________________
हतीयः प्रस्तावः ।
१२७ सूरिः प्रोवाच ते देव्याः सोऽस्याः कुक्षौ समागतः । सुतत्वेन यतस्तेन भावना भाविता तदा ॥ ६८ ॥ जातः कमलगुप्ताख्यस्तव पुत्रः सुविक्रमः। पूर्व कुमारतां प्राप्य क्रमाद्राजा भविष्यति ॥ ६८ ॥ पुनः पप्रच्छ भूपाल: कथं तस्य महात्मनः । जाता निरागसोऽप्येवं तस्करस्येव पञ्चता ॥ ७० ॥ कलशसम्भवो देव्याः कथं वा समभूत् प्रभो!। मम बन्धुवियोगश्चाबाल्यादण्यभवत् कथम् ॥ ७१ ॥ नेहोऽधिकतरीऽस्माकं कथं वा भगवन् ! वद । इति पृष्टो मुनीन्द्रस्तु ज्ञात्वा ज्ञानेन सोऽवदत् ॥ ७२ ॥ इतो भवात् टतीये त्वं भवे क्षेमङ्कराभिधः । आसीः कौटुम्बिको राजन् ! सत्यश्रीस्तस्य गेहिनी ॥ ७३ ॥ चण्डसेनाभिध: कर्मकरः कर्मक्रियापटुः । बभूव च तयोर्भक्तोऽनुरतो विनयान्वितः ॥ ७४ ॥ तत्क्षेत्रे सोऽन्यदा कर्म कुर्वाणः कञ्चनाध्वगम् । परक्षेत्रे धान्यशम्बा' रहन्तं समलोकयत् ॥ ७५ ॥ ऊचे चैनमहो चौरमुल्लम्बय तराविति । न क्षेत्रवामिना तस्य विदधे किञ्चनापि तु ॥ ७६ ॥ दूनस्तहचसा सोऽथाध्वगः कर्मकताऽपि तत् । बद्धं क्रुधा चेष्टितेन कर्म दुर्वाक्यसम्भवम् ॥ ७७ ॥
(१) ञण द -सिङ्गा।