SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ हितीयः प्रस्तावः । इतश्चात्रैव वैताब्य उत्तरश्रेणिभूषणम् । रथनूपुरचक्रवालाख्यमस्ति पुरं वरम् ॥ १॥ विद्याधरेन्द्रो ज्वलनजटी तनाभवहलो । स्वाहा वायुसखस्येव वायुवेगा च तप्रिया ॥ २ ॥ तत्कुक्षिसंभवो वैरिवारोवणतमोरविः । तस्यार्ककीर्त्तिरित्यासीत्यत्रोऽवप्रसूचितः ॥ ३ ॥ समधीतकलः सोऽय विनयादिगुणाञ्चितः । खुवराजपदेऽस्थापि पिना संप्राप्तयौवनः ॥ ४ ॥ पुत्री तदनुजा चन्द्रलेखास्वप्नोपसूचिता । आसीत् स्वयंप्रभानाम्नी खातन्वारहिता परम् ॥ ५ ॥ तत्राभिनन्दनजगनन्दनौ मुनिपुङ्गवौ । अन्येचुरागतौ व्योमचारिणौ पापहारिणौ ॥ ६ ॥ कन्या स्वयंप्रभा सा तु श्रुत्वा धर्म तदन्तिके । बभूव श्राविका शुद्धसामाचारी शुभाशया ॥ ७ ॥ साधू विजगतुस्तौ मां कन्या सा च स्वयंप्रभा । प्राप्ते पर्वदिनेऽन्येद्युः प्रपेदे पौषधव्रतम् ॥ ८॥ (१) ङ च -न्वितः। (२) च रूपातिशयशालिनी ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy