SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ हतीयः प्रस्तावः । १०१ विनिवार्य निजान् पत्तोन् सेनामुख्यानदोऽवदत् । यथा नयत मां पार्चमेकवारं महीपतेः ॥ ३॥ तथा चक्रे च तैस्तस्याभवद्राजा परामुखः । तत्राप्यभिमुखीभूय स नत्वैवं व्यजिज्ञपत् ॥ ४ ॥ मया मुक्ताऽस्ति या राजन् ! मञ्जूषा सा निरूप्यताम् । गृहीत्वा तहतं वस्तु पश्चात् कुर्याद्यथोचितम् ॥ ५ ॥ राजा प्रोवाच द्रव्येण मां विलोभ्य समौहमे । अरे त्वमात्मनो मोक्षमपराधे महत्यपि ॥ ६ ॥ मन्त्राचे नाथ ! मे प्राणास्तवाऽऽयत्ताः सदैव हि। परं प्रसादो मञ्जूषाऽवलोके क्रियतां मम ॥ ७ ॥ . ततस्तस्योपरोधेन लोकाभ्यर्थनया तथा।। उहाटयामास सर्वान् मञ्जषातालकान् नृपः ॥ ८॥ सवेणीकसव्यपाणिं सासिधेन्वितरं पुनः । मञ्जूषान्तः सुबुद्धिं तं बद्धक्रममुदक्षत ॥८॥ तं दृष्ट्वा विस्मयापन: पप्रच्छ सचिवं नृपः । किमेतदिति स प्रोचे नाहं जानामि किञ्चन ॥ १० ॥ जानात्येव भवान् राजन् ! यो हि भक्तेऽपि सर्वथा । व्यलोकं चिन्तयन् मूलच्छेदायोपस्थितो मम ॥ ११ ॥ परमार्थ ममाऽऽख्याहीत्युक्तो राज्ञाऽब्रवीत्पुनः । स्वामिन् ! केनापि रुष्टेन प्रचण्डव्यन्तरादिना ॥ १२ ॥ निर्दोषस्यापि पुत्रस्य दोष उत्पादितो मम। अन्यथैवं गोपितस्यावस्थाऽस्य कथमौदृशौ ॥ १३ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy