SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः। २१३ स्वस्थानमगमत् खेटः कुमारोऽपि यदृच्छया । विद्याबलेन बभ्राम प्रियाययुतो भुवि ॥ ६६ ॥ हिमवन्तमथान्येद्युः शिलोच्चयमगादसौ। ददर्श चात्र विपुलमतिं विद्याधरं मुनिम् ॥ ६७ ॥ प्रणम्य चरणौ तस्य कुमार: प्रेयसीयुतः । निषसाद यथास्थानं मुनिश्चक्रे च देशनाम् ॥ ६८ ॥ कुलं रूपं कलाऽभ्यासो विद्या लक्ष्मीर्वराङ्गना। एखयं सुप्रभुत्वं च धर्मेणैव प्रजायते ॥ ६८ ॥ धर्मश्चतुर्विधो येन भवेत् पूर्वभवे कृतः । स मनोवाञ्छितं सर्वं लभते पुण्यसारवत् ॥ ७० ॥ पुण्यसारः प्रभो ! कोऽसाविति पृष्टोऽमुना मुनिः । तत्कथां कथयामास 'प्रतिबोधविधायिनीम् ॥ ७१ ॥ अस्त्यत्र भरतक्षेत्रे जीवाजीवाऽऽदितत्त्ववत् । नानाऽमृतमनोहारि पुरं गोपालयाऽऽह्वयम् ॥ ७२ ॥ पुरन्दरसमयीको धर्मार्थी राजमानितः ।। महाजनस्य मुख्योऽभूत् तत्र श्रेष्ठी पुरन्दरः ॥ ७३ ॥ भक्त्या पत्यौ तथा देवे गुरौ गुणगणाऽन्विता । बभूव गहिनी तस्य पुण्य श्रोरिति विश्रुता ॥ ७४ ॥ पतिवाल्लभ्यसौभाग्यभाग्यवत्याः शुभाऽऽकृतः । अप्येकं दूषणं, लस्याः शरीर निरपत्यता ॥ ७५ ॥ (१) जर प्रतिबोधकरीमिमाम् । (२) ञ ट द -खोकवत् ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy