SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ C श्रीशान्तिनाथचरित्रे इदं सत्यमसत्यं वा परिहासवचो ऽथवा। कार्यः पुरुषकारो हि तथापि पुरुषेण भोः ॥ ७१ ॥ मित्रानन्दोऽवदहेवायत्ते किं नाम पौरुषम् । प्रत्यूचे चामरस्तं नाश्रौषौकिन्तु भवानदः ॥ ७२ ॥ आपत् निमित्तदृष्टाऽपि जीवितान्तविधायिनी। शान्ता पुरुषकारेण ज्ञानगर्भस्य मन्त्रिण: ॥ ७३ ॥ ज्ञानगर्भः स को मन्त्रीति मित्रेणोदितः पुनः । अमरः कथयामास तदने तत्कथामिति ॥ ७४ ॥ अस्त्यत्र भरते धान्यधना बन्धुरा पुरी। चम्पेति पृथिवीख्याता 'लङ्कायाः सदृशा गुणैः ॥ ७५ ॥ जितशत्रु पस्तनाभवत्कोतियशोनिधिः । दृप्ताय॑नेककुम्भौन्द्रकुम्भपाटनकेसरी ॥ ७६ ॥ राज्ये सर्वेश्वरस्तस्याभवन्मन्त्री पुरोदितः । बुद्ध्याऽवगणितो येन गुरुः स्वौकसामपि ॥ ७७ ॥ भार्या गुणावलो तस्य पुत्रस्तत्कुक्षिसम्भवः । सुबुद्धिनामा तस्याभूत् रूपश्रीविजितस्मरः ॥ ७८ ॥ उपविष्टोऽन्यदाऽऽस्थाने नृपमण्डलसेवितः । सहितो मन्त्रिवर्गेण यावदासोन्महीपतिः ॥ ७ ॥ आययौ तावदष्टाङ्गनिमित्तज्ञानपण्डितः । नृपपर्षदि ना कश्चित् प्रतीहारनिवेदितः ॥ ८० ॥ (2) ङ च छलकायाः।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy