SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथचरित्रे तच्छ्रुत्वा विस्मिताः सर्वेऽप्येवमूचुः सभासदः । अहो अस्मत्प्रभोर्ज्ञानं कालत्रितयदीपकम् ॥ ५६ ॥ साऽथ शान्तिमती वायुवेगश्चाऽजितमेनकः । वयोऽपि चक्रिणं नत्वा जग्मुस्ते स्थानमात्मन: ॥ ५७ ॥ कुमारस्य सहस्रायुधस्याथ तनयोऽभवत्। जवनाकुक्षिसञ्जातो नाना कनकशक्तिकः ॥ ५८॥ आद्या कनकमाला वसन्तसेना तथाऽपरा। उभे बभूवतुस्तस्य प्रिये तुल्यकुलोद्भवे ॥ ५८ ॥ क्रीडां कर्तुमथाऽन्येद्युः स गतो गहनं वनम् । ददर्शकं प्रकुर्वन्तं पतनोत्पतने नरम् ॥ ६० ॥ पृष्टोऽत्र कारणं तेन सोऽवदद् खेचरोऽस्माहम् । वैताब्यवासी सर्वत्रास्वलितो विचरामि भोः ! ॥ ६१ ॥ इहागत्य चिरं स्थित्वा गच्छत: पुनरेव मे । पदमेकं खगामिन्या विद्याया भद्र ! विस्मृतम् ॥ ३२ ॥ ततो गन्तुमनीशोऽहं करोम्येवंविधक्रियाम् । कुमार: स्माऽऽह भोः ! तावत् पठ विद्यां ममाग्रतः । ६३॥ विद्याधरोऽप्यपाठीत् तां सत्पुमानिति तत्पुरः । पदानुसारिलब्धया कुमार: पूरयति स्म तत् ॥ ६४ ॥ खेचरोऽथ कुमाराय स्वविद्यां प्रददौ मुदा। तेन प्रणोतविधिना साधयामास सोऽपि ताम् ॥ ६५ ॥ (१) ङ समगाद् । (२) घ ङ पतनोत्पतनम ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy