________________
१२८
श्रीशान्तिनाथचरित्र
वध्वाः सत्यश्रियस्तस्था भुञ्जानाया रहेऽन्यदा । उत्तालायाः कथमपि कवलो व्यलगद गले ॥ ७८ ॥ सोचे सत्यश्रिया पापे ! निशाचरि ! न भुञ्जमे । कवलेलघुभिः किं त्वं यथा नो विलगेगले ॥ ७० ॥ अन्येद्युः कर्मकृत् सोऽथ स्वामिनोक्तो यथाऽद्य भोः ! । ग्रामेऽमुभिन् प्रयाहीति कारणेनामुना त्वकम् ॥ ८० ॥ सोऽवदद् व्याकुलोऽद्याहं बन्धूनां मिलनेन हि । कुपितेन च तेनोक्तं स्वजना मा मिलन्तु ते ॥ ८१ ॥ अत्रान्तरे मुनिहन्दं गृहे तस्य समागतम् । दानमस्मै प्रदेहीति भणिता चामुना प्रिया ॥ ८२ ॥ सुपात्रमिति हर्षेण तया तत्प्रतिलाभितम् । प्राशभक्तपानाद्यैरकताकारितैस्तथा ॥ ८३ ॥ दयो कर्मकरोऽप्येतो धन्यो याभ्यां महामुनी। काले निजग्टहायातौ भक्तितः प्रतिलाभितौ ॥ ८४ ॥ अत्रान्तरेऽपतत् तेषां त्रयाणामुपरि क्षणात् । क्षणिका तेन पञ्चत्वं सममेव गता हि ते ॥ ८५ ॥ सौधर्मकल्ये देवत्वं प्राप्ताश्च प्रीतिनिर्भराः । ततः क्षेमकरश्चयत्वा त्वमभूर्जगतीपते ! ॥ ८६ ॥ जीव: सत्यश्रियः सेयं सञ्जाता रत्नमञ्जरी। जीवः कर्मकरस्याभूत् मित्रानन्दः सखा तव ॥ ८७ ॥ बद्धं यद् येन दुष्कर्म वचसा पूर्वजन्मनि । तत्तस्योपस्थितं राजन् ! युष्माकमिह जन्मनि ॥ ८८ ॥