________________
२१०
श्रीशान्तिनायचरित्र
महेन्द्रविक्रमस्याऽभूत् तमयोऽजितसेनकः । तस्यापि कमलानाम्नी बभूव सहचारिणी ॥३६॥ (युग्मम् इतः स नलिनकेतू राज्यं संप्राप्य पैटकम् । प्रभङ्गराऽऽख्यया साई ग्रहवासमपालयत् ॥ ३७ ॥ अधिरूढोऽन्यदा भूमिं स्वप्रासादस्य सप्तमीम् । स ददर्शाञ्चितं मेधैः पञ्चवर्णेनभस्तलम् ॥ ३८ ॥ तस्य पश्यत एवेदं मेघवन्दं सकौतुकम् । प्रचण्डपवनक्षिप्तं 'खण्डखण्डं ययौ क्षणात् ॥ ३८ ॥ तदृष्ट्वा जातसंवेगः स दध्यौ द्रविणाऽऽदिकम् । सांसारिकमहो ! वस्तु सर्वमेतदिवाध्रुवम् ॥ ४० ॥ मयाऽज्ञानविमूढेन हरता हा ! परस्त्रियम् । क्षणिकस्य सुखस्यार्थे बहुपापमुपार्जितम् ॥ ४१ ॥ तत् प्रपद्य परिव्रज्यां तपोनियमवारिणा । पापकर्मविलिप्तं स्वं निर्मलं प्रकरोम्यहम् ॥ ४२ ॥ . निवेश्य तनयं राज्ये सोऽथ त्यक्त्वा नृपश्रियम् । उपाददे परिव्रज्या क्षेमङ्करजिनान्तिके ॥ ४३ ॥ विशुद्धा पालयित्वा तां समासाद्य च केवलम् । धौतकर्ममल: सिद्धिमासमाद स शुद्धधीः ॥ ४४ ॥ साऽपि प्रभङ्करानाम्रो सपः चान्द्रायणाभिधम् । गणिन्याः सुव्रताख्यायाः समीपे विदधेऽमलम् ॥ ४५ ॥
(१) स ध ङ ञ खण्डखमः ।