________________
श्रीशान्तिनाथचरित्रे
उद्दोषणायां जातायामावां रक्षेति जल्पतम् । इति शिक्षा तयोर्दत्त्वा स नरः संस्थितस्ततः ॥ ५३ ॥ पूजयामासतः पुष्पैर्यक्षं गत्वा च तत्र तौ। आवां निस्तारयेत्याशु तदुत्तौ च जजल्पतुः ॥ ५४ ॥ उवाच शैलको निस्तारयिष्यामि युवामहम् । एकं त्ववहितो भूत्वा वाक्यं संशृणुतं मम ॥ ५५ ॥ युवयोर्गच्छतोः पृष्ठे देवता सा समेष्यति । सानुरागसकामानि जल्पिश्यति वचांस्यपि ॥ ५६ ॥ अनुरागं ततस्तस्यां युवा यदि करिष्यथः । ततश्चोल्लालयित्वाऽहं प्रक्षेप्यामि महोदधौ ॥ ५७ ॥ यदि वा निरपेक्षौ हि तस्यां ननु भविष्यथः । तत: क्षेमेण चम्पायां प्रापयिष्यामि निश्चितम् ॥ ५८ ॥
॥ किं बहुना ॥
संमाननं न दृध्याऽपि तस्याः कार्य कथञ्चन । न भत्तव्यं भयं तस्यां दर्शयन्त्यामपि स्फुटम् ॥ ५८ ॥ व्यवस्थयाऽनया खं भोः ! शक्ती निर्वाहितुं यदि। तन्ममाऽऽरुहतं पृष्ठं शीघ्रं येन नयाम्यहम् ॥ ६ ॥ ततस्तत्पृष्ठमारूढौ तावङ्गीकृत्य तद्दचः । उत्पत्य नभसा सोऽपि ययौ मध्येमहोदधेः ॥ ६१ ॥ अत्रान्तरे च देवी साऽपश्यन्ती तौ स्ववेश्मनि । बभ्राम वनखण्डेषु तत्राऽप्येतो ददर्श न ॥ ६२ ॥