________________
चतुर्थः प्रस्तावः ।
२०६
होपस्यास्यैव विशदैरवतक्षेत्रमध्यगे । पुरे विष्यपुरे राजा विध्यदत्ताभिधोऽभवत् ॥ २५ ॥ पत्नी सुदक्षिणा तस्य जज्ञे तत्कुक्षिसम्भवः । तनयो नलिनकेतुरिति ख्यातो महीतले ॥ २६ ॥ तत्रैव नगरे धर्ममित्रसार्थयतेः सुतः । श्रीदत्ताकुक्षिसम्भूतो दत्तो नामाभवद् धनी ॥ २७ ॥ रूपेण रतिसङ्काशा कान्त्या चन्द्रप्रियासमा। जज्ञे प्रभङ्करानाम्नी दत्तस्य ग्रहिणी वरा ॥ २८ ॥ सुशृङ्गाररसमये वसन्तसमयेऽन्यदा। गत्वोद्यानवने दत्तः क्रीडति स्म तया सह ॥ २८ ॥ नृनाथतनयः सोऽथ दृष्ट्वा तां सुन्दराऽऽक्वतिम् । बाणैविषमबाणस्य पञ्चभिस्ताडितो हृदि ॥ ३० ॥ स्वामित्वयौवनैश्वर्यगर्वितः सोऽथ तां ततः । अपजड़ेगणयित्वा कलङ्गं कुलशीलयोः ॥ ३१ ॥ भुङ्क्ते स्म विषयसुखं कुमारः स तया सह । दत्तश्च तहियोगार्तो ययावुद्यानमन्यदा ॥ ३२ ॥ . सुसाधुः सुमनास्तत्र तत्कालोत्पन्नकेवलः । दृष्टोऽमुना वन्द्यमानो देवदानवमानवैः ॥ ३३ ॥ तेनापि वन्दितो भावसारं मुनिवरश्च सः । बोधयामास दत्तं तं धर्मदेशनयाऽग्राया ॥ ३४ ॥ कत्वा दानाऽऽदिकं धर्म मृत्वा चाऽऽयुःक्षयेऽथ सः । सुकच्छविजये वैताब्याद्रौ विद्याधरेशितुः ॥ ३५ ॥
२७