________________
चतुर्थः प्रस्तावः ।
२११ सेयं मृत्वा समुत्पना पुत्री शान्तिमती तव । अस्याः प्राग्भवभर्ताऽयं खेचरोऽजितसेनकः ॥ ४६ ॥ 'दृष्ट्वा विद्यां साधयन्ती समुचिप्ता विहायसा । इयं पूर्वभवस्नेहमोहितेनाऽमुना ध्रुवम् ॥ ४७ ॥ तत: पवनवेग ! त्वं त्वं च शान्तिमति ! स्फुटम् । मुञ्च कोपं धृताटोपमस्योपरि निरर्थकम् ॥ ४८ ॥ इति वज्रायुधवाक्यं श्रुत्वा तौ सा च बालिका। अन्योन्यं क्षमयन्ति स्मापराधं प्रोतचेतसः ॥ ४ ॥ पुनथको समाचख्यौ समुद्दिश्य सभाजनम् । अतीतमुक्तमतेषां भविष्यत् कथयामि भोः ! ॥ ५० ॥ अमूभ्यां सहिता शान्तिमती दीक्षा ग्रहीष्यति । रत्नावलीतपः कवाऽनशनेन विपल्यते ॥ ५१ ॥ साधिकसागरहन्द स्थितिवृषभवाहनः । स्वामी समस्तदेवानामीशानन्द्रो भविष्यति ॥ ५२ ॥ वायुगत्यजितसेननाम्नो: साध्वोस्तदा पुनः । घातिकर्मेन्धने दग्धे भावि केवलमुत्तमम् ॥ ५३ ॥ केवलज्ञानमहिमां तयोः कृत्वाऽर्चनं तथा । स्वस्याङ्गस्य निजं स्थानमीशानेन्द्रो गमिष्यति ॥ ५४ ॥ इन्द्रोऽपि हि ततश्चात्वा कुले लब्धा मनुष्यताम् । दीक्षां चाऽऽदाय निष्कर्मा निर्वाणं समवाप्स्यति ॥ ५५ ॥
(१) द दृष्टा विद्या साधयन्ती।