SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ३६ श्री शान्तिनाथचरित्रे तस्य पारणके जैनबिम्बमभ्यर्च्य 'वेश्मगम् । तच्छेषामर्पयामास गत्वा तातस्य सन्निधौ ॥ ८ ॥ शीर्ष शेषां तथोत्सङ्गे पुत्रीमाधाय भूपतिः । तद्रूपवयसी वोच्य चेतस्येवमचिन्तयत् ॥ १० ॥ वरप्रदानयोग्येयं संजाता मम कन्यका | तद्भर्त्ता कोऽनुरूपोऽस्या भविष्यति नभश्वरः ॥ ११ ॥ कुरु पारणकं तावत् पुत्त्रोत्युक्त्वा विसृज्य ताम् । कार्य मन्त्रिलश्चात्मचिन्तितं तदजिज्ञपत् ॥ १२ ॥ उवाच सुश्रुतस्तेषु देवरत्नपुरे वरे | 'मयूरग्रोवस्तत्पुत्त्रोऽश्वग्रोवोऽस्ति खगेश्वरः ॥ १३ ॥ भरताईमहीभर्त्ता युक्तः पुत्रा वरो हि सः । बहुश्रुतोऽवदञ्चैतन्न युक्तं प्रतिभाति मे ॥ १४ ॥ यतोऽयं वर्त्तते व्वद्धस्तदन्यः कोऽपि रूपवान् । वयः शौलकुलैस्तुल्यो वरः पुत्राः करिष्यते ॥ १५ ॥ ततो लब्धावकाशेन प्रोचे सुमतिमन्त्रिणा | यथा देवोत्तरश्रेण्यां पुरी नाम प्रभङ्गरा १६ ॥ तत्र मेघधनो राजा तद्भार्या मेघमालिनी । पुत्रो विद्युत्प्रभः पुत्री ज्योतिर्माला तयोर्वरा ॥ १७ ॥ योग्यो विद्युत्प्रभः सोऽस्या युमत्पुत्राः पतिस्तथा । ज्योतिर्माला कुमारस्य पत्नी भवितुमर्हति ॥ १८ ॥ (१) च वेश्मनि । (२) खघ मयूरग्रीवस्तूरश्वग्रीवोऽस्ति वर खेचरः । मयूरग्रीवस्रवीत्रोऽस्ति खेचरेश्वरः ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy