SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः। दत्ताशीवचनः सोऽथोपविष्टो विष्टर वरे। . कियज्ञानं तवास्तौति पृष्टो राजेत्यभाषत ॥ ८१ ॥ राजन् ! लाभमलाभं च जीवितं मरणं तथा। . सुखं दुःखं च जानामि गमनागमनं नृणाम् ॥ २ ॥ राजोचे मत्यरीवारमध्ये त्वं यस्य कस्यचित् । पश्यस्थत्यद्भुतं किञ्चित् पक्षान्तस्तनिवेदय ॥ ८३ ॥ नैमित्तिकोऽवदत्तर्हि ज्ञानगर्भस्य मन्त्रिणः । पश्यामि सकुटुम्बस्योपसर्ग मारणात्मकम् ॥ ८४ ॥ तच्छ्रुत्वा पौडितो राजा राजलोकस्तथाऽखिलः । अन्तर्दूनोऽपि मन्त्री तु साहित्थो ययौ ग्रहम् ॥ ८५ ॥ नैमित्तिकं सहानीय तमपृच्छद्रहस्यदः । अयि भद्र ! कुतो हेतोरापदं मम पश्यसि ॥ ८६ ॥ तेनापि तस्य साऽऽख्याता भाविनी ज्येष्ठनन्दनात् । . विसृष्टी ज्ञानगर्भेण सत्कत्य ज्ञान्यसौ ततः ॥ ८७ ॥ अभाणि तनयश्चैवं ममाऽऽदेशं करोषि चेत् । । आपत्रिस्तीर्यते वत्स ! तदियं जीवितान्तकृत् ॥ ८८ ॥ यदादिशसि मे तात ! कृत्यं खेतमथासितम् । सदवश्यं मया कार्यमित्यूचे विनयो स तु ॥ ८८ ॥ ततः पुरुषमानायां मञ्जूषायां महामतिः । सचिवस्तं निचिक्षेप नौराहारादिसंयुतम् ॥ ८ ॥ दत्ताष्टतालकां तां च महीभर्तुः समार्पयत् । देवेदं मम सर्वस्वं रक्ष्यं चेति व्यजिज्ञपत् ॥ ८१ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy