SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ १०० श्रीशान्तिनाथचरित्रे । राजा प्रोवाच हे मन्त्रिनिदं धर्मे नियोज्यताम् । विना भवन्तमेतेन धनेनाहं करोमि किम् || २ || भूयोऽपि सचिवः स्माऽऽह धर्मोऽयं हि नियोगिनाम् । यदार्थो वञ्चते नैव विपद्यपि धनादिना ॥ ८३ ॥ ततो राज्ञा प्रपन्नं तत् मन्त्री च जिनमन्दिरे । अष्टाहिकोत्सवं चक्रे स पूजयति स्म च ॥ १४॥ दीनानाथादिसत्त्वेभ्यो ददौ दानं यथोचितम् । शान्तिमुदुघोषयामासाभयदानं च देहिनाम् ॥ ८५ ॥ सनकवचैः पुमभिर्विविधायुधधारिभिः । गृहं च रक्षयामास तथा हयगजादिभिः ॥ ८६॥ एवं क्रमेण संप्राप्तेऽकस्मात्पञ्चदशे दिने | राजान्तःपुरमध्ये वागुदस्थादोदृशी स्फुटा ॥ ८७ ॥ यथा हि मन्त्रिणः पुत्रः सुबुद्धिर्नाम दुर्मतिः । राजपुत्राः केशपाशं छित्त्वा कापि ययावहो ॥ ८८ ॥ तच्छ्रुत्वा कुपितो राजा दयौ कर्मेदृशं व्यधात् । अतिसम्मानितो मूर्खो मुमूर्षुः सचिवात्मजः ॥ ८८ ॥ अस्यापराधे वढ्यो मे सकुटुम्बोऽपि मन्त्रासौ । इति च ज्ञापयामास पार्षद्यानखिलांस्ततः १०० ॥ सर्वोऽपि मारणीयोऽस्य मोच्या नो कर्मकर्यपि । इत्यादिश्य बलं मन्त्रिग्टहे प्रैषोन्नराधिपः ॥ १ ॥ तदमात्यभटैरुवं ग्टहं चैत्यपुरः स तु । सुधोर्ध्यानमिविष्टः सन् वृत्तान्तमशृणोदमुम् ॥ २ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy