________________
द्वतीयः प्रस्तावः । १०३
१०३ अशोकशोकपुन्नागनागपूगप्रियङ्गुभिः । नारङ्गादिकदल्यामचारुश्च शोभितम् ॥ २५ ॥ प्रासादमेकमुत्तुङ्गप्राकारपरिवेष्टितम् । तहहिः पश्यतः स्मैतौ ध्वजराजिविराजितम् ॥२६॥(युग्मम्) मुखाऽद्धिकरशौचं तौ कृत्वा पुष्करिणीजले । अन्तः प्रविश्य प्रासादरूपलक्ष्मीमपश्यताम् ॥ २७ ॥ वर्णिकाऽप्सरसां विश्वकर्मणव विनिर्मिता । ददृशेऽमरदत्तेन तत्र पाञ्चलिकैकका ॥ २८ ॥ पश्यन्नेतामथोत्पश्योऽमरः स्मरशरातुरः । विदाञ्चकार नो तृष्णां न क्षुधां न श्रमं च सः ॥ २८ ॥ मध्याह्नसमये जाते मित्रेणेति प्रजल्पितः । आर्येहि नगरं यावो येनोच्छरं प्रवर्तते ॥ ३० ॥ स स्माह ननु भो भद्र ! क्षणं तावहिलम्बय । यावत्पाञ्चालिकामेतामहं पश्याम्यशेषतः ॥ ३१ ॥ कौतूहलेन याऽऽरूढा तस्यास्तुने कुचस्थले ।। परिश्रान्तेव तदृष्टिः स्थिता तत्रैव सा चिरम् ॥ ३२ ॥ पुनस्तथैव मित्रेण क्षणेनोक्तो जजल्प सः । चलामि चेदितः स्थानात् ततो मृत्युभवेन्मम ॥ ३३ ॥ मित्रानन्दो जगादेवं कृत्यात्य विदः सदा । काऽस्यां पाषाणमय्यां ते हन्त रागातिरकता ॥ ३४ ॥ यदि नारीरिएंसा ते ततः प्राप्तः पुरान्तरे ।
(१) सन-वैव।