खड्नेन पातयिष्यामि वां शिरः । तयेत्युक्तेऽथ यक्षेण भणितौ ताविदं पुनः ॥ ६५ ॥ मम पृष्ठे स्थितावस्या मा भैष्टं भोः ! कथञ्चन | इति संधौरितावेतौ स्थिरचित्तौ बभूवतुः ॥ ६६ ॥ ततोऽनुकूलवाक्यानि जजल्यैवमसौ यथा । मां मुक्काकिनी दीनां क्क प्रियौ प्रस्थितौ युवाम् ॥ ६७ ॥ इत्यादिदीनवचनैस्तया भणितयोरपि । न चचाल तयोश्चित्तं यक्षावष्टम्भशालिनोः ॥ ६८ ॥ ततोऽसौ भेदनिष्णाता प्रत्यूचे जिनरक्षितम् । मम प्रियो विशेषण त्वमेवासि. महाशय ! ॥ ६८ ॥ ईक्षणाऽऽलापसंमानक्रियासाम्येऽपि देहिनाम् । चित्ताबादकरं प्रेम कस्मिंश्चिदपि जायते ॥ ७० ॥ एवं ममाऽपि कुर्वत्या युवाभ्यां सह सङ्गतिम् । जिनरक्षित ! सद्भावे स्नेहस्त्वय्येव निश्चलः ॥ ७१ ॥ तदेहि देहि हे कान्त ! ममैकान्तरते: सुखम् । अन्यथाऽहं मरिथामि त्ववियोगरुजाऽदिता ॥ ७२ ॥ नाथानाथां नियमाणां दृष्ट्या मां किं न वीक्षसे । ददाति रागिणी प्राणानित्यर्थे संशयो नु किम् ॥ ७३ ॥